SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ . . नअर्थनिर्णयः। . ३४१ स्त्यक्तप्रामाण्यस्वीकारश्चेति दोषद्वयम् । चतुर्थे यवोपादाने ब्रीहिशास्त्रस्यास्वीकृताप्रामाण्यस्वीकारः स्वीकृतप्रामाण्यत्यागश्चेति दोषद्वयमिति चत्वारोऽपीत्यष्टदोषविकल्पापत्त्या नअनुयाजपदाभ्या. मनुयाजभेदो बोध्यते । सोऽयं पर्युदासः । अस्मिश्च पक्षे, येयजा. मही न कर्तव्यतया विधीयते । 'यजतिषु ये यजामहङ्करोति' इत्यनेनैव तद्विधानात् । किन्तु सामान्यशास्त्रविहितयेयजामहमनद्य त. स्याऽनुयाजव्यतिरिक्तविषयता बोध्यते। . तथाच सामान्यशास्त्रस्य विशेषविधिसापेक्षत्वान्नानुयाजवि. त्यनेनानुयाजव्यतिरिक्तविषयसमर्पणादनुयाजव्यतिरिक्तेषु, ये य. जामहः कर्तव्यतया प्रतीयतेऽनुयाजेषु तु न कर्तव्यतया प्राप्तो, ना. ऽपि प्रतिषिद्धः स इति न विकल्पः । नच नआ निषेधबोधनेऽपि प. दशास्त्रेणाऽऽहवनीयशास्त्रस्येव,(१)नाऽनुयाजेग्विति विशेषशास्त्रेण यजतिषु ये यजामहङ्करोतीतिसामान्यशास्त्रस्यबाधान विकिल्प इति वाच्यम् । __ परस्परनिरपेक्षयोर्हि बाध्यबाधकभावः । पदशास्त्रेणाऽऽहवनीय. शास्त्रस्यानपेक्षणात् स उचितः । निषेधशास्त्रस्य तु प्रतियोगिप्रसि. ध्यर्थमस्त्यपेक्षा विध्यर्थस्य । "प्रसक्तं हि प्रतिषियते” इति न्यायेन न तबाधोऽसम्भवात किन्तूक्तयुक्त्या विकल्प एव । तथा च द्विरह. ष्टकल्पनाप्रसङ्गोऽपि । विधेह्येवं ज्ञायते । यदनुयाजेषु येयजामहकरणेन कश्चनोपकारो भवति निषेधाच्च तदकरणादनृतवदनाकरणादि. व(२)दर्शपूर्णमासयोः । स चोपकारो दृष्टरूप एवेत्यतोऽपि विकल्पोन युक्त इत्याहुः॥ ___अत्र केचित् । निषेधशास्त्राऽनालोचमेन सामान्यशास्त्रालोचनमा. त्रेण भ्रमात्मकप्रतियोगिप्रसिद्धाऽभावबोधनसम्भवेन विकल्पाप्रस. तेः। विशेषनिषेधे सामान्यविधेस्तदितरपरत्वस्य ब्राह्मणेभ्यो द. धि दातव्यं कौण्डिन्याय न दातव्यमित्यादौ व्युत्पत्तिसिद्धत्वाच । (१) "आवहनीये जुहोति" इति सामान्यशास्त्रप्राप्तहोमाधिकरणं "पदे जुहोति" इति विशेषशास्त्रेण यथा बाध्यते तददिति । (२) यथा दर्शपूर्णमासयागे "नानृतं वदेत्” इति श्रूयते-तत्रानृतवदनाकरणेन न किञ्चिदष्टं प्रयोजनं लभ्यते किन्तु यागे-कश्च. नादृष्ट उपकार एवेति यथा कल्प्यते तथेति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy