________________
नार्थनिर्णयः।
३४५ मास इति हि विशेषणम् । नच तत्र तच्छब्दस्य सर्वनामताऽ. स्ति । गौणत्वात् । अकोरित्यकसहितव्यावृत्या सर्वनाम्नोरेव तत्र ग्रहणलाभात् । तथाचानसमास इति ज्ञापकं सुवचम् ।
"अनेकमन्यपदार्थे" इत्यादावेकवचनं विशेष्यानुरोधात् । "मुबामन्त्रिते पराङ्गवत् स्वरे" (पा० सू० २।१।२) इ. त्यतोऽनुवर्तमानं मुग्रहणं विशेष्यमेकवचनान्तमेव । किश्चाऽनेकशब्दाद् द्विवचनोपादाने, बहूनां बहुवचनोपादाने द्वयोबहुब्रीहिर्न सिद्ध्यंदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गि
कं वा ।
- "एतत्तदो" (पा० सू०६।१।१३२ ) इत्यनेन परम्परसाहच.
र्यात् सर्वनामैतत्तद्भयां परस्य सोर्हलि लोपो विधीयते, । नञ्तत्पुरुषाऽन्तर्गतैतत्तदोरुपसर्जनतया सर्वनामत्वाभावादेवानतिप्रसङ्गे व्यर्थ सदनसमासग्रहणं नसमास गुणीभूतार्थस्यापि सर्वादेः सर्व नामताज्ञापनेन चरितार्थमिति भावः। साहचर्यज्ञापकत्वस्यासार्वत्रिकत्वं सूचयन् सूत्रे सर्वनाम्नोरेव ग्रहणे मानान्तरमाह-*अकोरिति । - असर्वनाम्नः सर्वनामविहिताकजसम्भवेन तत्पर्युदासात् सर्व नाम्नारेव तयोर्ग्रहणं निश्चीयत इत्यर्थः । एतत्कल्पे एतत्तदुत्तरस्य सोर्हलि लोप इति सूत्राऽर्थः । अर्थद्वारकसम्बन्धाश्रयणेन व्याख्यानं तु पूर्वकल्पाभिप्रायेणोत्तरपदलक्षणाभिप्रायेण वेति भावः । *विशेप्यानुरोधादिति* । असति विशेषानुशासने विषेशणवाचकपदस्य विशेष्यवाचकपदसमानवचनत्वानेयमादिति भावः।
ननु विशेषणस्य विशेष्यसङ्ख्याविरुद्धसंख्यावत्त्वेऽपि विशेषणवाचकपदात्तद्वचनमित्यत्र प्रमाणाभावोऽत आह-*किश्चेति । नन्व. नेकशब्दोपादानादेव द्वयोर्बहूनां वा तत्सिद्धर्द्विवचनबहुवचनयो. रपि समयपरिपालनार्थत्वसंभवादेकवचनोपादान व्यर्थमेवेत्यत आह*औत्सर्गिकं वति* । “एकवचनमुत्सर्गतः करिष्यते” इति,. "न केवला" इतिनियममूलकवचनविहितमित्यर्थः । सति तात्पर्य क.
४४