SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ नर्थनिर्णयः। ३३९ ऽयं ब्राह्मण इति । ततो ऽब्राह्मणोऽयमिति प्रयुके। आतश्च तदुष्टगुणदर्शनाद् दृष्टोपदेशाद्वा ब्राह्मणत्वाद्यध्यवसायपूर्वकमेव नाऽयं ब्रा. ह्मण इति ज्ञानम् । न ह्ययं कालवर्णमापणे दृष्टाऽध्यवस्यति ब्राह्मणो. इयमिति । यथास्थितं वस्तुतत्त्वं तस्य निर्यात भवति" इति न. सूत्रभाष्यपालोचनया कैयटोक्ताऽर्थस्यैव साधुत्वं लभ्यते । तथा. पि तद्भाष्यस्याऽभेदप्रत्यक्षे क्वचिद् योग्याऽनुपलब्धेर्हेतुत्वप्रदर्शनप. रतयैवोपपत्तना आरोपवाचकत्वे तदुपष्टम्भकत्वाऽभावात् । अन्यथाऽत्यन्ताऽसदृशे उक्तयुक्त्या तदारोपासम्भवन तत्र न. र्थस्तदर्थकत्वासम्भवादघटः घट इत्यनापत्तेः। प्रतियोग्यभावाऽन्व. यौ तुल्ययोगक्षेमाविति तान्त्रिकोक्तीलो घट इत्यादौ तादात्म्येन घटांऽशे नीलपदार्थभानान्नसमभिव्याहारे तादात्म्यसम्बन्धावच्छि. अनीलाभावबोधस्य सर्वानुभवसिद्धस्य नोऽभावार्थकत्वं विना. मुपपत्तेनेदं रजतमिदं रजतमिति वाक्यजन्यबोधयोस्तत्तदभावानवगाहितया परस्परप्रतिबध्यप्रतिबन्धकभावाऽनापत्तेश्च नओ भेदा. र्थकत्वमावश्यकम् । नच नोऽभेदार्थकत्वेऽब्राह्मणमानयेत्यादितो ब्राह्मणभिन्नलोष्टा. देरपि बोधाऽऽपत्तिः । न चेष्टापत्तिः। “न ब्राह्मणमानयेत्युक्ते लोष्ट. मानीय कृती भवति" इति भाष्यविरोधादिति वाच्यम् । घटत्वेन घटार्थकघटपदातू सन्निहितव्यक्तिबोधवत् प्रकरणादिना ब्राह्मणभिः नमात्रार्थकाद् ब्राह्मणपदात् क्षत्रियादेरेव बोधसम्भवात् । तस्माद: घटो न पट इत्याद्यसमस्ते नमोऽभेद एव शक्ति दत्वस्वाखण्डोपा. धितया तस्य शक्यतावच्छेकत्वे लाघवात् । समासघटकस्य त. स्य तु नञ्पदस्य तद्भिन्ने लक्षणायां तात्पर्य्यग्राहकत्वमेव ॥ .. नद, "न ब्राह्मणैरेतैरुपद्रुतम्" इत्यादौ नो भेदार्थकत्वे तत्प्र. तियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वाऽनुपपत्तिः । सामा. नाधिकरण्याभावादिति वाच्यम् । प्रतियोग्यनुयोगिनोरभेदाऽन्वयः बोधौपयिकाकाङ्क्षायां सत्यामेव नया भेदबोधने तयोः समानविभक्ति. त्वस्य तदुपजीव्यत्वात् । एवञ्च ना भेदबोधनं प्रतियोग्यनुयोगिः वाचकपदयोः समानविभक्तिवचनत्वं नियामकमत एव 'भूतले न घट' इत्यादौ न भेदबोधः। दृश्यते च, "यजतिषु येयजामहं करोति नानुयाजेषु"इत्यत्र न.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy