________________
चतुर्थः सगः)
श्रीविषष्टिशलाकापुरुषचरितम् ।
खेचरोक्तिमिति श्रुत्वा बन्धदत्तं निरीक्ष्य च । अचिन्तयज्जिनदत्तो वरोऽसौ मत्सुतोचितः ॥९७।। जिनदत्तो विमृश्यैवं खेचा परोधयन् । बन्धुदत्तमभाषिष्ट ममोद्वह सुतामिति ।।९८।। बन्धुदत्तोऽपि मेने तदनिन्द्रामिव नाटयन् । तदैव चाऽमितगतिश्चत्राङ्गदमजिज्ञपत् ॥९९।। चित्राङ्गदे जन्ययात्रामुपादाय समागते । जिनदत्तो बन्धुदत्तं स्वपुत्र्या पर्यणाययत् ॥१००।। चित्राङ्गदो बन्धुदत्तं शासित्वा स्वास्पदं ययौ । बन्धुदत्तस्तु तत्राऽस्थाद्रमयन् प्रियदर्शनाम् ॥१०१।। स च श्रीपार्श्वनाथस्य रथयात्रामकारयत् । एवं धर्मरतस्तत्र चतुरब्दीमवास्थित ॥१०२।। कालेन गच्छता गर्भं दध्रे च प्रियदर्शना । ददर्श च गजं स्वप्ने प्रविशन्तं मुखाम्बुजे ॥१०३॥ अपरेधुर्बन्धुदत्तः स्वस्थानगमनं प्रति । मनोरथं समुत्पन्नं निजपत्रीमजिज्ञपत् ॥१०४॥ साऽप्याख्यज्जिनदत्ताय जिनदत्तोऽपि सम्पदा । भूयिष्ठया तं संवाह्य व्यसृजत् प्रियया सह ।।१०५।। यास्याम्यहं नागपुरीमित्याघोषणया जनान् । सह प्रचलितानग्रे विधाय निजबन्धुवत् ॥१०६।। गच्छन् शनैः शनैर्मार्गे स सन्मार्गमहाध्वगः । अनर्थैकमहासद्म-पद्माख्यामटवीं ययौ ॥१०७॥ युग्मम् ।। सार्थं रक्षन्ननिविण्णोऽटवीं तां वासरैस्त्रिभिः । लङ्घित्वैकस्य सरसस्तीरे सार्थमतिष्ठिपत् ॥१०८।। तत्रोषितस्य सार्थस्य यामिन्यां प्रहरेऽन्तिमे । चण्डसेनस्य पल्लीशस्याऽवस्कन्दः समापतत् ॥१०९॥ सार्थसर्वस्वमादाय तामपि प्रियदर्शनाम् । नीत्वा समर्पयामासुश्चण्डसेनाय तद्भटाः ॥११०॥ चण्डसेनोऽपि दीनास्यां निरीक्ष्य प्रियदर्शनाम् । उत्कृपोऽचिन्तयदिमां स्वस्थाने प्रापयामि किम् ? ॥१११।। इत्थं स चिन्तयंश्चुतलतां तत्पार्श्ववर्तिनीम् । चेटीमपृच्छदेषा का कस्येत्याख्याहि मेऽखिलम् ॥११२।। चेट्याँख्याज्जिनदत्तस्य कौशाम्बीश्रेष्ठिनः सुता । एषा प्रियदर्शनाख्येत्याकर्ण्य द्राग्मुमूर्छ सः ॥११३।। ऊचे च लब्धसंज्ञः सन् पल्लीशः प्रियदर्शनाम् । त्वत्पित्रा जीवितोऽस्मि प्राङ् मा भैषीः शृणु मूलतः ॥११४।। "प्रसिद्धोऽहं चौरराजोऽन्यदा चौर्याय निर्गतः । गतोऽस्मि वत्सविषये गिरिग्रामे निशामुखे ॥११५॥ चौरैर्वृतः पिबन्मद्यं तत्र प्राप्तोऽस्मि रक्षकैः । तैधृत्वा मानभङ्गस्याऽर्पितस्तेनाऽस्मि घातितः ॥११६॥ वधाय नीयमानोऽहं त्वत्पित्राऽतिकृपालुना । पोषधान्ते पारणाय गच्छता मोचितोऽस्मि च ॥११७॥ दत्त्वा वस्त्राणि वित्तं च त्वत्पिता व्यसृजच्च माम् । उपकारिसुताऽसि त्वं तदादिश करोमि किम् ? ||११८॥ जिनदत्तसुत्ताऽप्यूचे तद् भ्रातर्मेलयाऽधुना । अवस्कन्दे विप्रयुक्तं बन्धुदत्तं पतिं मम ॥११९॥ एवं करोमीत्युदित्वा पल्लीशः प्रियदर्शनाम् । गृहे नीत्वाऽत्यन्तभक्त्याऽपश्यत् स्वामिव देवताम् ॥१२०॥ अथ स्वयं चण्डसेनो बन्धुदत्तं निरीक्षितुम् । निर्जगामाऽभयदानैराश्वास्य प्रियदर्शनाम् ॥१२१॥ गइतश्च बन्धुदत्तोऽपि वियुक्तः प्रियया तया । हिन्तालवनमध्यस्थोऽस्वस्थ एवमचिन्तयत् ॥१२२॥ मया विरहितैकाहमपि प्रसृतिलोचना । सा जीवितुं नोत्सहते प्रिया मे तन्मृता भवेत् ॥१२३॥ प्रत्याशया ननु कया जीवाम्यहमतः परम्? । मरणं शरणं युक्तं तन्मेऽप्यन्या गतिर्न हि ॥१२४॥ इदानीमहमत्र स्वं सप्तच्छदतरौ गुरौ । उद्बध्य पञ्चतां यामीत्यालोच्याऽभिससार सः ॥१२५।। उपसप्तच्छदं प्राप्तो ददर्शाऽग्रे महासरः । तत्र चैकं राजहंसं प्रियाविरहदुःखितम् ॥१२६।। तं पश्यन्नात्मवद्दीनं सोऽभूदत्यन्तदुःखितः । दुःखितो दुःखितानां हि पीडां जानाति मानसीम् ॥१२७।। तथास्थिते बन्धुदत्ते राजहंसः क्षणेन सः । हंस्या कुवलयच्छायाऽऽसीनया युयुजेतराम् ॥१२८।। तं प्रियामिलितं दृष्ट्वा बन्धुदत्तोऽप्यचिन्तयत् । भूयोऽपि जीवतां योगो जायते जायया खलु ॥१२९।।
तद्यामि स्वां पुरी नि:स्वः कथं वा तत्र याम्यहम् । कौशाम्ब्यामपि गमनं नोचितं प्रियया विना ॥१३०।। १. चतुर्वर्षपर्यन्तम् । २. धाटी । ३. ०मपश्यदेषा मु० । ४. चेट्याख्या० मु० । ५. पौष० मु० । ६. अवस्कन्दैविप्र० मु० । ७. ०मध्यस्थः स्वस्थ० सं० । ८. दीर्घलोचना । ९. ०मत्रस्थसप्त० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org