SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५६ दर्पणसहिते वैयाकरणभूषणसारे जसम्बन्धी पुरुष इत्यर्थापत्तेरित्यभिप्रेत्याह-आदीति ॥ धवखदिरयोः समुच्चय इतिवद् धवस्य च खदिरस्य चेत्येव स्यादिति भावः ॥ ४३ ॥ ननु प्रातिपदिकार्थयोर्भेदान्वयबोधे विरुद्धविभक्तिजन्योपस्थितिर्हेतुरिति कार्यकारणभावो निपाताऽतिरिक्तविषय एवेति नोक्तदोष इत्याशङ्कयाह पदार्थः सदृशाऽन्वेति विभागेन कदापि न ॥ निपातेतरसङ्काचे प्रमाणं किं विभावय ॥ ४४ ॥ सदृशा-सदृशेन समानाधिकरणेति यावत् । अन्वेति - अभेदे - षु खल्” ( पा० सू० ३।३।१२६ ) इत्यादिसूत्रात्मकं मानं पाणिपि. हितमिति विभावय । षष्टघादिकमित्यादिपदेन तदर्थविहितद्वितीयादिपरिग्रहः । अभेदातिरिक्तसम्बन्धावच्छिन्नप्रातिपदिकार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दत्वावच्छिन्नं प्रति विशे. व्यतया विभक्तिजन्योपस्थितेर्हेतुतया प्रकृते तदभावेन भेदान्वयासम्भव इत्यर्थः ॥ अन्यथा = उक्तकार्यकारणभावानभ्युपगमे ॥ *आपतेरिति ॥ भेदेनान्वयबोधापत्तेरित्यर्थः ॥ *आदीति ॥ भेदान्वयसङ्ग्राहकमादिपदमित्यर्थः ॥ ४३ ॥ *भेदान्वयेति* ॥ प्रातिपदिकार्थयोरभेदान्वय इति पाठस्तु ता दृशान्वयबोधे विभक्तिजन्योपस्थितेर्हेतुत्वस्य केनाऽप्यनभ्युपगमादप्रक्रान्तत्वाच्च चिन्त्यः ॥ * निपातातिरिक्तोत* ॥ तथाच समुच्च याद्यर्थस्य निपातार्थत्वेन न तेन साकं पदार्थान्तरस्य भेदान्वयानुपपत्तिरित्यर्थः ॥ सदृक्शब्दस्य समाना दृगितिव्युत्पन्नस्योपादानेऽनन्वयापत्या प्रकृते तुल्यरूढस्य, "तमिवेमं पश्यन्ति जना” इति भाध्ये कर्तुकर्म व्युत्पन्नस्य वा तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे -: शेनेति ॥ तुल्येनेत्यर्थः । -* सह. ननु विरुद्धविभक्तिकार्थस्यापि नामत्वादिना तुल्यत्वात् तेनाभेदेनान्वयापत्तिरत आह - * समानाधिकरणेनेति ॥ तथाच समा
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy