________________
२००
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
मार्गेऽन्यदा साधुगच्छो मार्गभ्रष्टोऽटवीमटन् । तत्राऽऽयातस्त्वयाऽदर्शि सानुकम्पेन चेतसा ॥२६३।। गत्वा साधूनपृच्छश्च यूयं भ्रमथ किं न्विह? | मार्गभ्रष्टा वयमिति तुभ्यं तेऽप्याचचक्षिरे ॥२६४।। उवाच श्रीमती त्वां च भोजयित्वा फलादिना । उत्तारय मुनीनेतान् विन्ध्यारण्याद् दुरुत्तरात् ॥२६५॥ कन्दादि त्वमुपानैषीस्तेऽप्यूचुनैतदर्हति । यद्यस्ति वर्ण-गन्धादिरहितं तत् प्रयच्छ नः ॥२६६॥ चिरकालगृहीतं वा कल्पते नः फलादिकम् । श्रुत्वेति तादृशैः कन्दादिभिस्तान् प्रत्यलाभयः ॥२६७॥ मार्गेऽनैषीश्च तान् साधूंस्ते धर्मं चाऽऽचचक्षिरे । दत्त्वा पञ्चनमस्कारमेवं च त्वय्युपादिशन् ॥२६८॥ पक्षस्य दिन एकस्मिस्त्यक्तसावद्यकर्मणा । स्मर्त्तव्योऽयं नमस्कारस्त्वया रहसि तस्थुषा ॥२६९॥ तदा च यदि ते कोऽपि द्रुह्येत्तस्मै स्म मा कुपः । एवं ते चरतो धर्मं स्वर्गश्रीन हि दुर्लभा ॥२७०।। आमेत्युक्त्वा कुर्वतश्च तथैव भवतोऽन्यदा । आगात्पञ्चाननस्तत्राऽभैषीच्च श्रीमती क्षणात् ॥२७१।। मा भैषीरिति जल्पंस्त्वमगृहीर्धनुरुत्कटम् । श्रीमत्या स्मारितश्चाऽसि नियमं गुरुभाषितम् ।।२७२।। ततश्च निश्चलोऽभूस्त्वं श्रीमती च महामतिः । जग्धौ सिंहेन सौधर्मेऽभूतं पल्यायुषौ सुरौ ॥२७३॥ पच्युत्वाऽपरविदेहेषु चक्रपुर्यां महीप॑तेः । अभूः कुरुमगाङ्कस्य बालचन्द्राभवः सुतः ।।२७४॥
कुरुमृगाङ्कश्यालस्य सुभूषणमहीपतेः । कुरुमत्यामभूत् पुत्री प्रच्युत्य श्रीमती दिवः ॥२७५॥ वसन्तसेना-शबरमृगाको नामतश्च तौ । क्रमेण यौवनं प्राप्तौ स्वस्वस्थानं स्थितौ युवाम् ॥२७६॥ गुणश्रुत्या त्वयि रक्ता साऽभूत्तस्यां पुनर्भवान् । चारुचित्रकरानीततद्र्पालेख्यदर्शनात् ॥२७७॥ पित्रा ज्ञातानुरागेण तया त्वं परिणायितः । पिता ते तापसो जातस्त्वं पुनः पृथिवीपतिः ॥२७८॥ तिर्यग्वियोगजं कर्म तव भिल्लभवोद्भवम् । तदानीमुदगात्तच्च शृणु धीमन् ! यथातथम् ॥२७९।। पतत्रैव विजये दोष्मान् राजा जयपुरेश्वरः । वर्धनो नाम निर्हेतु कुद्धस्त्वामवदन्नरैः ॥२८०॥ वसन्तसेनां मे यच्छ प्रतीच्छ मम शासनम् । भुक्ष्व राज्यं ततो नो वा त्वं युध्यस्व मया सह ॥२८१।। श्रुत्वाऽमर्षेण युद्धाय निरगास्त्वं गजस्थितः । ससैन्यो वार्यमाणोऽपि लोकेनाऽशकुनेक्षणात् ॥२८२॥ तदा च वर्धनो राजा जितो नंष्ट्वा जगाम सः । युयुधे च त्वया सार्धं तप्तो नाम नृपो बली ॥२८३।। तेन क्षीणबलस्त्वं तु योधयित्वा निबर्हितः । रौद्रध्यानवशात् षष्ठ्यामवन्यां नारकोऽभवः ॥२८४॥ अग्नि वसन्तसेनाऽपि प्रविश्य विरहार्दिता । विपद्य जज्ञे तत्रैव तत्कालं नरकावनौ ॥२८५॥ उद्वृत्त्य पुष्करद्वीपभरते रोरवेश्मनि । सुतोऽभवस्त्वं त्वत्तुल्य॑जातिः सा तु सुताऽभवत् ॥२८६॥ द्वयोरप्युद्यौवनयोर्बभूवोद्वाहकर्म च । सति दारिद्मदुःखेऽपि रेमाथे नितरां युवाम् ॥२८७।। युवाभ्यां स्वगृहस्थाभ्यां साध्व्यो ददृशिरेऽन्यदा । उत्थाय भक्त्या पानान्नैः प्रत्यलाभ्यन्त चाऽऽदरात् ॥२८८॥ गणिनी बालचन्द्रा नः श्रेष्ठिवस्वोकसोऽन्तिके । प्रतिश्रयश्चेति साध्व्यस्तत्पृष्टा आचचक्षिरे ॥२८९॥ दिवसान्ते युवां तत्र गतौ भावितमानसौ । धर्मं च श्रावितौ सम्यग्गणिन्या बालचन्द्रया ॥२९०॥ तत्पादान्ते गृहिधर्मं प्रतिपन्नावुभौ युवाम् । मृत्वाऽभूतं ब्रह्मलोके नववाायुषौ सुरौ ॥२९१।। च्युत्वा युवामिमौ जातौ त्वया तिर्यग्वियोजनम् । चक्रे भिल्लभवे तीव्रमनया चाऽनुमोदितम् ॥२९२॥ प्रियाविपत्तिं विरहं बन्ध-बन्दादिवेदनाः । आसदस्तद्विपाकेन कष्टः पाको हि कर्मणः ॥२९३॥ बन्धुदत्तः पुनर्नत्वा भगवन्तं व्यजिज्ञपत् । अतः परं क्व यास्यावः ? कियांश्च भव आवयोः ? ॥२९४।।
स्वाम्याचख्यौ युवां मृत्वा सहस्रारे व्रजिष्यथः । च्युत्वा चक्री प्राग्विदेहे त्वं भावी ते महिष्यसौ ॥२९५।। १. महीपतिः मु० । २. निर्हेतुः मु० विना । ३. मारितः । १. उद्धृत्य मु० । २. दरिद्रगृहे । ३. तत्तुल्य० मु० । ४. ०ऽभूतां सं० हे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org