SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५२ दर्पणसहिते वैयाकरणभूषणसारे प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अनुगच्छतीत्यादी अनुभवादिप्रत्ययापत्तेश्च । न विशिष्टार्थः (१)। गौर. वात् । तथाच धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा, उपसर्गस्तात्पर्यग्राहक इत्यस्तु । तथा च(२)तात्पर्यग्राहकत्व तीतिमभ्युपेत्य । वस्तुतस्तथा स्वीकारेऽक्रियार्थकत्वेन अनुभवादे. र्धातुत्वानापत्तरिति बोध्यम् । ___ नन्वनुभवार्थकत्वेऽपि तस्य फलस्थानीयत्वेन तदन्वयिव्यापारसामान्याऽर्थकाऽन्वादर्न धातुत्वानुपपत्तिरत आह-*अनुगच्छ. तीत्यादाविति* ॥ अत्रानोरनुभवाऽर्थकत्वे तदनुरोधेन गमेरपि व्या. पारसामान्याऽर्थकताया एवाऽभ्युपेयतया तथा प्रतीतिर्दुवारा स्यादित्यर्थः॥ वस्तुतस्तु संयोगाऽवरुद्धव्यापारेऽनुभवस्य बाधेनाऽन्वयासम्भ चानाऽनोरनुभवाऽर्थकत्वसम्भावनेति भावः ॥ *गौरवादिति ॥वि. शिष्टानुपूाः शक्ततावच्छेदकत्वे गौरवादित्यर्थः ॥ * तथाचति ॥ धातूपसर्गविशिष्टानां प्रत्येक प्रमीयमाणानुभवार्थप्रतिपादकत्वास. म्भवादिति सप्नुदिताऽर्थः । विद्यमानत्वादीत्यादिनोत्पत्तिर्गृहाते ।लक्ष. णत्यस्यानुभवादिरूपेऽर्थे इति शेषः। लक्षणाकल्पिकायास्तात्परानुप.. पत्तेस्ताप्तर्यग्रहाऽधीनतया तस्य चोपसर्गसमभिव्याहाराद्यायत्तत्वा. दित्यर्थः। नन्वेतावतोपसर्गस्य तात्पर्य्यग्राहकत्वमेव समायातं, न धोत. कत्वमत आह-*तथाचेति ॥ तात्पर्यग्राहकत्वमेवेत्येवकारेण द्यो. (१)न विशिष्टार्थ इति । उपसविशिष्टतत्तद्धातुवाच्यो नेत्यर्थः । (२) तात्पर्येति । अयमभिप्रायः । 'प्रतिष्ठते' इत्यादिषु उपसर्ग: स्याभाव शक्तिस्वीकारे तु 'नामार्थधात्वर्थयोः' इति व्युत्पत्तिसंको. चेऽपि गमननिवृत्त्यभावत्वरूपेणैव बोधः स्यानतु गमनत्वेनेति । तस्मात् गमत्वेनानुभवसिद्धबोधनिर्वाहार्थ धातोर्लक्षणावश्यकी । लक्षणास्वीकारे च उपसर्गसमभिव्याहारवैयापत्तिभिया धातोः कस्मिन्नर्थे लक्षणा कर्तव्येत्यत्र तात्पर्यग्राहकत्वमेवोपसर्गाणां द्योत. कत्वम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy