________________
चतुर्थः सर्गः )
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
स्वयमुद्घाटयामास तं मन्त्र्यथ करण्डकम् । राजनामाङ्कितान्यन्तर्भूषणानि ददर्श च ॥ १६६ ॥ चिरकालप्रणष्टार्थान् स्मृत्वा मन्त्री व्यचिन्तयत् । पुरा हृतेभ्यो ह्यर्थेभ्य आभ्यामेतन्निधीकृतम् ॥१६७॥ आभ्यामेतेऽपि लंप्स्यन्ते ताडिताभ्यां मलिम्लुचाः । ध्यात्वेत्यधारयत् सार्थं सोऽशेषमपि पूरुषः || १६८।। यमदूतैरिवाऽऽरक्षैः स तौ बाढमताडयत् । गाढप्रहारविधुरौ तावप्येवं जजल्पतुः ॥१६९॥ सार्थेन सममायातामावां हि ह्यस्तने दिने । यद्येवं न भवेन्मार्यौ विचार्य भवता तदा ॥ १७० ॥ बन्धुदत्तमथोद्दिश्योवाच स्थानपुमानिदम् । सार्थेऽत्र पञ्चमदिने वीक्षितोऽसौ मया खलु ॥ १७१ ॥ अमुं वेत्सीत्यमात्येन पृष्टः सार्थाधिपोऽवदत् । ईदृक्कौर्पटिकान् सार्थे वहतो हन्त वेत्ति कः ? ॥१७२॥ इति श्रुत्वा च कुपितो मन्त्री जामेय - मातुलौ । नरकावासकल्पायां तौ कारायामधारयत् ॥१७३॥ इतश्च चण्डसेनस्तां भ्रान्त्वा पद्माटवीं चिरम् । बन्धुदत्तमसम्प्राप्य विलक्षः सदनं ययौ ॥१७४॥ पुरः प्रियदर्शनाया: प्रत्य श्रौषीदिदं च सः । षण्मासान्तस्तव पतिमानयेऽग्नौ विशामि वा ॥ १७५ ॥ प्रतिज्ञायेति पल्लीश: प्रैषीत् प्रच्छन्नपूरुषान् । कौशाम्ब्यां नागपुर्यां च बन्धुदत्तं निरीक्षितुम् ॥१७६॥ दिनैः कतिभिरप्येत्य चण्डसेनाय तेऽवदन् । बन्धुदत्तो न सोऽस्माभिर्भ्रमद्भिरपि वीक्षितः ॥१७७॥ चण्डसेनोऽचिन्तयच्च स प्रियाविरहातुरः । भृगुपाताग्निवेशादि कृत्वा नूनं मृतो भवेत् ॥१७८॥ ममाऽपि मासाश्चत्वारः स्वप्रतिज्ञावधेर्गताः । प्रविशाम्यधुनाऽप्यग्नि बन्धुदत्तो हि दुर्लभः ॥ १७९ ॥ तावत्तिष्ठामि वा यावत् प्रसूते प्रियदर्शना । कौशाम्ब्यां तत्सुतं नीत्वा प्रवेक्ष्यामि हुताशने ॥ १८०॥ तत्रैवं चिन्तयत्येव द्वाःस्थोऽभ्येत्येदमब्रवीत् । दिष्ट्याऽद्य वर्धसे सूनुं सुषुवे प्रियदर्शना || १८१ ॥ हृष्टश्च प्रददौ तस्मै पल्लीशः पारितोषिकम् । उचे पद्माटवीदेवीं चण्डसेनाभिधां च सः ॥ १८२ ॥ मासं चेत् सह पुत्रेण स्वसा कुशलिनी मम । तदा भवत्यै दास्यामि दशभिः पुरुषैर्बलिम् ॥१८३॥ सक्षेमेण व्यतीतायां दिनानां पञ्चविंशतौ । आनेतुं बलिपुरुषान् प्रत्योशं प्राहिणोन्नरान् ॥ १८४॥ |इतश्च तत्र कारायां बन्धुदत्तः समातुलः । मासान् षडतिचक्राम नौरकायुः सहोदरान् ॥१८५॥ महाँभुजङ्गः सम्प्राप्तस्तदा चाऽऽरक्षकैर्निशि । परिव्राट् सधनो बद्ध्वाऽर्पितस्तस्यैव मन्त्रिणः ॥१८६॥ नेदृद्रव्यं परिव्राजां तदसौ तस्करो ध्रुवम् । इति निर्णीय तं मन्त्री निषूदयितुमादिशत् ॥१८७॥ वधार्थं नीयमानेनाऽनुशयानेन तेन च । नाऽन्यथा स्यान्मुनिवच इति ध्यात्वाऽभ्यधाय्यदः ॥ १८८॥ न मां मुक्त्वाऽपरेणेदं पर्यमुष्यत पत्तनम् । लोप्त्रं च सर्वमस्त्यद्रि- नद्यारामादिभूमिषु ॥ १८९ ॥ यस्य यस्य हृतं वित्तं तस्य तस्य तदर्प्यताम् । न्यस्तं कोश इवाऽस्त्येव निगृह्णीत ततश्च माम् ॥ १९०॥ आरक्षा मन्त्रिणे व्याख्यन् मन्त्र्यप्याख्यातभूमिषु । सर्वं ददर्श तद् द्रव्यं तं विनैकं करण्डकम् ॥१९१ | मन्त्र्यूचे तं परिव्राजं किमिदं चेष्टितं तव । विरुद्धं दर्शनाकृत्योः कृतिन्नाख्याहि निर्भयः ॥१९२॥ परिव्राडप्यभाषिष्ट विषयासक्तचेतसाम् । इदमेवोचितं कर्म निर्धनानां स्ववेश्मनि ॥१९३॥ यद्याश्चर्यं तर्हि शृणु नगरे पुण्ड्रवर्धने । द्विजस्य सोमदेवस्य सुतो नारायणो ह्यहम् ॥ १९४ ॥ जीवघातादिना स्वर्गं शंसन्नस्थां जनेष्वहम् । कदाऽप्यपश्यं दीनास्यांश्चौरबुद्धया धृतान्नरान् ॥ १९५॥ महाभुजङ्गा हन्यन्ताममी इत्यवदं तदा । हा ! कष्टमज्ञानमिति तदैको मुनिरब्रवीत् ॥१९६॥ किमज्ञानमिति मया नत्वा पृष्टोऽब्रवीन्मुनिः । यत्परस्याऽतिपीडाकृदसद्दोषाधिरोपणम् ॥१९७॥ एते प्राक्कर्मणः पाकात् पतिता व्यसने खलु । महाभुजङ्गतादोषमसन्तं च तनोषि किम् ? ॥१९८॥
१. ० प्रनष्टा० मु० विना । २. लभ्यन्ते सं० हे० । ३. ०क्कर्ष० सं० हे० । ४. पद्माटवीं मु० । ५. प्रतिदिशम् । ६. नरका०
सं० । ७. महाचौरः । ८ लुण्टितं धनम् । ९ कृतिन्- बुद्धिमन् ! ।
Jain Education International
१९७
For Private & Personal Use Only
www.jainelibrary.org