________________
नअर्थनिर्णयः।
રૂ૪૭, इति रीत्या बोधः। असमस्तनमः क्रियायामेवान्वयात्(१)। स चाभावोऽन्यन्ताभावत्वान्योन्याभावत्वादिरूपेण शक्यस्तत्त.
दि* ॥ नर्थे युष्मदर्थान्वये तु प्रकृते पुरुषव्यवस्था न सिद्धदिति सूचयितुं पचसीति मध्यमपुरुषनिर्देशः । अधिकं स्वादावेवोक्तम् । इदमुपलक्षणं घटौ न स्त इत्यादौ द्विवचनाद्यनुपपत्तेः। क्रियाप्रतियोगिकाभावविशेष्यकबोधे हेतुमाह-*असमस्तनि* ॥ व्याख्यानात् नास्तदर्थस्य प्रसज्यप्रतिषेधस्य तादृशनार्थाऽभावनिष्ठविशेष्य. तानिरूपितप्रकारतासम्बन्धेन बोधो, धातुजन्योपस्थितर्भावनात्वा. वच्छिन्नविशेष्यतासम्बन्धेन हेतुत्वस्य पूर्वमुक्तत्वादिति भावः।। ... नन्वभावस्य केन रूपेण शक्यता । न तावदभावत्वेन । चैत्रो न पचतीत्यादावपि भेदबोधापत्तेः। प्रसज्यप्रतिषेधत्वेन शक्यत्वेऽपि स एव दोषः । भेदस्याऽपि योग्याउनुपलब्धिजन्यप्रत्यक्षविषयत्वात् । तदनुपस्थितावपि नञोऽभावबोधाच्चत्यत आह-*स चेति ॥ अ. भावश्चेत्यर्थः । तथाच नोऽन्योन्याभावत्वेनात्यन्ताभावत्वेन वाs. भावे शक्तिकल्पनान्न दोषः। . *अत्यन्ताभावत्वेति* अन्तं स्वप्रतियोगिनिष्ठाभावप्रतियोगित्व. मतिक्रान्तो व्यभिचरितोऽत्यन्तः । स चासावभावश्चोते विग्रहः । तस्य भावम्तत्वम् । स्वप्रतियोगिनिष्ठाभावप्रतियोगित्वव्यभिचारीतियावत् । अन्त्यो जघन्यं चरममित्यमरेणाऽन्त्यशब्दस्य जघन्ये वृत्तिः बोधनाजघन्यत्वं चोक्तार्थस्य जघनवृत्तिबोध्यत्वात् । घटात्यन्ता. भावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्रतियोगित्वाभाववति घटवृत्ति. धर्मे सत्त्वात्तत्वं तत्राऽक्षतम् । घटान्योन्याभावस्य तु स्वप्रतियोगि. निष्ठान्योन्याभावप्रतियोगित्वव्यापकत्वात्तव्यावृत्तिः । व्युत्पत्तिप्रद र्शनं चेदम् । लक्षणं त्वत्यन्नाभावस्य तदात्म्यतरसम्बन्धावच्छिन्न
(१) अत्र क्रियाग्रहणं गुणस्याप्युपलक्षणम् । अत एव नसूत्रे भाग्यकारेणाक्तम्-"प्रसज्य क्रियागुणा ततः पश्चानिवृतिं करोति" इति । गुणोदाहरणं तु 'न न एकं प्रियम्' 'न सन्देहः' इत्यादि बोध्यम्-अत्रोकप्रियप्रतिषेधेन बहुप्रियप्रतीतिर्भवति । न सन्देह. इत्यत्र सन्देहाभावप्रतीतिः। संदेहप्रिययोर्गुणत्वादिति ।