Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 31
________________ ४ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं ||धनेनापि विसृष्टः सन् स दूतः शीघ्रमाययौ । आख्यच्च विक्रमेणाऽर्थं प्रतिपन्नं महीपतेः ॥८१॥ गत्वा नत्वा धनवत्यै लेखं हारं च सोऽर्पयन् । ऊचे तुभ्यं धनेनैतौ स्वहस्तलिखितार्पितौ ॥८२॥ गृह्णती पाणिपद्मेन हारमिन्दुकरामलम् । प्रस्फोट्य मुद्रां तं लेखं धनवत्यप्यवाचयत् ॥८३॥ 'यत् प्रमोदयते सूर्यः पद्मिनीं करपीडनात् । सोऽर्थः स्वभावसंसिद्धो न हि यांच्यामपेक्षते' ॥८४॥ वाचयित्वेति सा हृष्टा दध्यौ पुलकमालिनी । अन्वज्ञासीन् ममाऽर्थं स श्लोकार्थेनाऽमुना खलु ॥८५॥ अयं हि कण्ठे न्यासाय मुक्ताहारः सुधोज्ज्वलः । तेन स्वदोर्लता श्लेषसत्यङ्कारो ममाऽर्पितः ॥८६॥ एवं विचिन्त्य सा हारं निदधे कण्ठकन्दले । द्राक् पारितोषिकं दत्त्वा तं दूतं विससर्ज च ॥८७॥ [राजाऽथ तां दिने पुण्ये सहितां वृद्धमन्त्रिभिः । प्रजिघायाऽचलपुरे परमर्द्धिसमन्विताम् ॥८८॥ तां यान्तमशिषन् माता विमला विमलाशया । भूयाः सदा श्वसुरयोर्भक्ता पत्यौ च देववत् ॥८९॥ सपत्नीष्वप्यनुकूला दक्षिणा च परिच्छदे । पत्युः प्रसादेऽनुत्सिक्ताऽपमानेऽप्यविकार भाक् ||९०|| युग्मम् || एवमाद्यनुशिष्याऽश्रुमुखी सा तां कथञ्चन । व्यसृजत् पौनरुक्त्येनं परीरम्भं वितन्वती ॥९१॥ धनवत्यपि तां नत्वाऽध्यारुह्य शिबिकां वराम् । चचाल सपरीवारा छत्र - चामरमण्डिता ॥ ९२ ॥ * साक्रमेणाचलपुरे पौरैः साश्चर्यमीक्षिता । साक्षाद्धनकुमारस्य श्रीरिवाऽऽगात् स्वयंवरा ॥९३॥ अवात्सीद् बहिरुद्याने शिबिरं विनिवेश्य सा । ऋद्ध्या महत्या ववृते विवाहश्च शुभेऽहनि ॥९४॥ मुको नागवल्ल्येव तडितेव नवाम्बुदः । तया नवोढया रेजे धनोऽभिनवयौवनः ॥ ९५ ॥ रत्या स्मर इव स्वैरं धनवत्या समं धनः । रममाणोऽनयत् कालं कमप्येकमुहूर्त्तवत् ॥९६॥ शृप्रत्यक्ष इव रैर्वैन्तश्चलत्काञ्चनकुण्डलः । "से विक्रमयमाणोऽश्वं ययावुद्यानमन्यदा ॥९७॥ चतुर्ज्ञानधरं तत्र पवित्रितवसुन्धरम् । वसुन्धरं नाम मुनिं सोऽद्राक्षीद् देशनापरम् ॥९८॥ स प्रणम्य यथास्थानमुपविश्य च भक्तिभाक् । शुश्राव देशनां तस्मात् कर्णामृतरसायनम् ॥९९॥ आगाच्च विक्रमधनो धारिणी धनवत्यपि । सर्वेऽपि तं मुनिं नत्वा शुश्रुवुर्धर्मदेशनाम् ||१००|| देशनान्ते व्यज्ञपयत् तं विक्रमधनो नृपः । धने गर्भस्थिते माता स्वप्ने चूतद्रुमैक्षत ॥ १०१ ॥ तस्योत्कृष्टोत्कृष्टफलस्याऽन्यत्राऽन्यत्र रोपणम् । भविष्यति नवकृत्व इत्याख्यात् तत्र कोऽपि न ||१०२।। नववारारोपणस्य कथयाऽर्थं प्रसीद नः । कुमारजन्मनाऽप्यन्यज्ज्ञातं स्वप्नफलं मया ॥१०३॥ सम्यग्ज्ञानायोपयुज्य मनसा सोऽपि कुत्रचित् । दूरे स्थितं केवलिनं पृच्छति स्म समाहितः ॥ १०४॥ केवल्यपि हि विज्ञाय तत्प्रश्नं केवलश्रिया । अरिष्टनेमिचरितमाख्यन् नवभवात्मकम् ॥१०५॥ मनोऽवधिभ्यां स मुनिर्ज्ञात्वाऽऽख्यत् ते सुतो धनः । भवेनाऽनेनैष नवोत्कृष्टोत्कृष्टान् भवान् गमी ॥ १०६ ॥ भवे च नवमेऽरिष्टनेमिर्नाम्नेह भारते । द्वाविंशस्तीर्थकृद् भावी यदुवंशसमुद्भवः ॥ १०७॥ श्रुत्वा च तन्मुनिवचः सर्वे मुमुदिरेतराम् | जिनधर्मे च सर्वेषां भावोऽभूद् भद्रकस्तदा ॥ १०८॥ तं नत्वा विक्रमो वेश्म ययौ सह धनादिभिः । विहारक्रमनिरतः सूरिरप्यन्यतोऽगमत् ॥१०९॥ [[ऋतूचिताभिः क्रीडाभिर्धनवत्या समं धनः । अन्वभूद् विषयसुखं दोगुन्दकें इवामरः ॥ ११० ॥ सोऽन्यदा मज्जनक्रीडां कर्तुं क्रीडासरस्यगात् । धनवत्या समं पल्या श्रीसपल्येव रूपतः ॥ १११ ॥ तत्राऽशोकतरोर्मूले शान्तो रस इवाऽङ्गवान् । घर्म - श्रम - तृषाक्रान्तः शुष्कतालोष्ठपल्लवः ॥११२॥ ( अष्टमं पर्व १. सोऽर्पयत् खं० २, ला० । २. धनेनैव खं० १ । ३. प्रार्थनाम् । ४. रोमाञ्चिता । ५. अर्हति कण्ठे न्यासं मे खं० १ । अयं हि कण्ठन्यासाय खं० २, ला० सू० मु० । ६. शिक्षामदात् । ७. उदारा । ८. परिवारे । ९. अगर्वा । १०. पौनरुक्तेन खं० २, ला० सू० मु० । ११. परि० पु० आ० मु० । 'आलिङ्गनं' लाटि० । १२. 'अभूत्' लाटि० । १३. पूगवृक्ष: । 'सोपारी' । १४. सूर्यपुत्रः । १५. धन: खेलयन् । १६. 'नरः ' लाटि० । १७. मनः पर्यवाऽवधिज्ञानाभ्याम् । १८. दोगंगुद खं० १ । दोगुन्दुग खं० २, ला० । १९. श्रीपल्येव स्वरूपतः खं० २ । २०. मूर्त्तिमान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282