SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०१ चतुर्थः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । तत्र वैषयिकं सौख्यं भुक्त्वा चिरमुभावपि । उपादाय परिव्रज्यां ततः सिद्धिं व्रजिष्यथः ।।२९६।। तच्छ्रुत्वा बन्धुदत्तस्तु प्रियदर्शनया सह । श्रीपार्श्वस्वामिन: पार्वे तदैव व्रतमाददे ॥२९७।। पाअन्येधुः समवसृतं पाश्र्वं निजपुरान्तिके । राजा नवनिधिस्वामी वन्दनार्थमुपाययौ ॥२९८॥ प्राग्जन्मकर्मणा केन ऋद्धिमेतामिहाऽऽसदम् । तेनैवं भगवान् पृष्टः पार्श्वप्रभुरभाषत ॥२९९।। महाराष्ट्राभिधे राष्ट्र ग्रामे हेल्लूरनामनि । अभवः पूर्वभवे त्वमशोको नाम मालिकः ॥३००। विक्रीय पुष्पाण्यन्येधुश्चलितः स्वगृहं प्रति । मार्गार्धेऽहत्प्रतिष्ठेति प्राविशः श्रावकौकसि ॥३०१॥ तत्राऽर्हद्विम्बमालोक्य पुष्पान्वेषी करण्डके । त्वं हस्तं प्राक्षिपस्तत्र नव पुष्पाणि चाऽऽसदः ॥३०२॥ अर्हत्यारोपयस्तानि पुण्यं च महदार्जयः । प्रियङ्गोर्मञ्जरी राज्ञोऽन्यदा च त्वमढौकयः ॥३०३॥ राज्ञा श्रेणिप्रधानत्वे स्थापितस्त्वं विपद्य च । अभूर्नवद्रम्मलक्षपतिरेलपुरे पुरे ॥३०४॥ विपद्य तत्रैव नवद्रम्मकोटीश्वरोऽभवः । मृत्वा नवस्वर्णलक्षेशोऽभूः स्वर्णपथे पुरे ॥३०५॥ विपद्य तत्रैव नवस्वर्णकोटीश्वरोऽभवः । मृत्वा नवरत्नलक्षस्वामी रत्नपुरेऽभवः ॥३०६॥ क्रमाद्विपन्नस्तत्रैव पुरे रत्नपुराभिधे । नवानां रत्नकोटीनामुच्चस्त्वमधिभूरभूः ॥३०७॥ मृत्वा च वाटिकापुर्यां त्वं वल्लभनृपात्मजः । नवानां ग्रामलक्षाणामभूरधिपतिर्नृपः ॥३०८॥ ततो विपद्य राजाऽभूरीदृङ्नवनिधीश्वरः । अनुत्तरविमानं च भवादस्माद्गमिष्यसि ॥३०९॥ श्रुत्वेति स्वामिनो वाचं भृशं भावितमानसः । समुपादत्त तत्कालं परिव्रज्यां स पार्थिवः ॥३१०॥ गएवं विहरतो भर्तुः सहस्राः षोडशर्षयः । अष्टात्रिंशत्सहस्राणि साध्वीनां तु महात्मनाम् ॥३११॥ चतुर्दशपूर्वभृतां पञ्चाशं च शतत्रयम् । अवधिज्ञानयुक्तानां चतुर्दश शतानि तु ॥३१२॥ मनोविदां सप्तशती सार्धा केवलिनां पुनः । सहस्रं वैक्रियलब्धिमतां त्वेकशतोत्तरम् ॥३१३।। सम्पन्नवादलब्धीनां षट् शतानि महात्मनाम् । श्रावकाणां लक्षमेकं चतुःषष्टिसहस्रयुक् ॥३१४॥ श्राविकाणां तु त्रिलक्षीसहस्राः सप्तसप्ततिः । परिवारः समभवत् केवलज्ञानवासरात् ॥३१५।। ज्ञात्वा निर्वाणमासन्नं सम्मेताद्रौ ययौ प्रभुः । त्रयस्त्रिंशन्मुनियुतो मासं चाऽनशनं व्यधात् ॥३१६।। श्रावणस्य सिताष्टम्यां विशाखायां जगद्गुरुः । त्रयस्त्रिंशन्मुनियुतः प्रपेदे पदमव्ययम् ॥३१७॥ गार्हस्थ्ये त्रिंशदब्दानि सप्ततिव्रतपालने । इत्यायुर्वत्सरशतं श्रीपार्श्वस्वामिनोऽभवत् ॥३१८॥ श्रीनेमिनिर्वाणदिनात् त्र्यशीति-समासहस्यां शतसप्तके च। पञ्चाशदग्रे परमेश्वरस्य श्रीपार्श्वनाथस्य बभूव मोक्षः ॥३१९॥ शक्रादयो दिविषदां पतयः समेत्य सम्मेतशैलशिखरे त्रिदशैः समेताः । शोकातिरेकविवशाः परमेश्वरस्य पार्श्वस्य मोक्षमहिमानमकार्षुरुच्चैः ॥३२०॥ ये पार्श्वनाथचरितं त्रिजगत्पवित्रं श्रद्धालवः श्रवणगोचरमानयन्ति । तेभ्योऽपयान्ति विपदोऽद्भुतसम्पदश्च ते स्युर्वजन्ति परमं च पदं किमन्यत् ॥३२१॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये नवमपर्वणि श्रीपार्श्वनाथविहार-निर्वाणवर्णनो नाम चतुर्थः सर्गः ॥ श्री पार्श्वनाथचरितं समाप्तं ॥ ग्रन्थाग्रं १६००३ । ॥ समाप्तमिदं नवमं पर्व ॥ इति श्रीत्रिषष्टिशलाकापुरुषचरित्रे अष्टमं नवमं च पर्व समाप्तम् ।। १. र्हत्प्रतिष्ठिते मु० । २. पुष्पान्वेशी मु० । ३. त्वं पुण्यं म० ता०। ४. नवद्रव्य० मु०, सं० हे० । ५. स्वामी । ६. सप्तविंशतिः ता० । ७. नवमे मु० । ८. १६०४ हे० । ४. समाप्तं चेदं हे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001458
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 8 9
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy