Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 224
________________ चतुर्थः सर्गः ) श्रीत्रिषष्टिशलाकापुरुषचरितम् । स्वयमुद्घाटयामास तं मन्त्र्यथ करण्डकम् । राजनामाङ्कितान्यन्तर्भूषणानि ददर्श च ॥ १६६ ॥ चिरकालप्रणष्टार्थान् स्मृत्वा मन्त्री व्यचिन्तयत् । पुरा हृतेभ्यो ह्यर्थेभ्य आभ्यामेतन्निधीकृतम् ॥१६७॥ आभ्यामेतेऽपि लंप्स्यन्ते ताडिताभ्यां मलिम्लुचाः । ध्यात्वेत्यधारयत् सार्थं सोऽशेषमपि पूरुषः || १६८।। यमदूतैरिवाऽऽरक्षैः स तौ बाढमताडयत् । गाढप्रहारविधुरौ तावप्येवं जजल्पतुः ॥१६९॥ सार्थेन सममायातामावां हि ह्यस्तने दिने । यद्येवं न भवेन्मार्यौ विचार्य भवता तदा ॥ १७० ॥ बन्धुदत्तमथोद्दिश्योवाच स्थानपुमानिदम् । सार्थेऽत्र पञ्चमदिने वीक्षितोऽसौ मया खलु ॥ १७१ ॥ अमुं वेत्सीत्यमात्येन पृष्टः सार्थाधिपोऽवदत् । ईदृक्कौर्पटिकान् सार्थे वहतो हन्त वेत्ति कः ? ॥१७२॥ इति श्रुत्वा च कुपितो मन्त्री जामेय - मातुलौ । नरकावासकल्पायां तौ कारायामधारयत् ॥१७३॥ इतश्च चण्डसेनस्तां भ्रान्त्वा पद्माटवीं चिरम् । बन्धुदत्तमसम्प्राप्य विलक्षः सदनं ययौ ॥१७४॥ पुरः प्रियदर्शनाया: प्रत्य श्रौषीदिदं च सः । षण्मासान्तस्तव पतिमानयेऽग्नौ विशामि वा ॥ १७५ ॥ प्रतिज्ञायेति पल्लीश: प्रैषीत् प्रच्छन्नपूरुषान् । कौशाम्ब्यां नागपुर्यां च बन्धुदत्तं निरीक्षितुम् ॥१७६॥ दिनैः कतिभिरप्येत्य चण्डसेनाय तेऽवदन् । बन्धुदत्तो न सोऽस्माभिर्भ्रमद्भिरपि वीक्षितः ॥१७७॥ चण्डसेनोऽचिन्तयच्च स प्रियाविरहातुरः । भृगुपाताग्निवेशादि कृत्वा नूनं मृतो भवेत् ॥१७८॥ ममाऽपि मासाश्चत्वारः स्वप्रतिज्ञावधेर्गताः । प्रविशाम्यधुनाऽप्यग्नि बन्धुदत्तो हि दुर्लभः ॥ १७९ ॥ तावत्तिष्ठामि वा यावत् प्रसूते प्रियदर्शना । कौशाम्ब्यां तत्सुतं नीत्वा प्रवेक्ष्यामि हुताशने ॥ १८०॥ तत्रैवं चिन्तयत्येव द्वाःस्थोऽभ्येत्येदमब्रवीत् । दिष्ट्याऽद्य वर्धसे सूनुं सुषुवे प्रियदर्शना || १८१ ॥ हृष्टश्च प्रददौ तस्मै पल्लीशः पारितोषिकम् । उचे पद्माटवीदेवीं चण्डसेनाभिधां च सः ॥ १८२ ॥ मासं चेत् सह पुत्रेण स्वसा कुशलिनी मम । तदा भवत्यै दास्यामि दशभिः पुरुषैर्बलिम् ॥१८३॥ सक्षेमेण व्यतीतायां दिनानां पञ्चविंशतौ । आनेतुं बलिपुरुषान् प्रत्योशं प्राहिणोन्नरान् ॥ १८४॥ |इतश्च तत्र कारायां बन्धुदत्तः समातुलः । मासान् षडतिचक्राम नौरकायुः सहोदरान् ॥१८५॥ महाँभुजङ्गः सम्प्राप्तस्तदा चाऽऽरक्षकैर्निशि । परिव्राट् सधनो बद्ध्वाऽर्पितस्तस्यैव मन्त्रिणः ॥१८६॥ नेदृद्रव्यं परिव्राजां तदसौ तस्करो ध्रुवम् । इति निर्णीय तं मन्त्री निषूदयितुमादिशत् ॥१८७॥ वधार्थं नीयमानेनाऽनुशयानेन तेन च । नाऽन्यथा स्यान्मुनिवच इति ध्यात्वाऽभ्यधाय्यदः ॥ १८८॥ न मां मुक्त्वाऽपरेणेदं पर्यमुष्यत पत्तनम् । लोप्त्रं च सर्वमस्त्यद्रि- नद्यारामादिभूमिषु ॥ १८९ ॥ यस्य यस्य हृतं वित्तं तस्य तस्य तदर्प्यताम् । न्यस्तं कोश इवाऽस्त्येव निगृह्णीत ततश्च माम् ॥ १९०॥ आरक्षा मन्त्रिणे व्याख्यन् मन्त्र्यप्याख्यातभूमिषु । सर्वं ददर्श तद् द्रव्यं तं विनैकं करण्डकम् ॥१९१ | मन्त्र्यूचे तं परिव्राजं किमिदं चेष्टितं तव । विरुद्धं दर्शनाकृत्योः कृतिन्नाख्याहि निर्भयः ॥१९२॥ परिव्राडप्यभाषिष्ट विषयासक्तचेतसाम् । इदमेवोचितं कर्म निर्धनानां स्ववेश्मनि ॥१९३॥ यद्याश्चर्यं तर्हि शृणु नगरे पुण्ड्रवर्धने । द्विजस्य सोमदेवस्य सुतो नारायणो ह्यहम् ॥ १९४ ॥ जीवघातादिना स्वर्गं शंसन्नस्थां जनेष्वहम् । कदाऽप्यपश्यं दीनास्यांश्चौरबुद्धया धृतान्नरान् ॥ १९५॥ महाभुजङ्गा हन्यन्ताममी इत्यवदं तदा । हा ! कष्टमज्ञानमिति तदैको मुनिरब्रवीत् ॥१९६॥ किमज्ञानमिति मया नत्वा पृष्टोऽब्रवीन्मुनिः । यत्परस्याऽतिपीडाकृदसद्दोषाधिरोपणम् ॥१९७॥ एते प्राक्कर्मणः पाकात् पतिता व्यसने खलु । महाभुजङ्गतादोषमसन्तं च तनोषि किम् ? ॥१९८॥ १. ० प्रनष्टा० मु० विना । २. लभ्यन्ते सं० हे० । ३. ०क्कर्ष० सं० हे० । ४. पद्माटवीं मु० । ५. प्रतिदिशम् । ६. नरका० सं० । ७. महाचौरः । ८ लुण्टितं धनम् । ९ कृतिन्- बुद्धिमन् ! । Jain Education International १९७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282