________________
निपातार्थनिर्णयः ।
३५७
नेति शेषः । विभागेन - असदृशेन, असमानाधिकरणेनेति यावत् । अयमर्थः । समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिर्निपातातिरिक्तविषयेति कल्पने मानाभावो गौरवञ्च । अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः ।
नविभक्तिकपदोपस्थाप्यत्वेन सादृश्यस्य विवक्षणानोक्तदोष इति भावः । एवञ्च मूलेऽन्वे तीत्यन्तरमभेदे ने तीति शेषः । स्तोकम्पचतीत्यादौ विभिन्नविभक्तिकपदोपस्थाप्यत्व सदृशेनाप्यभेदान्वयादाह-*असमानाधिकरणेनेति ॥ विशेषवाचकपदप्रकृतिकविभक्तिवि. रुद्धार्थक विभक्तिप्रकृत्युपस्थाप्येनेत्यर्थः ।
ननु वाचकतावादिनोक्तव्युत्पतेर्निपातातिरिकत्वेन सङ्कोचनी•येत्युक्त्यैवाक्षेपध्रौव्ये मूले समानाधिकरणेत्यादिव्युत्पत्तिकथनेऽर्थान्तरमत आह-*अयमर्थ इति ॥ स चेत्थं "विभागेन कदाचन" इत्यनेन व्यधिकरणयोरभेदान्वयं व्यवच्छिन्दता नामथर्योर्भेदेनाऽन्वय इति व्युत्पत्तिरेव प्राधान्येन प्रदर्श्यते, नतु समानाधिकरणयोरितिव्युत्पत्त्यन्तरं तथा । किन्तु दृष्टान्तविधेयतया तदुपन्यसनमिति नोक्तदोषः ॥
तथाच प्रधानीभूतव्युत्पत्तावेव निपातेतरसङ्कोचोत्कर्त्तिनमिति सर्व सुस्थम् ।
ननु नामाऽर्थयोरभेदान्वयबोधे समानविभक्तिकपदजन्योपास्थितिहेतुतायां पदांशे निपाताऽतिरिक्तत्वं निवेशनीयमिति नोक्तदोष इत्यवतरणं तु सध्रीचीनम् । नच तादृशव्युत्पत्तेरप्रकान्तत्वात् कथ-मेतदिति वाच्यम् । मूलोक्तादिपदेनैव षष्ट्यादिकमन्तरेण भेदेनाsaयासम्भवं प्रतिपादयता समानविभक्तित्वेन धवश्चेत्यादावभेदान्वयापादनस्याऽपि कुक्षीकृतत्वात्तदेव च सामानाधिकरण्यं व्युत्पत्तौ निविष्टमिति यथाकृतमूलसङ्गमनादिति ।
ननु तदन्वयानुपपत्तिरेव मानमत आह-*गौरवश्चेति* ॥ ननु तवाऽपीदं दूषणं समानमत आह-*अस्माकमिति ॥ द्योतकतावादिनामित्यर्थः ॥ #द्योतकत्वादिति ॥ चादीनां समभिव्याहृत्तपदसमुचिततत्तदर्थरूपलक्ष्यार्थे तात्पर्य्यग्राहकत्वादित्यर्थः ॥ नास्ती