________________
नंअर्थनिर्णयः। .. . ३४३ विशेषणमिति प्रतियोगिनीति शेषः । तथाचासर्वपदे सर्वनामसंज्ञा । “अनेकमन्यपदार्थे," "सेव्यतेऽनेकया सन्नतापाङ्ग पा" इसादावेकशब्दार्थप्राधान्यादेकवचननियमः । 'अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात् तत्पुरुषत्वम् (१) । 'अत्वं भव. सि,' 'अनहं भवामि'इत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते ।
णादिबोधनवद् ब्राह्मणादिपदोपादानं तत्सादृश्यादिना क्षत्रियादियों धनार्थमित्यूहमूलकक्षत्रियादिबोधस्य भेदप्रतियोगी ब्राह्मण इत्या. दिशक्याऽर्थबोधोत्तरमेव सम्भवादिति भावः । तद्बोधे शाब्दत्वप्रः त्ययस्याऽनुभवाल्लक्षणयैव सादृश्यादिना ब्राह्मणादिबोध इति त्व. न्ये । विशेषणस्य विशष्यसाकारत्वादाह-*प्रतियोगिनीति* ॥ एवं चाऽब्राह्मण इत्यादेः प्रतियोगितया भेदविशिष्टो ब्राह्मण इत्याद्याकार. को बोध इति भावः । भेदस्य प्रतियोगितयोत्तरपदार्थान्वये उपपत्तिमाह-*तथाचेति॥
सर्वनामता चेत्यादि-प्रथमान्तचतुष्टयस्योपपद्यते इत्यनेनाऽन्व. यः। सवनामता-सर्वनामसंज्ञा । तदन्तविधिनेति शेषः । अन्यथा संशोपसर्जनानां सर्वादित्वाभावे तदर्थस्य नर्थविशेषणत्वे तत्सं. शानुपपत्तिरिति भावः । अनेकमित्यादावेकभिन्नमिति बोधे स्वीकियमाणे एकप्रतियोगिकमेदवति द्वित्वस्य बहुत्वस्थ वाऽवश्यम्भावे ततस्तद्बोधकद्विवचनबहुवचनयोरापत्तिरेकत्वार्थस्य तत्र बाधात्त. द्बोधकैकवचनस्यानुपपत्तिश्चेति भावः॥ _____ *तत्पुरुषत्वमिति*। भेदविशेषणत्वे तदनुपपत्तिः स्यात् । पुरुषेति । तिबादित्रिकसङ्कतितपुरुषेत्यर्थः । *वचनेति* । एकवचनत्वादिरूपेत्यर्थः । “अयुवां भवथ" इत्यादौ युष्मदस्मदर्थाभावविशे. ध्यकबोधे अभावे द्वित्वाद्यर्थस्य बोधाद् द्विवचनाद्यनुपपत्तिः । भावनाऽन्वयिन्येव सङ्ख्याऽन्वय इति त्वदभ्युपगमेनाऽन्याऽर्थगतसङ्ख्या मादाय द्विवचनाद्युपपादस्य कमशक्यत्वादिति भावः।
(१) तत्पुरुषत्वमिति । सति संभवे प्रायिकस्याप्युत्तरपदार्थप्रा. धान्यस्य तत्पुरुषे औचित्यमिति भावः ।