________________
दर्पणसहिते वैयाकरणभूषणसारे न च चैत्रो न पचतीत्यादौ नराख्यातार्थभावनाभावबोधने, चै. त्रो न पचतश्चैत्रा न पचन्तीत्यादौ द्विवचनाद्यनुपपत्तिः। भवन्मते भा. वनाऽन्वयिनि सङ्खयान्वयनियमेन भावनान्वयिन्यभावे द्वित्वाद्यभावे. न द्विवचनादिना तस्य बोधयितुमशक्यत्वात् । वैयाकरणमते तु तत्र धात्वर्थक्रियाभावस्यैव नत्रा बोधनेन द्वित्वादिविशिष्टचैत्रकर्तृकक्रियाभाव इति बोधाऽभ्युपगमेन तादृशानुपपत्त्यभावादिति वाच्यम् ।
नसमाभिव्याहारे भावनाभावान्वयिनि तिर्थसङ्ख्यान्वय इति व्युत्पत्त्यन्तराभ्युपगमेन द्विवचनाद्युपपत्तेः । त्वन्मतेऽपि यच्चैत्रकर्त कः पाकोऽप्रसिद्धस्तत्र चैत्रो न पचतीति प्रयोगानुपपत्त्या क्रियाप्रति. योगिकाभावस्य नमः प्रत्याययितुमशक्यत्वाच्च ।
न च तत्र नत्रा भेद एव बोध्यते । प्रतियोगितया चैत्रादिविशिष्टस्य तस्याऽऽख्यातार्थकतर्येवाऽन्वयान्न तादृशप्रयोगानुपपत्तिरिति वाच्यम् । तथा सति प्रतियोगितासम्बन्धावच्छिन्नधात्वर्थप्रकारक. बोधे असमस्तनपदजन्योऽपस्थितेहेतुत्वस्याऽत्रैव व्यभिचारण त्व. सिद्धान्तव्याघातात । नसमभिव्याहारे आख्यातार्थभावनाऽन्व. य्यर्थकत्ववत् तत्समभिव्याहारे भावनान्वय्यर्थकत्वरूपसामानाधिकरण्यस्य युष्मदादौ सत्त्वान्न, न त्वं पचसीत्यादौ मध्यमादिपुरुषा. नुपपात्तः।
परन्तु, न नसमाभिव्याहारे स्वबोधकर्तृत्वबोधकत्वम् । त. त्समभिव्याहारे तु भूतपूर्व तदादाय पुरुषोपपत्तिरित्याहुः । इदं त्व. वधेयम् । नअसमभिव्याहारे प्रतियोग्यनुयोगिनार्यः सम्बन्धो भासते तत्समभिव्याहारे तत्सम्बन्धावच्छिन्नतदभावस्तदनुयोगिनि भास. त इति व्युत्पत्तन भूतले न घट इत्यादावन्योन्याभावबोधस्तनिया. मकं त्वादाववोक्तम् । परन्तु घटत्वादिविशिष्टोपस्थापकपदसमभिव्याहृतनादिपदस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटप्रकारकाभावशाब्दत्वस्य, तथा नीलादिसाकाजघटाधुपस्थापकपदसम. भिव्याहृतनपदस्य नीलघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन नलिघटादिप्रकारकशाब्दबुद्धित्वस्य कार्यतावच्छेदकत्वोपगमान नीलघटो न घट इत्यादिप्रयोगप्रसक्तिर्भवति च पीतो घटोन नीलघट इत्यादिप्रयोगोपपत्तिरित्याद्यन्यतोऽवधार्यमित्याशयवानाह-*इत्या.