Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 226
________________ चतुर्थः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १९९ द्रष्टुं देवीमिमां भीमा क्षमा न हि वणिस्त्रियः । इति प्रियदर्शनायाः स दृशौ वाससा प्यधात् ॥२३२॥ पुत्रं च स्वयमादाय चण्डसेनोऽक्षिसंज्ञया । आनाययद्वन्धुदत्तं दैवात् प्रथममेव हि ॥२३३॥ देव्यै पत्रं प्रणमय्याऽर्पयित्वा रक्तचन्दनम् । अर्च्यतामिति पल्लीशः प्रोवाच प्रियदर्शनाम् ॥२३४।। स्वयं तु कोशान्निस्त्रिंशमाचकर्षाऽतिनिष्कृपः । एवं विचिन्तयामास दीना तु प्रियदर्शना ॥२३५॥ धिग्देव्या मत्कृते पुम्भिर्बलिरित्ययशो मया । प्रापणीयं कथमहो ! हा ! जाताऽस्मि निशाचरी ॥२३६।। आगतं बन्धुदत्तोऽपि ज्ञात्वा मृत्युं विशुद्धधीः । प्रावर्तत नमस्कारान् परावर्तयितुं गुणी ॥२३७।। तं च ध्वनि समाकर्ण्य सद्योऽपि प्रियदर्शना । दृशावुद्धाटयामास ददर्श च पति निजम् ॥२३८|| साऽवदच्चण्डसेनं च भ्रातः ! सत्यप्रतिश्रवः । जातोऽसि यदयं बन्धुदत्तस्ते भगिनीपतिः ॥२३९॥ चण्डसेनः पतित्वांऽद्यौर्बन्धुदत्तमभाषत । अनागो मे सहस्व स्वाम्यसि त्वं समादिश ॥२४०॥ बभाषे बन्धुदत्तोऽपि मुदितः प्रियदर्शनाम् । अपराधः क एतस्य यस्त्वया मामयोजयत् ॥२४१॥ चण्डसेनमथाऽऽज्ञाप्य बन्धुदत्तो व्यमोचयत् । बन्दोत्तान् पुरुषांस्तं च किमेतदिति चाऽवदत् ॥२४२॥ उपयाचितपर्यन्तं वृत्तान्तं स्माऽऽह भिल्लराट् । बन्धुरप्यवदत् पूजा जीवघातैर्न युज्यते ॥२४३॥ पुष्पाद्यैः पूजयेर्देवीं हिंसां परधन-स्त्रियौ । मृषोक्तिं च परिहरेभव सन्तोषभाजनम् ॥२४४॥ तथेति प्रतिपेदे स देवी चोवाच पात्रगा। अद्य प्रभृति मे पूजा कर्तव्या कुसुमादिना ॥२४५॥ तच्छ्रुत्वा बहवो भिल्ला बभूवुर्भद्रकाः क्षणात् । प्रियदर्शनया पुत्रो बन्धुदत्तस्य चाऽपितः ॥२४६।। आर्पयद्धनदत्ताय बन्धुदत्तोऽपि नन्दनम् । ममाऽसौ मातुल इति निजपत्न्यै शशंस च ॥२४७॥ कृतनीरङ्गिका साऽपि श्वशुरं दूरतोऽनमत् । दत्ताशी: सोऽप्युवाचैवं सूनो माऽद्य युज्यते ॥२४८॥ आनन्दको बान्धवानां यदसौ जीवदानतः । बान्धवानन्द इत्याख्यां पितरौ तस्य चक्रतुः ॥२४९।। समातुलं बन्धुदत्तं नीत्वा स्वौकस्यभोजयत् । तदा गृहीतं लोप्नं चाऽर्पयति स्म किरातराट् ॥२५०॥ चित्रकत्वक्-चामरे-भदन्त-मुक्ताफलादिकम् । बन्धुदत्तायोपनिन्ये चण्डसेनः कृताञ्जलिः ॥२५१।। व्यसृजद्वन्धुवद्वन्धुर्बन्दीनुचितदानतः । कृतकृत्यं धनदत्तं कृत्वा प्रेषीत् स्ववेश्मनि ॥२५२॥ गबन्धुदत्तः ससार्थोऽपि सपुत्र-प्रियदर्शनः । अन्वितश्चण्डसेनेन ययौ नागपुरी पुरीम् ॥२५३॥ अभ्येत्य बन्धुभिः प्रीतै राज्ञा च बहुमानतः । आरोप्य कुञ्जरस्कन्धं स्वयं पुर्यामवेश्यत ॥२५४॥ दानं ददानः सदनं बन्धुदत्तो निजं ययौ । भुक्तोत्तरे च बन्धूनां सर्वं स्वोदन्तमब्रवीत् ॥२५५॥ सर्वानूचे च भूयोऽपि मुक्त्वैकं जिनशासनम् । असारं सर्वमप्यत्र भवे स्वानुभवो ह्ययम् ॥२५६॥ जिनशासनरक्तोऽभूद् बन्धुदत्तगिरा जनः । बन्धुदत्तश्चण्डसेनं सत्कृत्य विससर्ज च ॥२५७।। सुखे च बन्धुदत्तोऽस्थाद् द्वादशाब्दानि तत्र च । अन्यदा समवासार्षीच्छीमान् पार्श्वः शरत्क्षणे ॥२५८॥ महद्धा बन्धुदत्तोऽपि गत्वा सप्रियदर्शनः । प्रणम्य श्रीपार्श्वनाथमशृणोद्धर्मदेशनाम् ॥२५९॥ सोऽथाऽपृच्छत् प्रभुं केन कर्मणा षण्मृताः प्रियाः । ऊढमात्राः ? कुतश्चाऽभूद् विरहो बन्दैता च मे ? ॥२६०॥ पास्वाम्याख्यदत्र भरते विन्ध्याद्रौ शबराधिपः । नाम्ना शिखरसेनोऽभूहिंसात्मा विषयप्रियः ॥२६१।। इयं च श्रीमती नाम्ना प्रियाऽभूत् प्रियदर्शना । सहाऽनयाऽद्रिकुञ्जेषु त्वमस्था विलसंस्तदा ॥२६२॥ १. च मु० । २. निःकृपः मु० विना । ३. पतित्वांऽध्यो० मु० हे० ता० । ४. अज्ञानापराधम् । ५. बन्दित्वेन आत्तान् । ६. उपयाचितं भाषायां 'मानता' इति । ७. पार्श्वगा मु० । पात्रस्य 'भुवा' इत्याख्यया प्रसिद्धस्य शरीरे प्रविष्टा देवी उवाचेत्यर्थः । ८. कुमदा० मु०। ९. नीरङ्गी 'लाज' इति भाषायाम् । १०. चित्रकः 'चित्तो' इत्यभिधो हिंस्रः प्राणी, तस्य त्वक्-चर्म, व्याघ्रचर्मेति यावत् । ११. ०रेभ्यदन्त० मु० । १२. ०द्वन्दी० मु० । १३. ०वेश्मने सं० । १४. ०मानितः ता० । १५. ०च्छ्रीमत्पार्श्वः मु० ता० । १६. बन्दिता मु० । १७. ०सेनोऽभूत् मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282