________________
दर्पणसहिते वैयाकरणभूषणसारे 3. अन्यथा त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदो. रन्वयेन युष्मत्सामानाधिकरण्यस्य तिङनसत्त्वात् पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नायि. का भवनक्रियेत्यन्वयात् सामानाधिकरण्य(१) नानुपपन्नामिति भावः।
विशेष्यो वेति । प्रतियोगिनीति शेषः । अयं भावः । गौ. णत्वेऽपि नसमासे, "एतत्तदोः सुलोपोऽकोरनममासे हलि" (पा० मू० ३६ । १ । १ ३२) ति ज्ञापकात् सर्वना. मसंज्ञा नानुपपन्ना । 'असः शिव' इत्यत्र सुलोपवारणायाऽनस.
* अन्यथेति * । नञर्थाभावस्योत्तरपदार्थाऽविशेषणत्वे तद्विशे. ध्यत्व इति यावत् । *पुरुषव्यवस्थेति । "युष्मापपद" ( पा०सू०. ४।१।१०५ ) इति सूत्रद्वयाऽविषयतया, “शेष प्रथमः" (पा० सू०४। १ । १०८) इत्यस्य प्रवृत्त्या प्रथमपुरुषस्यैवापत्तेरित्यर्थः । *नानुपपन्न. मिति । तथा चोक्तव्यवस्था सुलभेति भावः । ननु नार्थभेदस्य प्रतियोगितयोत्तरपदार्थाऽन्वये अघटमानयेत्यत्र स्वभेदप्रतियोगिः त्वस्य घटे सत्त्वात्तद्बोधानन्तरं घटानयनस्याऽऽप्यापत्तिरत आहमृले-विशेष्यो वेति । विशेषणाकाङ्क्षायामाह-सारे प्रति. योगिनीति* । उत्तरपदार्थरूपप्रतियोगिनीत्यर्थः । . निरूपितत्वं सप्तम्यर्थः। उत्तरपदार्थरूपप्रतियोगिनिष्ठविशेषण. तानिरूपितविशेष्यताश्रयो नार्थ इति यावत् । ननुतझुत्तरपदार्थाs. प्राधान्ये पूर्वोक्तदूषणगणो दुष्परिहरोऽत आह-*अयम्भाव इति । •गौणत्वेऽपीति* । नसमासघटकैतदाद्यर्थस्य नअर्थविशेषणत्वेऽ. पीत्यर्थः । *ज्ञापकादिति* | तत्सूत्रस्थानसमासग्रहणाज्ज्ञापकादित्यर्थः । ज्ञापकतामेव प्रपञ्चयति-* असः शिव इति*।
(१) सामानाधिकरण्यामिति =युष्मदादिसामानाधिकरण्यम् । युष्मदाद्यर्थगतसंख्याभिधायित्वमेव तत् सामानाधिकरण्यम् । ..