________________
चतुर्थः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१९९ द्रष्टुं देवीमिमां भीमा क्षमा न हि वणिस्त्रियः । इति प्रियदर्शनायाः स दृशौ वाससा प्यधात् ॥२३२॥ पुत्रं च स्वयमादाय चण्डसेनोऽक्षिसंज्ञया । आनाययद्वन्धुदत्तं दैवात् प्रथममेव हि ॥२३३॥ देव्यै पत्रं प्रणमय्याऽर्पयित्वा रक्तचन्दनम् । अर्च्यतामिति पल्लीशः प्रोवाच प्रियदर्शनाम् ॥२३४।। स्वयं तु कोशान्निस्त्रिंशमाचकर्षाऽतिनिष्कृपः । एवं विचिन्तयामास दीना तु प्रियदर्शना ॥२३५॥ धिग्देव्या मत्कृते पुम्भिर्बलिरित्ययशो मया । प्रापणीयं कथमहो ! हा ! जाताऽस्मि निशाचरी ॥२३६।। आगतं बन्धुदत्तोऽपि ज्ञात्वा मृत्युं विशुद्धधीः । प्रावर्तत नमस्कारान् परावर्तयितुं गुणी ॥२३७।। तं च ध्वनि समाकर्ण्य सद्योऽपि प्रियदर्शना । दृशावुद्धाटयामास ददर्श च पति निजम् ॥२३८|| साऽवदच्चण्डसेनं च भ्रातः ! सत्यप्रतिश्रवः । जातोऽसि यदयं बन्धुदत्तस्ते भगिनीपतिः ॥२३९॥ चण्डसेनः पतित्वांऽद्यौर्बन्धुदत्तमभाषत । अनागो मे सहस्व स्वाम्यसि त्वं समादिश ॥२४०॥ बभाषे बन्धुदत्तोऽपि मुदितः प्रियदर्शनाम् । अपराधः क एतस्य यस्त्वया मामयोजयत् ॥२४१॥ चण्डसेनमथाऽऽज्ञाप्य बन्धुदत्तो व्यमोचयत् । बन्दोत्तान् पुरुषांस्तं च किमेतदिति चाऽवदत् ॥२४२॥ उपयाचितपर्यन्तं वृत्तान्तं स्माऽऽह भिल्लराट् । बन्धुरप्यवदत् पूजा जीवघातैर्न युज्यते ॥२४३॥ पुष्पाद्यैः पूजयेर्देवीं हिंसां परधन-स्त्रियौ । मृषोक्तिं च परिहरेभव सन्तोषभाजनम् ॥२४४॥ तथेति प्रतिपेदे स देवी चोवाच पात्रगा। अद्य प्रभृति मे पूजा कर्तव्या कुसुमादिना ॥२४५॥ तच्छ्रुत्वा बहवो भिल्ला बभूवुर्भद्रकाः क्षणात् । प्रियदर्शनया पुत्रो बन्धुदत्तस्य चाऽपितः ॥२४६।। आर्पयद्धनदत्ताय बन्धुदत्तोऽपि नन्दनम् । ममाऽसौ मातुल इति निजपत्न्यै शशंस च ॥२४७॥ कृतनीरङ्गिका साऽपि श्वशुरं दूरतोऽनमत् । दत्ताशी: सोऽप्युवाचैवं सूनो माऽद्य युज्यते ॥२४८॥ आनन्दको बान्धवानां यदसौ जीवदानतः । बान्धवानन्द इत्याख्यां पितरौ तस्य चक्रतुः ॥२४९।। समातुलं बन्धुदत्तं नीत्वा स्वौकस्यभोजयत् । तदा गृहीतं लोप्नं चाऽर्पयति स्म किरातराट् ॥२५०॥ चित्रकत्वक्-चामरे-भदन्त-मुक्ताफलादिकम् । बन्धुदत्तायोपनिन्ये चण्डसेनः कृताञ्जलिः ॥२५१।। व्यसृजद्वन्धुवद्वन्धुर्बन्दीनुचितदानतः । कृतकृत्यं धनदत्तं कृत्वा प्रेषीत् स्ववेश्मनि ॥२५२॥ गबन्धुदत्तः ससार्थोऽपि सपुत्र-प्रियदर्शनः । अन्वितश्चण्डसेनेन ययौ नागपुरी पुरीम् ॥२५३॥
अभ्येत्य बन्धुभिः प्रीतै राज्ञा च बहुमानतः । आरोप्य कुञ्जरस्कन्धं स्वयं पुर्यामवेश्यत ॥२५४॥ दानं ददानः सदनं बन्धुदत्तो निजं ययौ । भुक्तोत्तरे च बन्धूनां सर्वं स्वोदन्तमब्रवीत् ॥२५५॥ सर्वानूचे च भूयोऽपि मुक्त्वैकं जिनशासनम् । असारं सर्वमप्यत्र भवे स्वानुभवो ह्ययम् ॥२५६॥ जिनशासनरक्तोऽभूद् बन्धुदत्तगिरा जनः । बन्धुदत्तश्चण्डसेनं सत्कृत्य विससर्ज च ॥२५७।। सुखे च बन्धुदत्तोऽस्थाद् द्वादशाब्दानि तत्र च । अन्यदा समवासार्षीच्छीमान् पार्श्वः शरत्क्षणे ॥२५८॥ महद्धा बन्धुदत्तोऽपि गत्वा सप्रियदर्शनः । प्रणम्य श्रीपार्श्वनाथमशृणोद्धर्मदेशनाम् ॥२५९॥ सोऽथाऽपृच्छत् प्रभुं केन कर्मणा षण्मृताः प्रियाः । ऊढमात्राः ? कुतश्चाऽभूद् विरहो बन्दैता च मे ? ॥२६०॥ पास्वाम्याख्यदत्र भरते विन्ध्याद्रौ शबराधिपः । नाम्ना शिखरसेनोऽभूहिंसात्मा विषयप्रियः ॥२६१।।
इयं च श्रीमती नाम्ना प्रियाऽभूत् प्रियदर्शना । सहाऽनयाऽद्रिकुञ्जेषु त्वमस्था विलसंस्तदा ॥२६२॥ १. च मु० । २. निःकृपः मु० विना । ३. पतित्वांऽध्यो० मु० हे० ता० । ४. अज्ञानापराधम् । ५. बन्दित्वेन आत्तान् । ६. उपयाचितं भाषायां 'मानता' इति । ७. पार्श्वगा मु० । पात्रस्य 'भुवा' इत्याख्यया प्रसिद्धस्य शरीरे प्रविष्टा देवी उवाचेत्यर्थः । ८. कुमदा० मु०। ९. नीरङ्गी 'लाज' इति भाषायाम् । १०. चित्रकः 'चित्तो' इत्यभिधो हिंस्रः प्राणी, तस्य त्वक्-चर्म, व्याघ्रचर्मेति यावत् । ११. ०रेभ्यदन्त० मु० । १२. ०द्वन्दी० मु० । १३. ०वेश्मने सं० । १४. ०मानितः ता० । १५. ०च्छ्रीमत्पार्श्वः मु० ता० । १६. बन्दिता मु० । १७. ०सेनोऽभूत् मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org