SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः । रवत्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदाष्टन्तिकावयुक्ताविति नेदं साधकमिति चेन्न । ३५६ नामाऽर्थधात्वर्थयोर्भेदेन साक्षादन्वयाऽसम्भवेन निपातधात्वर्थयोरन्वयासम्भवात् । अन्यथा तण्डुलः पचतीत्यत्रापि कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापतेरिति । । किञ्च, प्रादीनां वाचकवे 'भूयान् प्रकर्षः ' ' कीदृशो नि श्चय' इतिवद्, भूयान् प्र, कीदृशो निरियपि स्यात् । अस्मन्मते प्रादेरनर्थकत्वान्न तदन्वय इत्यतो द्योतकता तेषां स्यादिति । साधकान्तरमभिप्रेत्याह-विशेषणेति ॥ शोभनः समुच्चयो द्रष्टव्य इतिवच्छोभनश्च द्रष्टव्य इत्यस्यापत्तेस्तुल्य समाधेयत्वादिति ( १ ) भावः । अपि च निपातानां वाचकत्वे प्रातिपदिकार्थयोर्विना षष्ठयादिकं भेदेनान्वयासम्भवः । अन्यथा 'राजा पुरुष:' इलस्य रा *इदमिति ॥ सकर्मकत्वाऽनुपपत्तिरूपमित्यर्थः ॥ साधकं = द्योतक कत्वसाधकम् । व्युत्पत्तौ निपातातिरिक्तत्वविशेषणान्नियमापत्तिरत `आह-#किश्चेति॥ * इत्यपि स्यादिति। अभ्युच्चयवादोऽयं चाद्युपस्थाप्यसमुच्चयस्य नित्यं समुश्चेयसाकाङ्क्षतया समुच्चयार्थकपदप्र योगं विना चादिप्रयोगासम्भवात् । शब्दशक्तिस्वाभाव्येन नित्यं धातुपरतन्त्रोपसर्गैः स्वार्थस्य धात्वर्थविशेषणतयैव बोधनेन तदस: मभिव्याहारे तत्प्रयोगस्याप्यसम्भवात् । अत एव वक्ष्यति -*तुल्य: समाधेयत्वादिति ॥ ननु निपातानां वाचकत्वे, "चार्थे द्वन्द्व” ( पा० सू० २|२|२९) इत्यादिसूत्रमेव मानम् । प्रादीनां वाचकत्वे तु मानाऽनुपलम्भाद् द्योतकतैवोचितेति चेत् । तत् किम् “ईषदुः सुषु कृच्छ्राकृच्छ्रार्थे. (१) तुल्यसमाधेयत्वादिति । तुल्येन प्रादितुल्येन निरर्थकत्वहेतुना समाधातुं शक्यत्वादित्यर्थः । .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy