________________
दर्पणसहिते वैयाकरणभूषणसारे
अन्यथा सादृश्यादेरपि ( १ ) वाच्यतापत्तेः । यत्तु — तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षटू प्रकीर्त्तिताः ॥ इति पठित्वा, अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोडश्वेभ्यः, अधर्म इत्युदाहरन्ति । तत्त्वार्थिकार्थमभिप्रेत्येति स्पष्टमन्यत्र ।
३४२
न च तत्रापि पर्य्युदास एव नञा बोध्यते । नञा पर्युदासबोधने विशेष्यविशेषणवाचकपदयोः समानविभक्तित्वस्येव तयोः समानवचनस्यापि तन्त्रत्वात् । तस्य प्रकृतेऽभावात् । अन्यथा, न महतो राज्ञ इत्यादाविव न महतां राज्ञ इत्यादावपि महद्भेदप्रतीत्यापत्तिः । एको न द्वावितिवत् कथञ्चित् समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्य नैरर्थक्यप्रसङ्गश्च । ब्राह्मणेभ्यो दधि दातव्यं, कौण्डिन्याय नेत्यत एव कौण्डिन्यभिन्नब्राह्मणोद्देश्य कदधिदानबोधसम्भवादित्याहुः ।
विकल्पप्रसक्तिरूप दोषाऽभावेऽपि वाक्यभेदाऽऽपत्तेर्जागरूकतया समानविभक्तिकत्वादेस्तद्बोधनियामकस्य सत्त्वेन च नञः पर्युदासाऽर्थकत्वमेव, नाऽनुयाजेष्वित्यत्रोचितमिति तु परे ॥
प्रकृतमनुसरामः ॥ *अन्यथेति ॥ लाघवाऽनादरेणाऽऽरोपित. त्वस्य नञ्ंवाच्यत्वाऽभ्युपगमे इत्यर्थः ॥ सादृश्यादेरित्यादिना पठिष्यमाणाऽल्पत्वादेः सङ्ग्रहः । अब्राह्मण इत्यादेर्ब्राह्मणसदृशः, पाकाभावोश्वभिन्नोऽल्पोदरा गवाश्वेतरा पशवोऽप्रशस्ता धर्मविरुद्ध इत्यादिक्रमेणाऽर्थः । ननु सादृश्यादेरवाच्यत्वे कथं ततस्तद्बोधोऽत आह- *तत्विति ॥ तत्पठनं त्वित्यर्थः ॥ *अभिप्रेत्येति ॥ भेदप्रतियोगित्व प्रकार कब्राह्मणादिबोधाऽनन्तरभाविमानस बोधमभिप्रेत्येत्यर्थः ॥
ब्राह्मणादिबोधस्य तत्पदादेव सम्भवाद्भेदप्रतियोगित्वेन ब्राह्म
(१) सादृश्यादेरपीति । सादृश्यादेरपि 'अब्राह्मण' इत्यादौ प्रती यमानत्वाद्वाच्यतापत्तेरित्यर्थः ।