________________
३४० दर्पणसहिते वैयाकरणभूषणसारे आ पर्युदासबोधः । उक्तवाक्ये यजतिशब्दो यागस्वरूपवचनः । त. थाचाऽनुयाजभिन्नेषु यागेषु ये यजामहशब्दवन्मन्त्रं करोति-उच्चार. यतीत्यर्थः । अत एवात्रानुयाजभिन्नेषु यजतिषु येयजामह पदवन्म. न्त्रप्रयोगरूपैकाऽर्थविधानादकविधेयार्थकत्वरूपैकवाक्यत्वमुपपद्यते । अन्यथा यागेषु येयजामहपदवन्मत्रविधानमनुयाजेषु निषेधविधा. नमिति विधेयद्वयार्थकत्वरूपवाक्यभेदापत्तेर्ययजामहपदानुषङ्गकल्पने गौरवाच्चेति भावः ॥ ___ अन्येतु-शास्त्रविहितप्रतिषिद्धत्वात, षोडशिग्रहण(१)वद्विकल्पापत्तेाऽनुयाजेष्वित्यत्र नञः प्रतिषेधार्थकत्वम् । तथाहि । क्रिया. याः कारकसाकाङ्क्षत्वाद् विनिगमनाविरहेण सकलकारकविशिष्टां प्रतियोगिभूतां भावनामुद्दिश्याऽभावविधिस्तत्र वाच्यः। एवञ्चोहेश्यस्य प्रसिद्ध्यर्थे तत्प्राप्तिरपेक्षिता। प्राप्तिसापेक्षत्वात् प्रतिषेधस्य । प्राप्तिश्च क्वचिद्रामतो, यथा "न कलशं भक्षयेत्” इति । तत्र कलाभक्षणादेरागत इष्टसाधनत्वाऽवगत्या प्रसक्तायाः कलञ्जभक्षणभा. वनाया निषेधशास्त्रेण निवृत्तिनिश्चयत्वेऽवगतेऽर्थात् तद्विषयकला. भक्षणस्यानिष्टसाधनस्वाक्षेपात् ततो निवृत्तिः। प्रकृते तु, ये यजामहङ्करोतीति शास्त्रादेव सा । एवञ्च निषेधस्य शास्त्रविषयत्वेन प्रा. बल्यवद् विधिशास्त्रस्याऽप्युपजीव्यत्वेन प्राबल्यान्निषेधेन विधेरत्यन्तबाधायोगाद् विकल्प एव प्राप्नोति । . विकल्प च, "व्रीहिभिर्जुहोति" "यवैवा" इत्यादौ प्रथमं ब्रीा. नुष्ठाने वेदस्य विपर्यासरूपमितिजनकत्वासम्भवाद्यवशास्त्रस्याप्राप्ताप्रामाण्यस्वीकारः, प्रतीतप्रामाण्यपरित्यागश्चेति दोषद्वयम् । प्रयोगान्तरे यवोपादाने यवशास्त्रस्य स्वीकृताप्रामाण्यपरित्यागः परित्यक्तप्रामाण्योपादानश्चेति दोषद्वयमिति चत्वारो दोषाः । पुनस्तृतीये प्रयोग व्रीयुपादाने व्रीहिशास्त्रस्य स्वीकृताऽप्रामाण्यपरित्याग.
(१) षोडशिग्रहणवाद्वकल्पापत्तेरिति । अत्र दृष्टान्तस्पष्टार्थस्तु"अतिरोत्र षोडशिनं गृह्णाति"। "नातिरात्रे षोडशिनं गृह्णाति" इति उभयविधो विधिदृश्यते । तत्र "अतिरोत्रे षोडशिनं" इति वाक्यवि. हित षोडशिग्रहणं "नातिरात्र"इति वाक्येन निषिध्यते इति अचरिता. र्थशास्त्रप्राप्तनिषिद्धत्वाद्विकल्पप्रसक्तिः। अत्र षोडशीपात्रविशेषः। अतिरात्रश्च यागविशषः । ... . . . .