________________
१९८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व फलशेषं पूर्वजन्मकृतस्याऽपि हि कर्मणः । नचिराल्लप्स्यसे तन्माऽलीकं दोषं परे निधाः ।।१९९।। प्राक्कर्मफलशेषं तु भूयः पृष्टो मया मुनिः । ब्रूते स्माऽतिशयज्ञानी करुणाक्रान्तमानसः ॥२००।। "इहैव भरतक्षेत्रे नगरे गर्जनाभिधे । आषाढो नाम विप्रोऽभूत्तत्पनी रच्छुकाभिधा ।।२०१।। इतश्च पञ्चमभवे त्वं तयोस्तनयोऽभवः । चन्द्रदेव इति नाम्ना पित्रा वेदं च पाठितः ॥२०२।। विद्वन्मान्यतिमान्योऽभूर्वीरसेनस्य भूपतेः । योगात्मा नाम तत्राऽऽसीत् परिव्राडपरः सुधीः ॥२०३।। आसीच्च बालविधवा विनीतश्रेष्ठिनः सता । वीरमती मालिकेन सहाऽऽगात् सिंहलेन सा ॥२०४।। तस्याश्च पूज्यो योगात्मा दैवात्तद्दिन एव सः । निःसङ्गत्वादनाख्याय जगाम क्वचिदन्यतः ॥२०५।। गता वीरमतीत्यासीत् प्रघोषश्चाऽखिले जने । नूनं योगात्मना साधु गतेति त्वमचिन्तयः ॥२०६।। गता वीरमती क्वापीत्यभूद्राजकुलेऽपि गीः । गता योगात्मना सार्धमित्यवादीश्च निश्चयात् ॥२०७।। त्यक्तदारादिसङ्गः स इति राज्ञोदितेऽब्रवीः । अत एवाऽन्यदारान् स जहे पाखण्डधारकः ॥२०८॥ तच्छ्रुत्वाऽभूज्जनो धर्मे श्लथो दोषेण तेन तु । योगात्मानं बहिश्चक्रुः परिव्राजोऽपरे च तम् ॥२०९।। एवं निकाचितं कर्म तीवं कृत्वा विपन्नवान् । एडिक्कस्त्वं समभवः कोल्लाके सन्निवेशने ॥२१०।। तत्कर्मदोषात्कुथितजिह्वः पञ्चत्वमाप्य च । कोल्लाकस्य महाटव्यामभूस्त्वं मृर्गंधूर्तकः ॥२११।। जिह्वाकोथाज्जम्बुकोऽपि मृत्वा साकेतपत्तने । राड्वॉरवेश्यामदनलतायास्तनयोऽभवः ॥२१२॥ युवैकदा सुरामत्त आक्रोशन् राजमातरम् । वारितो राजपुत्रेण तमप्याक्रोश उच्चकैः ॥२१३।। तेन च्छेदितजिह्वः सन् हीणः सानशनो मृतः । अभूद्धिजोऽधुना कर्मशेषं तेऽद्यापि विद्युते ।।२१४।। तच्छ्रुत्वा जातवैराग्यः सुगुरोः पादसन्निधौ । अहं परिव्राडभवं गुरुशुश्रूषणोद्यतः ॥२१५।। गुरुणा म्रियमाणेन तालोद्घाटनिकायुता । विद्या खगामिनी दत्त्वा सादरं चाऽस्मि शिक्षितः ॥२१६।। विना धर्मवपूरक्षामन्यस्मिन् व्यसनेऽपि हि । नेमे विद्ये प्रयोक्तव्ये वाच्यं हास्येऽपि नो मृषा ॥२१७।। प्रमादाच्चेन्मृषोक्तं स्यान्नाभिदघ्ने तदम्भसि । विद्ययोरुद्भुजोऽष्टाग्रसहस्रं जपमाचरेः ॥२१८।। मया विषयसक्तेन विपरीतमिदं कृतम् । ह्योऽप्यजल्पं मृषाऽऽरामे स्थित आवसथान्तिके ।।२१९।। ह्यः स्नात्वाऽऽवसथे देवार्चनार्थं काश्चिदागताः । मामपृच्छन् युवतयो व्रतग्रहणकारणम् ।।२२०॥ अभीष्टपत्नीविरहहेतुमाख्यं प्रमादतः । जपं गुरूपदिष्टं तं न चाऽकाएं जले स्थितः ॥२२॥ निशीथे चौरिकाहेतोः श्रेष्ठिसागरवेश्मनि । दैवादपिहितद्वारे सारमेय इवाऽविशम् ॥२२२॥ गृहीत्वा स्वर्ण-रूप्यादि निर्गच्छन् राजपूरुषैः । धृतोऽस्मि नाऽस्फुरद्विद्या स्मृताऽप्याकाशगामिनी ॥२२३।।
पप्रच्छ तं भूयः किं भूषणकरण्डकः । एक एव न सम्प्राप्तः ? स्थानाद् भ्रान्तोऽसि किं ननु? ॥२२४।। प्यभाषिष्ट यत्राऽऽसीनिखात: स करण्डकः । दैवाज्ज्ञात्वा ततः स्थानाज्जहे केनाऽप्युपेयुषा ॥२२५॥ तच्छ्रुत्वा तं परिव्राजं मुमोच सचिवाग्रणी: । करण्डकहरौ तौ चाऽस्मरज्जामेय-मातुलौ ॥२२६।। दध्यौ च नूनमज्ञाभ्यां ताभ्यां लब्धः करण्डकः । भीताभ्यां चाऽन्यथाऽऽख्यातं प्रष्टव्यावभयेन तौ ॥२२७||
आहूयाऽभयपूर्वं तौ पृष्टौ तेन यथातथम् । आख्यातवन्तौ मुक्तौ च नीतिविज्ञेन मन्त्रिणा ॥२२८॥ पक्षामत्वात्तौ व्यहं स्थित्वा तृतीयेऽहनि जग्मतुः । तैश्चण्डसेनपुरुषैः प्राप्तौ च पुरुषेक्षिभिः ॥२२९॥ मध्ये क्षिप्तौ 'बन्दपुंसां किरातैस्तावुभावपि । चण्डसेनादेवतायाः समीपे बलिहेतवे ॥२३०॥
सहचेटी सपुत्रां च गृहीत्वा प्रियदर्शनाम् । चण्डसेनार्चनकृते चण्डसेनोऽप्युपाययौ ॥२३१।। १. ०लीकदोषं सं० । २. चण्डदेव सं० । ३. इडिक्क० सं० । एडक० मु० । अजः । ४. शृगालः । ५. राट्वार० सं० ता० । राड्-राजा, तस्य वारवेश्या । ६. सदामत्त सं० । ७. वर्तते सं० । ८. नाभिप्रमाणे । ९. स्थिते मु० । १०. ०रौप्या० मु० । ११. आगतेन । १२. पुरुषगवेषिभिः। १३. बन्दिपुंसां मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org