________________
१९६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
तद् गत्वाऽहं विशालायां गृहीत्वाऽर्थं स्वमातुलात् । दत्त्वा च चोरसेनान्ये मोचयामि निजां प्रियाम् ।।१३१।। समं च प्रियया गत्वा नागपुर्यां स्ववेश्मतः । अर्थं दास्ये मातुलस्याऽप्युपायेन कृतं स्मरन् ॥१३२॥ ध्यात्वेति,पूर्वाभिमुखं गच्छन्नह्नि द्वितीयके । स्थानं गिरिस्थलं नाम जगामाऽत्यन्तदुःखितः ॥१३३।। मार्गासन्ने तरुच्छन्ने व्यश्राम्यद् यक्षवेश्मनि । स यावत्तावदभ्यागात् पान्थ एकः श्रमादितः ॥१३४॥ कुतोऽभ्यागा इति पृष्टो बन्धुदत्तेन सोऽध्वगः । आचचक्षे विशालायाः पुर्या आगामिति स्फुटम् ॥१३५।। सार्थवाहो धनदत्तस्तत्राऽस्ति कुशली स किम् ? | बन्धुदत्तेनेति पृष्टो दीनास्यः सोऽध्वगोऽब्रवीत् ॥१३६।। धनदत्ते व्यवहर्तुं गते तत्सूनुरोदिमः । गृहे पल्या सह क्रीडन् यान्तं नाजीगणन्नृपम् ॥१३७॥ सर्वस्वमग्रहीत्तस्य कुद्धस्तेनाऽऽगसा नृपः । गुसौ पुत्र-कलत्रादितत्कुटुम्ब न्यधत्त च ॥१३८।
आयातो धनदत्तोऽपि बन्धुदत्तं स्वसुः सुतम् । दण्डावशिष्टकोट्यर्थे व्यमोचि ह्यो व्रजन्मया ॥१३९।। पअथ दध्यौ बन्धुदत्तो दैवेन किमहो ! कृतम् ? । यत्राऽऽशा मेऽभवत् सोऽपि पातितो व्यसनार्णवे ॥१४०॥
भवत्वत्रैव हि स्थित्वा पश्यामि निजमातुलम् । गत्वा नागपुरीं तस्य साधयाम्यर्थमाशु च ॥१४१।। विमृश्यैवं च तस्थौ स पञ्चमेऽह्नि तु मातुलः । सार्थेनाऽऽगात्कतिपयसहायो भृशमुन्मनाः ॥१४२॥ वने यक्षौकसस्तस्य तमालस्य तरोस्तले । उपाविशद्धनदत्तो बन्धुदत्तेन चैक्ष्यत ॥१४३॥ उपलक्षयितुं तं च बन्धुदत्तोऽब्रवीदिति । कुतो यूयमिहाऽऽयाता ब्रूत यास्यथ कुत्र वा ? ॥१४४॥ उवाच धनदत्तोऽपि विशालाया इहागतः । महापुरी नागपुरी गच्छन्नस्मि च सुन्दर ! ॥१४५॥ बभाषे बन्धुदत्तोऽपि तत्राऽहमपि याम्यहो ! । नागपुर्यां परं तत्र को वस्तिष्ठति कथ्यताम् ॥१४६।। जामेयो बन्धुदत्तो मे तत्राऽस्तीति जगाद सः । प्रत्यूचे बन्धुदत्तोऽपि बन्धुदत्तः सुहृन्मम ॥१४७|| तं ज्ञात्वा मातुलं बन्धुदत्तः स्वं त्वप्रकाशयन् । तत्रैवाऽस्थाद्वभुजाते शिश्याते मिलितौ च तौ ॥१४८॥ गप्रातश्च बन्धुः शौचाय नदी यातो ददर्श च । कदम्बगहरे रत्नेच्छायाक्तरजसं भुवम् ॥१४९।। सोऽखनत्तीक्ष्णशृङ्गेण तां क्षमामाससाद च । करण्डकं ताम्रमयं रत्नाभरणपूरितम् ॥१५०।। करण्डं छत्रमादाय धनदत्तमुपेत्य च । आख्याय च यथालब्धं सप्रश्रयमदोऽवदत् ॥१५१॥ मया कार्पटिकाल्लब्धा प्रवत्तिर्भवतोऽखिला । त्वत्पुण्यैश्च करण्डोऽयं गृह्यतां मित्रमातुल ! ॥१५२।। उभौ गत्वा विशालायां दत्त्वाऽर्थं नृपतिग्रहोत् । स्वमानुषान्मोचयावो यावो नागपुरी ततः ॥१५३॥ इत्युदित्वा बन्धुदत्तः पुरो मुक्त्वा करण्डकम् । तूष्णीकः समभूत् सोऽपि धनदत्तोऽब्रवीदिति ॥१५४॥ मोचितैर्मानुषैः किं मे द्रक्ष्यामः सुहृदं तव । बन्धुदत्तं महाभाग ! स प्रमाणं ततः परम् ॥१५५।। बन्धुदत्तः प्रणम्याऽथ शशंस स्वं यथातथम् । उवाच धनदत्तो हा ! कथं प्राप्तो दशामिमाम् ? ॥१५६।। स्ववृत्ते बन्धुनाऽऽख्याते धनदत्तोऽभ्यधादिदम् । वत्साऽऽदौ मोचयिष्यामो भिल्लेभ्यः प्रियदर्शनाम् ॥१५७॥ अत्राऽन्तरे नृपभटा द्रुतमेयुरुदायुधाः । सर्वांस्तत्रोषितान् पान्थान् दध्रुस्तस्करशङ्कया ॥१५८॥ धनदत्त-बन्धुदत्तौ द्रव्यं यक्षालयान्तिके । यावच्चिक्षिपतुस्तावत्प्राप्तौ तौ राजपूरुषैः ॥१५९।। किमेतदिति तैः पृष्टावूचतुस्ताविदं वचः । युष्मद्भयेन स्थगितमावाभ्यां वस्त्विदं निजम् ॥१६॥ समं तेन करण्डेन तौ पान्थानपरानपि । ते निन्यिरे राजभटाः समीपे राजमन्त्रिणः ॥१६१॥ परीक्ष्य मुक्त्वाऽन्यान् पान्थान् मन्त्री जामेय-मातुलौ । युवां कुतस्त्यौ किं चेदमित्यपृच्छत् कृतादरः ॥१६२।। आगताः स्मो विशालायाः पूर्वार्जितमिदं धनम् । गृहीत्वा लाटदेशाय चलिताश्चाऽधुना वयम् ॥१६३।। मन्त्र्यचे यदि वोऽर्थोऽयं तद्यभिज्ञानपूर्वकम् । सर्वं शंसत वेगेन यत्करण्डेऽत्र तिष्ठति ॥१६४।।
क्षुभितावनभिज्ञौ तावूचतुर्यद्ययं हृतः । करण्डस्तत् स्वयं मन्त्रिन्नुद्धाट्य ावलोक्यताम् ।।१६५।। १. ज्येष्ठः । २. कारागृहे । ३. भगिनीपुत्रः । ४. तज्ज्ञात्वा सं० हे० । ५. रत्नकान्त्याऽक्तं अङ्कितं रजो यस्यास्ताम् । ६. गुप्तम् । ७. सप्रणयम् । ८. कर्प० सं०हे० । ९. नृपबन्धनात् । १०. प्रविलो० सं० । व्यवलो० हे० ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org