SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे प्रतियोगिताकाभावत्वम् ॥ *अन्योन्याभावेति ॥ अन्योन्यस्मिँस्ता दात्म्येनाभावाऽभवनमिति व्युत्पत्त्या तादात्म्यसम्बन्धावच्छिन्नप्र तियोगिताकाभावत्वमन्योन्याभावत्वम् । ताभ्यां शक्य इत्यर्थः । वस्तुतस्तु अत्यन्ताभावस्याभावत्वेनैव शक्यता, न तूक्तरूपेण । गौरवात् तेन रूपेण बोधस्याननुभवाश्च । अत एव " तत्सादृश्यमभावश्व" इत्यत्राभावत्वेनैवात्यन्ताभावापादानम् । ૨૪૮ नच नञः संयोगादिसम्बन्धावच्छिन्नप्रतियोगिताका भावत्वादिनामाचे शक्त्यनभ्युपगमे, 'भूतले न घट' इति वाक्यजबोधस्य संयोगसम्बन्धेन भूतलविशेष्यकघटविशिष्टबुद्धर्विरोधित्वानापत्तिस्तत्संसर्गावच्छिन्नतद्विशिष्टबुद्धौ तत्संसर्गावच्छिन्नप्रतियोगिताकत्वावगाहिन्या एव तदभाववुद्धः प्रतिबन्धकत्वादिति वाच्यम् । निरुक्ताभावत्वेन शक्तावपि संयोगादीनां लक्षणे तादात्म्येतरसम्बन्धत्वेनानुगतरूपणैव निवेशनीयतया नञ्पदशक्त्याऽप्यभावें विशिष्यसंयोगाऽवाच्छन्नप्रतियोगिताकत्वभानासम्भवात् प्रतिबन्धकत्वाऽनुपपत्तितादवस्थ्यात् । तादृशविशिष्टबुद्धिविरोधित्वाऽनुरो धेनाकाङ्गावलादेव तादृशप्रतियोगिताकत्वस्य विशिष्यप्रतियोग्यभावयोः सम्बन्धावधया भानस्योपगन्तव्यत्वात् । नन्वन्योन्याभावसाधारणाभावत्वस्य नञ्पदप्रवृत्तिनिमित्तत्वेऽन्योन्याभावे पृथक् शक्तिकल्पनानर्थक्यम् । नचाऽन्योन्याभावत्वप्रकारकबोधानुराधात्तस्यापि शक्यतावच्छेदकत्वकल्पनमावश्यक त्वम् । अन्यथा तादात्म्यसम्बन्धेन प्रतियोगिप्रकारकेऽयं घट इति बोधे, नाऽयं घट इति वाक्यजबुद्धेरप्रतिबन्धकत्वापत्तेः । अन्योन्याभावत्वावगाह्यभाव बुद्धेरेव तादृशबुद्धिविरोधित्वात् । घटाभाववा निति बुद्धेरपि तदूविरोधित्वापत्तश्चेति वाच्यम् । तात्राभावत्वस्य नञ्पदशक्त्या तादात्म्य सम्बन्धावच्छिन्नप्रतियोंगिताकत्वस्य समानविभक्तिकप्रतियोग्यनुयोगिवाचकपदयोः सम भिव्याहाररूपाकाङ्क्षाबलेन लाभेन तादात्म्यसम्बन्धावच्छिन्नप्रतियो गिताकाभावत्वस्याऽन्योन्याभावत्वावगाहितयैव तत्तद्बुद्धेः प्रतिबन्धकत्वोपपत्तौ तेन रूपेण शक्तिकल्पनस्याऽकिञ्चित्करत्वात् । न च नास्त्येव तदवच्छिन्ने शक्तिः पृथगुपादानं त्वभावसामान्यस्य नञर्थत्वलाभायैवेति वाच्यम् । तथा सति, "नञर्थाः षट् प्रकी
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy