________________
....... निपातार्थनिर्णयः ।
३५९
अत्रास्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । अयञ्चोत्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे सत्येव सङ्गच्छते । अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोध कत्वव्युत्पत्तिविरोधः ।
तथाहि । उसैरिति करणे तृतीया । न चास्रोत्र ( १ ) कर - णम् । इवार्थसदृशस्य करणत्वेऽपि ( २ ) तस्य करणत्वं नानेन बोधयितुं शक्यम् । अप्रकृत्यर्थत्वात् । इवशब्दस्य चाडसवार्थ। । कतया तदुत्तरतृतीयाया असम्भवात् । सम्भवे वा श्रवणमस ङ्गात् । उस्रपदोत्तरतृतीयानन्त्रयप्रसङ्गाच्चेत्याह- सुपां चेति ॥
उक्तव्युत्पत्तेर्निपातातिरिक्तविषयत्वेन पूर्वोक्तदोषपरिहारेऽपि स्थलान्तरे तन्मतेऽन्वयानुपपत्ति दुर्वारवेत्याशयेन मूलमवतारयति - *अपिचेति* ॥ *इत्यर्थ इति* ॥ इत्यन्वयबोधः सर्वसम्मत इत्यर्थः ॥ *अयश्चेति* ॥ उक्तार्थान्वयश्चेत्यर्थः ॥ *अन्यथेति* ॥ निपातानां वाचकत्वाभ्युपगम इत्यर्थः । व्युत्पत्तिविरोधं 'व्यक्तीकरोति-अत्र= उदीचोद्धारणे * तथाहीत्यादि* ॥
नन्विवशब्दोत्तरलुप्ततृतीयार्थकरण एत्रेवार्थान्वयः सुलभोऽत आ ह -* इवशब्दस्येति* ॥ *असत्त्वार्थकतयेति ॥ लिङ्गाद्यनन्वय्यर्थक तयेत्यर्थः । निपातत्वादिति यावत् ॥ एवञ्च कारकानन्वयितावच्छेदकरूपेणोपस्थितेऽर्थे कारकान्वयासम्भवेन तदर्थकतृतीयाया असम्भ वादिति भावः ॥ सम्भवे वेति ॥ वाकारोऽनास्थायाम् । अव्यये वंशब्दस्य काप्यदृष्टत्वात्तदभ्युद्गमे तु ततो विभक्तेस्तच्छ्रवणस्य च दुर्निवार्य्यतैव स्यादिति दूषणान्तरमाह -* उस्रपदोत्तरेति* *अन· न्वयप्रसङ्ग इति ॥ वाचकतावादिमत इति शेषः ।
इदमुपलक्षणं तृतीयाऽनुपपत्तेः । उस्रस्येवार्थसदृशान्वये उद्धर (१) अत्रेति । अत्रोदग्देशीयराजोद्धरणक्रियायामित्यर्थः । (२) करणत्वेऽपीति । उस्रसदशस्याभेदेन शरविशेषणतया प्र कृतक्रियायां करणत्वसम्भवेऽपीत्यर्थः ।