________________
मिपातार्यनिर्णयः। मेव द्योतकत्वमिति ।
तच चादिष्वपि तुल्गम् । चैत्रमिव पश्यतीसादौ सादृश्य. विशिष्टं चैत्रपदलक्ष्यम् । इवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति । तत्र स्वयं युक्त्यन्तरमाह-उपास्येते हरिहरौ इति ।। अत्र छुपासना किमुपसर्गार्थो, विशिष्टस्य धातुमात्रस्य वा । नाद्यः । तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्यामधातोरुपासनारूपफलवाचकत्वाभावादनापत्तेस्ततः कर्मणि लकारो न स्यात् । न द्वितीयो गौरवात्(१)। तृतीये त्वागतं द्योतकत्वम् । तात्पर्य्यग्राहकत्वलाभादिति भावः । दृश्यते इत्यत्र कर्मणीति शेषः ॥ ४२ ॥
तकत्वस्य वृत्त्यन्तरव्यवच्छेदः । अनुभवादिफले धातोस्तात्पर्यनाहकत्वस्योपसर्गसमभिव्याहाराधीनत्वात् “उपसर्गाः क्रियायो. गे" (पा० सू० १।४। ५९) इत्यत्रापि क्रियाविशेषणीभूताऽर्थतात्प. य॑ग्राहकत्वमेवोपसर्गाः क्रियायोग इत्यनेन विवक्षितामति भावः । एतत्तत्त्वमग्रे वक्ष्यते ॥ *तत्रेति* ॥ द्योतकत्व इत्यर्थः । सकर्मकत्व. स्येत्यनापत्तरित्यनेनाऽन्वितम् ।। __ ननु माऽस्तु सकर्मकत्वमत आह-*तत इति । उपोपसृष्टास् घातोरित्यर्थः । तथाचोपास्यते हरिरित्यादिप्रयोगानुपपत्तिरिति भा. वः॥ तृतीये स्विति ॥ धातुमात्रार्थ इति कल्पे स्वित्यर्थः । आ. गतमिति कर्तृत्तान्तम् । उपाद्यऽसमभिव्याहारे विना शक्तिं गम्धा. तोस्तादृशबोधादर्शनात्तस्येतरार्थपरतायामुपसर्गस्य नियामकत्व. लाभादिति भावः ।। ४२ ॥
. (१) गौरवादिति । विशिष्टस्य भ्वादिगणे पाठाभावाद्धातुत्वाना. पत्तिरपि दोषः। पाठकल्पनमपि न संभवति, द्विर्वचनाडादिव्यवस्थानुपपत्तः ।