Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 199
________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यगुम्फितं इतश्च पोतनपतिः सोऽरविन्दः शरत्क्षणे । सममन्तः पुरस्त्री भी रेमे हर्योपरि स्थितः ॥५९॥ रममाणश्च सोऽपश्यद् गगनव्यापिनं क्षणात् । नवोदयं वारिधरं शर्कचापतडिर्द्वरम् ॥६०॥ अहो रम्यत्वमस्येति तस्मिन् वदति राजनि । महावाताहतः सोऽब्दो विदद्रे तूलपूलवत् ॥ ६१॥ तं दृष्ट्वाऽचिन्तयद्भूपः संसारेऽन्यदपीदृशम् । दृष्टनष्टं शरीरादि तत्राऽऽस्था का विवेकिनः ? ॥६२॥ इत्यादि ध्यायतो बाढं क्षयोपशममीयतुः । ज्ञानावरण चारित्रमोहनीये महीपतेः ॥ ६३ ॥ सद्यो जातावधिर्न्यस्य महेन्द्रं स्वपदे सुतम् । समन्तभद्राचार्यस्य पादान्ते प्राव्रजन्नृपः ||६४|| गुरोरनुज्ञयैकाकिविहारप्रतिमाधरः । छेत्तुं भवाध्वानमिवाऽरविन्दो व्यहरन्मुनिः ॥६५॥ उसे वसतौ ग्रामे पुरे वाऽऽस्था न जातुचित् । अभूद्विहरतस्तस्य निर्ममस्य वपुष्यपि ॥ ६६ ॥ तपःकृशाङ्गो विविधाभिग्रही सोऽन्यदाऽचलत् । सागरदत्तसार्थेशसार्थेनाऽष्टापदं प्रति ॥ ६७ ॥ मुनिं सागरदत्तस्तं पप्रच्छ क्व नु यास्यथ ? । सोऽप्याख्यद्वन्दितुं देवान् यास्यामोऽष्टापदाचले ॥६८॥ भूयोऽपृच्छत् सार्थवाहः के देवास्तत्र पर्वते ? । कारिताः केन ? कति ते ? फलं तद्वन्दने च किम् ? ॥६९॥ आसन्नभव्यं तं ज्ञात्वाऽरविन्दर्षिरभाषत । नाऽन्ये भवितुमर्हन्ति भद्र ! देवा विनाऽर्हतः ॥७०॥ केऽर्हन्तस्ते ? वीतरागाः सर्वज्ञाः शक्रपूजिताः । धर्मदेशनया विश्वविश्वस्योत्तारकाश्च ये ॥७१॥ आर्षभिर्भरतश्चक्री तत्र रत्नैरकारयत् । प्रतिमा ऋषभादीनां चतुर्विंशतिमर्हताम् ॥७२॥ तद्वन्दनफलं मुख्यं मोक्षोऽन्यत्त्वानुषङ्गिकम् । नरेन्द्रेन्द्राहमिन्द्रादिपदप्राप्त्यादि यत्किल ॥७३॥ स्वयं हिंसापरास्त्वन्ये दुर्गत्यभिमुखाः कथम् । देवीभवन्ति भैद्रात्मन् ! विश्वव्यामोहकारिणः ॥७४॥ इत्यादि बोधितस्तेन मुक्त्वा मिथ्यात्वमाशु सः । तदन्तिके श्रावकत्वं सार्थेशः प्रत्यपद्यत ॥७५॥ तस्य धर्मकथामाख्यानरविन्दर्षिरन्वहम् । तां क्रमादटवीमाप मरुभूतीभसेविताम् ॥७६॥ तत्रैकसरसस्तीरे नीरक्षीरोदनीरधेः । सार्थवाहः ससार्थोऽपि सोऽवात्सीद्भोजनक्षणे ॥७७॥ asures केपि तृणेभ्यः केऽपि चाऽभ्ययुः । केऽप्यन्नपाकादिव्यग्राः सार्थ एवाऽवतस्थिरे ||७८|| तदा च मरुभूतीभः करिणीभिः समावृतः । एत्य तत्र सरस्यम्भ पपावब्द इवोऽर्णवे ॥७९॥ पयःपूर्णकरोत्क्षेपं करिणीभिः समं चिरम् । तत्र रन्त्वा स निरगात् पॉलिमध्यारुरोह च ॥८०॥ दिशोऽवलोकयंस्तत्राऽपश्यत्तं सार्थमोषितम् । कृतान्त इव चाऽधावत् क्रोधात् ताम्रमुखेक्षणः ॥ ८१ ॥ कुण्डलीकृतशुण्डाको निष्कम्पश्रवणद्वयः । पूरिताशः स गर्जाभिर्नाशयामास सार्थिकान् ॥८२॥ नरा नार्यो वाहनानि करभादीनि चाऽभितः । पलायाञ्चकिरे जीवग्राहे सर्वो जिजीविषुः ॥ ८३॥ ज्ञात्वाऽवधेर्बोधकालं करिणस्तस्य सम्मुखम् । भगवानरविन्दोऽपि कायोत्सर्गं ददौ स्थिरः ||८४|| दूरतो धावितः क्रोधात् पश्यन् पार्श्वे गतश्च तम् । प्रशान्तमत्सरः सोऽभूत् तत्तपः श्रीप्रभावतः ॥ ८५ ॥ सद्यश्च जातसंवेगानुकैम्पाकम्पवर्ष्मकः । तस्थौ मुनेः पुरस्तस्य स शैर्क्ष इव नूतनः ॥८६॥ "मुनिस्तस्योपकाराय कायोत्सर्गमपारयत् । शान्तगम्भीरया वाचा तं बोधयितुमब्रवीत् ॥८७॥ भो भो ! न संस्मरसि किं मरुभूतिभवं निजम् ? । किं न प्रत्यभिजानासि मामरविन्दभूपतिम् ? ॥८८॥ तद्भवे प्रतिपन्नं किं व्यस्मार्षीर्धर्ममार्हतम् ? । स्मर सर्वं विसृज च मोहं श्वापदजातिजम् ॥८९॥ तया मुनिगिरा जातिस्मरणं प्राप तत्क्षणात् । शिरसा च नमश्चके मुनिं स च महागजः ॥९०॥ भूयोऽपि तं मुनिः स्माऽऽह भवेऽस्मिन्नाटकोपमे । प्राणी नट इवाऽऽप्नोति रूपान्यत्वं क्षणे क्षणे ॥९१॥ १. ० तडिद्धनम् मु० । २. चास्था सं०ता० । ३. भो भद्र ! ता० । ४. इन्धनार्थम् । ५. मेघो यथा समुद्रेऽम्भः पिबति तथेत्यर्थः । ६. कृत्वा मु० । ७. पालि: तट: 'पाळ, किनारो' । ८. पूरितदिक् । ९. पार्श्वगत० ता० । १०. उत्पन्नाभ्यां संवेगाऽनुकम्पाभ्यां अकम्प (निश्चल) शरीर: । ११. शिष्यः । १२. त्वं स्मरसि सं० । १७२ Jain Education International For Private & Personal Use Only ( नवमं पर्व www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282