Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 208
________________ तृतीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १८१ वज्रमुल्लालयन्नन्येनाऽग्रस्थो वल्गुवल्गितः । स्वामिवक्त्रे वलद्ग्रीवं दत्तदृष्टिर्ययौ द्रुतम् ॥३०॥ क्षणान्मेरावतिपाण्डुकम्बलामासदच्छिलाम् । सिंहासने न्यषदच्च शक्रोऽङ्कारोपितप्रभुः ॥३१।। त्रिषष्टिरच्युताद्याश्च तत्रेन्द्रा द्रुतमाययुः । जन्माभिषेकं नाथस्य विधिवद्विदधुश्च ते ॥३२॥ ईशानोत्सङ्गमारोप्य प्रभुं सौधर्मवासवः । यथावत् स्नपयोमास वृषशङ्गोत्थितैर्जलैः ॥३३।। चर्चामर्चा रचयित्वा जगन्नाथस्य वासवः । कृताञ्जलिरिति स्तोत्रं पवित्रमुपचक्रमे ॥३४॥ नमः प्रियङ्गुवर्णाय जगतः प्रियहेतवे ! तुभ्यं दुस्तरसंसारपारावारैकसेतवे ॥३५॥ ज्ञानरत्नैककोशाय व्याँकोशेन्दीवरत्विषे । भव्यारविन्दांशुमते तुभ्यं भगवते नमः ॥३६।। फणभृल्लक्ष्मणेऽष्टाग्रसहस्रनरलक्ष्मणे । तुभ्यं नमः कर्मतमोविध्वंसशशलक्ष्मणे ॥३७।। जगत्रयपवित्राय ज्ञानत्रितयधारिणे । कर्मस्थलखनित्राय सुचरित्राय ते नमः ॥३८॥ सर्वातिशयपात्रायाऽतिमात्रकरुणावते । सर्वसम्पदमत्राय नमस्ते परमात्मने ॥३९।। दूरीभूतकषायाय मुदिता क्षीरवार्धये । रागद्वेषविमुक्ताय नमस्ते मुक्तिगामिने ॥४०॥ फलं त्वत्पादसेवाया यद्यस्ति परमेश्वर ! । तदेतदेव मे भूयात्त्वयि भक्तिर्भवे भवे ॥४१॥ "स्तुत्वेत्यर्हन्तमादाय नीत्वा वामान्तिकेऽमुचत् । जहेऽवस्वापनी तस्यास्तच्चाऽर्हत्प्रतिरूपकम् ॥४२॥ शक्रोऽगात् स्वं ततः स्थानमश्वसेनोऽपि हि प्रगे । सूनोर्जन्मोत्सवं चक्रे कारामोक्षादिपूर्वकम् ।।४३।। गर्भस्थितेऽस्मिञ्जननी कृष्णनिश्यपि पार्श्वतः । सर्पन्तं सर्पमद्राक्षीत् सद्यः पत्युः शशंस च ॥४४॥ स्मृत्वा तदेष गर्भस्य प्रभाव इति निर्णय॑न । पार्श्व इत्यभिधां सूनोरश्वसेननपोऽकरोत् ।।४५।। धात्रीभिरिन्द्रादिष्टाभिर्लाल्यमानो जगत्पतिः । क्रमेण ववृधे राज्ञामङ्कतोऽङ्केषु सञ्चरन् ॥४६।। नवहस्तप्रमाणाङ्गः क्रमात् प्राप च यौवनम् । अनङ्गलीलोपवनं कार्मणं हरिणीदृशाम् ।।४७।। नीलोपलानां सारेण यद्वा नीलोत्पलश्रियाम् । निर्मितः शुशुभे पार्श्वः कायकान्त्या विनीलया ॥४८।। बभौ विभुर्महाबाहुर्महाशाख इव द्रुमः । विशालदृढवक्षाश्च महातट इवाऽचलः ।।४९।। आश्वसेनिळराजिष्ट पाणि-पादास्य-चक्षुषा । विकस्वरेणाऽरविन्दवनेनेव महादः ॥५०॥ वादिलाञ्छनधरो वज्रमध्यः कृशोदरः । वज्रऋषभनाराचं दधौ संहननं प्रभुः ॥५१॥ तादृग्रूपं प्रभुं दृष्ट्वा चिन्तयामासुरङ्गनाः । यासां पतिरयं भावी धन्यास्ता एव भूतले ॥५२॥ अश्वसेननृपोऽन्येद्युजिनधर्मकथापरः । आस्थानस्थः प्रतीहारेणाऽभ्येत्य व्यज्ञपीदृशम् ॥५३।। अस्ति द्वारि नरः कोऽपि नरेश्वर ! सदाकतिः । विज्ञीप्सुः स्वामिनः पादान प्रसीदाऽऽदेशदानतः ॥५४।। अश्वसेननृपोऽप्यूचे प्रवेशय तमाश्वपि । विज्ञीप्सवो हि विज्ञाप्याः सर्वेऽपि न्यायिभि पैः ।।५५।। प्रवेशितोऽथ द्वाःस्थेन नमश्चक्रे महीपतिम् । प्रतीहारविनिर्दिष्टे विष्टर निषसाद सः ॥५६॥ भूपतिस्तमभाषिष्ट भद्र ! कस्यासि ? कोऽसि वा ? । केन वा कारणेनेह मदन्तिकमुपागम: ? ॥५७|| पस पुमानप्युवाचैवं स्वामित्रस्तीह भारते । पुरं कशस्थलं नाम क्रीडास्थलमिव श्रियाम् ॥५८॥ तत्राऽऽसीन्नरवर्मेति वर्मेव शरणार्थिनाम् । अर्थिनामेककल्पद्रुर्महौजाः पृथिवीपतिः ॥५९॥ सोऽसाधयद् बहून् राज्ञः स्वभूसीमान्तवर्तिनः । सांवत्तिक इवाऽऽदित्यो राजंस्तीवेण तेजसा ॥६०।। 'जैनधर्मे रैतो नित्यं साधुशुश्रूषणोद्यतः । सोऽपालयच्चिरं राज्यमखण्डन्यायविक्रमः ॥६१॥ १. वल्गु-सुन्दरं वल्गितं-गमनं यस्य सः । २. स्नापया० मु० । ३. व्याकोशं-विकसितं इन्दीवरं-कमलं तत्तुल्यकान्तये । ४. सर्वसम्पदा अमत्राय-पात्राय । ५. मुदित० मु० । करुणाक्षीर० हे. ता० । ६. ०ऽपस्वापिनी सं० । ७. प्रातः । ८. निर्नयन सं० । निर्णयम् हे० ता० । ९. महाचल० मु० । १०. वज्राहि० मु० । लाञ्छनधरः-लक्षणधर इत्यर्थः । ११. ०सेनो मु० । १२. विज्ञप्तिं कर्तुं इच्छु: । १३. आसने । १४. ०मुपागतः सं० । १५. क्रीडास्थान० सं०ता० । १६. संवर्ते-प्रलये भवः-सांवर्तिक: सूर्यः । १७. जैने ता० । १८. ०धर्मरतो हे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282