________________
दर्पणसहिते वैयाकरणभूषणसारे भवविरुद्धत्वात् पक्षान्तरमाह
अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् ॥ विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥४१॥
तदर्थो नअर्थः । अर्थपदं द्योत्यत्ववाच्यत्वपक्षयोः साधा. रण्येन कीर्तनाय(१) ॥ भाष्यस्येति ॥ तथाच, नमूत्रे महाभाष्यम्-"निवृत्तपदार्थकः" इति । निवृत्तं पदार्थो यस्य । "नपुंसके भावे क्तः" (पा० सू० ३ । १ । ११४ ) इति . क्तः । अभावार्थक इत्यर्थः । यत्तु--निवृत्तः पदार्थो यस्मिन्नित्यर्थः । सादृश्यादिनाऽध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था य. स्येत्यर्थ इति कैयटः । तन्न । आरोपितब्राह्मण्यस्य क्षत्रियादे. नवाच्यत्वात् ।
इति दृष्टान्तार्थत्यवधेयम् । नञ्द्योत्यमित्यत्र नो विशेषणतया व्यव. धानेन चोपस्थितत्वेऽपि तत्पदादीनां बुद्धिस्थपरामर्शकत्वात्तदा त. त्परामर्शो नाऽनुचित इत्याह-तदर्थो नार्थ इति* ॥ *साधारण्ये. नेति* ॥ प्रकृतेऽर्थपदस्य तजन्यबोधविषयपरतया पक्षद्वयसंग्रहः। तत्रासति बाधके वाचकत्वमेव । सति तु तस्मिन् द्योतकतापीति भावः ॥ *नवाच्यत्वादिति* ॥
"यद्यप्युत्तरपदार्थप्राधान्येन नञ्तत्पुरुषस्य, ब्राह्मणस्याऽऽनयनं प्राप्नोति । नञः प्रयोगान्नार्थविशिष्टस्यानयनं भविष्यति । कापुनर. सौ नअर्थो ? निवृत्तपदार्थकः। ब्राह्मणदृष्टस्य गुणादेर्दशनाद् दृष्टो. पदेशाद्वा पूर्वमब्राह्मणोऽयमित्यध्यवस्यति । ततः पश्चादुपलभते ना.
(१) ननु द्योत्यार्थाभावस्य विशेष्यत्वस्वीकारे "हेतुमति च" इ. ति सूत्रभाष्यीयद्योत्यार्थानां विशेषणत्वमेवेति सिद्धान्तभङ्गापत्ति. रिति चेत् उभयपक्षत्वावच्छेदन विशेष्यविशेषणत्वं स्वीक्रियते नतु प्रत्येकपक्षत्वावच्छेदेन । तेन वाचकत्वपक्षे विशेष्यत्वं द्योतक. त्वपक्षे विशेषणत्वमेवेति नोक्तभाज्यविरोध इति बोध्यम् ।