________________
नञर्थनिर्णयः ।
३४९ र्त्तिता" इत्यस्यासङ्गभ्यापत्तेरिति चेत्, स्यादेव यद्यन्योन्याभावत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वरूपं निर्वक्तुं शक्यते । तदेव न, संयोगितादात्म्यस्य संयोगरूपतया संयोगात्यन्ताभावेऽति• व्याप्तिः । सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकतानिवेशेऽपि संयोगसम्बन्धावच्छिन्नसंयोगधर्मावच्छिन्नप्रतियोगिताका ऽत्यन्ताभावातिव्याप्तितादवस्थ्यात् । तादात्म्यत्वावच्छिन्नतादात्म्य संसर्गतां निवेश्य परिष्कृतस्य तस्य वाच्यतावच्छेदकत्वे तु घटस्तादात्म्येन न पट इति प्रयोगानुपपत्तिः । एवञ्च तादात्म्यस्याप्यान्याभावप्रतियो गितावच्छेदकसम्बन्धत्वमपि प्रामाणिकम् । इह संयोगेन घटो नास्तीतिवदयं तादात्म्येन घट इत्यादिप्रत्ययात् । एवञ्च तादृशानुयोगिताविशेषप्रकारताकत्वमेवाभेदसम्बन्धेन प्रतियोगिप्रकारकधीवि रोधित्वे तन्त्रमिति तदनुरोधेन नञः पृथगन्योन्याऽभावे शक्तिरावदियकेति ।
ननु नञोऽविशेषेणात्यन्ताभावबोधकत्वे, 'भूतले न घट' इत्या दिवाक्यजबोधेऽत्यन्ताभावभानापत्तिः । नच नञ्पदजन्यात्यन्ताभा हेतुत्वा
वबोधेऽनुयोगिवाचकपदोत्तरसप्तमीसमभिव्याहारज्ञानस्य नोक्तापत्तिरिति वाच्यम् । चैत्रो न पचतीत्यादिवाक्यजभावनात्यन्ताभावबोधे व्यभिचारेणोक्तकार्यकारणभावस्यैवासम्भवादिति चेत् ।
अत्र वदन्ति । यत्र नञ्समभिव्याहारे प्रतियोग्यनुयोगिनोराधाराधेयभावसंसर्गबोधोपयिकाकाङ्क्षा तत्रैव नञोऽत्यन्ताभावार्थकत्वोपगमेन नोक्तस्थले तद्बोधापत्तिः । तत्र नञ्समभिव्याहारे तादृशबोधौपयिकाकाङ्क्षाविरहात् । न पचति चैत्रो, नेदं चैत्रस्येत्यादौ नअसमभिव्याहारे तिङर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापित चैत्रादौ षष्ठयर्थस्वत्वस्येदं पदार्थ आधाराधेयभावबोधौपयिकप्रथमान्तपदादिसमभिव्याहाररूपाकाङ्क्षायाः सत्वेन तत्र नत्रा कृत्याद्यभावावबोधनसम्भवात् ।
एवञ्च यत्र प्रतियोग्यनुयोगिनोराधाराधेयभावः सप्तमीं विनाऽ • नुपपन्नस्तत्राऽनुयोगिवाचकपदात् सप्तम्यपेक्ष्यते । यथा भूतले न घट इत्यादौ । तदुक्तं दीधितिकृता । “वस्तुतो न पचति चैत्रो नें मैत्रस्येत्यादौ विभक्त्यर्थकृतिसम्बन्धादेरभावस्य बोधने नञा सप्तमी नापेक्ष्यते, अपेक्ष्यते च प्रातिपदिकार्थस्येति” इति ।