________________
३५८
दर्पणसहिते वैयाकरणभूषणसारे
अत एव 'घटो नास्ति' इत्यदौ घटपदं तत्प्रतियोगिके लाक्षणिक. मिति(१) नैयायिकाः ॥ ४४ ॥
अपि च निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति साधकान्तरमाह
शरैरुत्रैरिवोदीच्या नुद्धरिष्यन् रसानित्रं ॥ इत्यादावन्त्रयो न स्यात् सुपाञ्च श्रवणं ततः ॥ ४५ ॥
ति* ॥ समुच्चयादेस्तन्निरूपकत्वादेश्च समभिव्याहृतपदेनैव लाभातस्य पृथगुपस्थित्यभावेनाऽन्वयस्यैवाभावेनोक्तस्थलस्य तादृशव्युत्पत्त्यविषयत्वादिति भावः ॥ *अत एवेति ॥ व्युत्पत्तौ निपाताति रिक्तत्व विशेषणप्रवेशादेवेत्यर्थः ॥ * प्रतियोगिके लाक्षणिकमिति ॥ व्युत्पत्तेस्तद्घटितत्वे तु तत्र लक्षणानुसरणं व्यर्थमेव स्यादिति
भावः ॥
नैयायिकास्तु नञो वाचकताया भाष्यसम्मतत्वाद्, घटो न पट चैत्रो न पचतीत्यादौ नञर्थाभावस्य विशेषणतया घटचैत्रादिष्वन्वयाऽनुरोधादुक्तव्युत्पत्तौ व्यभिचारवारणाय निपाताऽतिरिक्तत्ववि - शेषणमावश्यकम् । एवञ्च घटश्च पदश्चेत्यादौ विभक्तिजन्योपस्थिति विनाऽपि चाऽर्थस्य घटादिष्वन्वयः लुलभः ।
न च घटो नेत्यत्र घटस्य नामार्थत्वाद्विभक्तिजन्योपस्थितिं विना प्रतियोगिता संसर्गकनञर्थविशेष्यबोधानुपपत्तिर्दुष्परिहरैवेति वाच्यम् । एतद्भियैव घटादिपदानां तत्प्रतियोगि के लक्षणाभ्युपगमात् निपातातिरिक्तनामार्थयोः साक्षाद्भेदेनाऽन्योऽव्युत्पन्न इत्यत्र द्विवचनस्वारस्येन निपातातिरिक्तनामार्थनिष्ठ भेदसम्बन्धावच्छिन्नप्र कारतानिरूपितनिपातार्थाऽवृत्तिविशेष्यतासम्बन्धेन बोधे, विशेव्यतासम्बन्धेन विभक्तिजन्योपस्थिते है लुत्व कल्पनाद्वा सामञ्जस्यादित्याहुः ॥ ४४ ॥
(१) लाक्षणिकमितीति । संकोचे तु लक्षणाकल्पनं निरर्थकमेव स्वात् । घटस्य घटत्वावच्छिन्नप्रतियोगिता कत्वसम्बन्धेन नञ. र्थाभावेऽन्ययसम्भवात् ।