________________
निपातार्थनिर्णयः।
३५१ पेण बोधादित्यायन्यत्र विस्तरः॥४१॥ .. इति वैयाकरणभूषणसारे नमर्थनिर्णयः ॥ ७॥
॥ अथं निपातार्थनिर्णयः ॥ प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तम् । वैषम्य बीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयते
द्योतकाः प्रादयो येन निपाताश्चादयस्तथा ॥ उपास्येते हरिहरौ लकारो दृश्यते यथा ॥ ४२ ॥ येन हेतुना प्रादयो द्योतकास्तेनैव हेतुना चादयो निपातास्तथा द्योतका इत्यर्थः । अयं भावः । ईश्वरमनुभवतीयादाव. नुभवादिः प्रतीयमानो न धात्वर्थः। भवतीत्यत्राप्यापत्तेः । नोप. सर्गार्थः । तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयपातेः(१)।
धन्यत्र विस्तर इति* ॥४१॥
इति भूषणसारदर्पण नअर्थनिरूपणम् ॥ ७॥ प्रासङ्गिक निपातोपसर्गार्थनिरूपणमित्याशयेन मूलमवतारय. ति प्रादयो द्योतका इति*॥ द्योतकतारूपशक्तिमन्त इत्यर्थः । अत एक, 'प्रजयति' इत्यादौ न प्रकर्षाद्यर्थस्य विशेष्यतेति भावः । मता. न्तरे तु तात्पर्य ग्राहकत्वं द्योतकत्वं वक्ष्यति । तत्र, येनेत्यत्र यच्छ. ब्दो नोसरार्द्धपठितहतुमात्रपरामर्शकः, किन्तु हेत्वन्तरपरामर्शको. ऽीत्याह-*अयं भाव इति* ॥ *न धात्वर्थ इति* ॥ न तत्प्रयोगा. ऽन्तर्गतधातुशक्य इत्यर्थः ॥ *आपत्तेरिति * ॥ अनुभवादिप्रतीत्या. पत्तरित्यर्थः ॥ * नोपसर्गार्थ इति* ॥ न तद्धातुसमभिव्याहृतप्रादिशक्य इत्यर्थः । *अनन्वयापत्तरिति ॥ एतश्चानुभवादिमात्रप्र.
(१) ननु अन्वयव्यतिरेकाभ्यां लाघवात् उपसर्ग वाच्य एव सोऽस्त्विति शंकां परिहरति अनन्वयापत्तेरिति ।