________________
३४६ दर्पणसहिते वैयाकरणभूषणसारे
"सेव्यतेऽनेकया" इत्यत्रापि योषयेति विशेष्यानुगेधात् प्रत्येक सेवनान्वयबोधनाय चैकवचनं, न तूत्तरपदाऽर्थप्राधान्यप्रयुक्तम्(१)। अत एव, “पतन्त्यनेके जलधेरिवोर्मयः" इसादिकमपि सूपपादम् । अवं भवसीत्यादौ युष्मदस्मदोस्तद्भिन्ने लक्षणा । नञ् द्योतकः। तथाच भिन्नेन युष्मदर्थेन तिङः सा. मानाधिकरण्यात पुरुषव्यवस्था। त्वद्भिन्नाभिन्नायिका भवनक्रियेति शाब्दबोधः। . एवं, न त्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाऽभावः । घटो नास्तीसत्र घटाभिन्नाश्रयकास्तित्वाभाव
चित् सार्थकमप्येकवचनमिष्यत एवेत्याह-*प्रत्येकमिति । एक. भिन्नत्वेनोपस्थितासु प्रत्येक सेवनाऽन्वयबोधायेत्यर्थः। उपसंहरति *न विति* । अत एवेति । अनेकशब्दस्यैकभिन्नाऽर्थकत्वादेवेत्यर्थः।
* सूपपादमिति । भेदप्रतियोग्येकाऽर्थकत्वे तु दुरुपपादं स्यादेकः शेषेण समर्थनं त्वगतिकगतिरिति भावः। भाग्योदाहृते,"नैकस्तिष्ठति" इति प्रयोगे जन इत्यध्याहार्यम् । प्रत्येकं स्थित्यन्वयबोधार्थ च तत्रै. कवचनम् । अनेको जना इति त्वसाध्वव । उत्तरपदार्थप्राधान्यादि. व्यपदेशस्तु प्रायिक इत्याद्यपि बोध्यम् । अत्वं भवसीत्यादिनाऽनहम्भवामीत्यादिह्यते । युष्मद इत्यस्मदोप्युपलक्षणम् । एवं त्वद्भि. न इत्यत्रापि लक्षणेति तु नैयायिकाद्यनुसारेण । स्वमते तदनभ्युप. गमात् । अत्वम्भवसीत्यादावारोपादिबोधस्य सर्वानुभवविरुद्धत्वान. असमासे सर्वत्रोत्तरपदस्य स्वाऽर्थभिन्नलाक्षणिकत्वमेव युक्तमिति भावः॥ ___ प्रसज्ज्यप्रतिषेधार्थकनञो व्यवस्थामाह-*एवं न त्वं पचसीत्या.- (१) उत्तरपदाति । तथाच 'सव्यतेऽनेकया' इतिप्रयोगानुरोधात् उत्तरपदार्थप्राधान्यं नास्थेयमेकवचनान्तस्यान्यथासिद्धत्वा. दिति भावः।