SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ नत्रर्थनिर्णयः । TO भावविषयकबोधे तस्य विशेष्यताया ( १ ) एव दर्शनात् । अस्मद्रीत्या च स आर्थो बोधो मानसः । तथाचा सर्व्वस्मै इत्याद्यसिद्धिप्रसङ्ग इति । अत्र चारोपितत्वमारोपविषयत्वम् (२) । आरोपमात्रमर्थो विषयत्वं संसर्ग इति निष्कर्षः । द्योत्यत्वोक्तिर्निपातानां द्योतकत्वमभिप्रेत्य ||४०|| 'घटो नास्ति' 'अब्राह्मण' इत्यादावारोपबोधस्य सर्व्वानु 1 दाविति ॥ तस्य- नञर्थस्य ॥ नञर्थाऽभाववत्त्वस्य विशेष्यतायां तन्त्रत्वादिति भावः । ननु तवाप्यघटः पट इत्यतो घटभिन्नः पट इति सर्वसि प्रतीत्यनुपपत्तिरत आह *अस्मद्रीस्येति ॥ स-भेदबोधः ॥ *आर्थ इति । अर्थादुपस्थितिविषयादागत इत्यर्थः ॥ *मा नस इति* ॥ तत्र शाब्दत्वप्रत्ययस्त्वसिद्ध एवेति भावः । नन्वसर्वशब्दस्य सर्वनामत्वाभावे का क्षतिरत आह-*तथाचेति* ॥ *अत्र चेति * ॥ आरोपितत्वं नञ्वाच्यमिति कल्पे चेत्यर्थः ॥ *निष्कर्ष - इति* ॥ विषयत्वस्य संसर्गमर्थ्यादयैव लाभादनन्यलभ्यारोपस्यैव नञर्थत्वं न त्वारोपविषयत्वस्य गौरवादिति भावः । नन्वारोपस्य वाच्यत्वाभ्युपगमे द्योतकताप्रतिपादकमूलेविरोधोऽत आह-*द्योत्यत्वोक्तिरिति* ॥ वाच्यस्याऽपि तस्य विशेषणतैव नाभाववद्विशेष्यतेति सूचयितुमेव तथोक्तिरिति भावः ॥ ३९ ॥ *घटो नास्तीति* ॥ यद्यपि समासयोग्यनञ एवारोपाऽर्थकत्वं मूले उक्तं, तथापि घटो नाऽस्तीत्युक्तिरत्रेव तत्राऽप्यारोपाननुभव (१) 'घटो नास्ति' इत्यत्र 'घटाभावोऽस्तित्वाश्रय' इत्याकारकः 'घटकर्तृकसत्ताभाव' इत्याकारको वा बोधो ऽनुभवसिद्ध इति । (२) आरोप विषयत्वमिति । अयं भावः । 'अब्राह्मण' इत्यत्र आरोप: विषयत्वं नञर्थः । तस्य चोत्तरपदार्थे ब्राह्मणेऽन्वयः । आरोपश्च प्रत्यासत्या प्रवृत्तिनिवृत्तिप्रकारक एव गृह्यते । एवं च आरोपविषयत्ववान् ब्राह्मण इति बोधः । ४३
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy