________________
दर्पणसहिते वैयाकरणभूषणसारे
तच्चादिषपि तुल्यमियाहतथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः ॥
३५४
विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः ॥ ४३ ॥
अन्यत्र=साक्षात्क्रियते अलङक्रियते, ऊरीक्रियते शिव इत्यादौ । अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकार सिद्धयर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवत् द्योतकत्वममीषामपीत्यर्थः । यद्यपि कृधातोः सकर्मकत्वमस्त्येव, तथाप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा, वायुर्वित्र कुरुते, सैन्धवा विकुर्व्वते इत्यत्रापि स्यादिति भावः ।
अथोपासनासाक्षात्कारादिर्निपातार्थोऽस्तु, “साक्षात्प्रत्यक्षतुल्ययोः" इति कोशस्वरसात । तदनुकूलो व्यापार एव धास्वर्थोऽस्तु । (१) स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापा
*तश्चादिष्विति ॥ तद् द्योतकत्वम् ॥*तचदर्थेति ॥ (२) तत्तद्र्थबोधकत्वमित्यर्थः ॥ * अमीषामिति ॥ चादिनिपातानामपीत्यर्थः । *अस्त्येवेति* ॥ घटः क्रियत इत्यादौ कर्म्मणि लकारदर्शनातू कृञः सकर्मकत्वानुपपत्त्या साक्षात्कारे लक्षणेति भावः ॥ * एवि ति* ॥ साक्षात्कारादिरूपार्थेष्वित्यर्थः ॥ * अन्यथेति ॥ कचिदर्थान्तरमादाय कृञः खकर्मकस्य सर्वत्र तत्त्वाङ्गीकारे इत्यर्थः ।
#वायुर्विकुरुत इति ॥ विकारानुकूलव्यापारावाचकस्याऽपि सकर्मकतापत्या "अकर्मकाश्च' (पा० सू० १।३।३५) इति विहितात्मनेपदानुपपत्तिरिति भावः । उपास्यते गुरुरित्यादावुपाद्युपसर्गाणामुपासनाद्यर्थवाचकत्वेऽपि पूर्वोक्तसकर्मकत्वानुपपत्तिं परिहरति
(१) स्वस्वयुक्तेत्यादि । स्वं धातुस्तद्युक्तनिपातश्च तयारन्यतस्यार्थभूतं यत्फलं तद्व्यधिकरणव्यापारवाचकत्वमित्यर्थः ।
(२) ननु - धातोस्तत्तदर्थे लक्षणा स्वीकार्येत्यनुपदमुक्तं तत् क. थमत्र धोर्वाचिकत्वमितिकथनमिति शङ्कां निर्दलयति तत्तदर्थ बोधकत्वमित्यर्थ इतिकथनेन ।