________________
१९४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
मम भार्याविहीनस्य किं श्रियेति स चिन्तयन् । दिने दिने क्षीयते स्म कृष्णपक्ष इवोडुपः ॥६४॥ पदध्यौ धनपतिपुःखी मम पुत्रो विपत्स्यते । तव्यापारे क्षिपाम्येनं दुःखविस्मृतिहेतवे ॥६५॥ इति निर्णीय स श्रेष्ठी बन्धुदत्तं समादिशत् । व्यवहर्तुं सिंहलेषु व्रज वत्साऽन्यतोऽपि वा ॥६६।। पित्राज्ञया बन्धुदत्तो भाण्डान्यादाय भूरिशः । पोतमारुह्य जलधि लङ्घित्वा सिंहलान् ययौ ॥६७।। स सिंहलेशं साराभिरुपदाभिररञ्जयत् । सोऽपि तस्याऽमुचच्छुल्कं प्रसादाद् व्यसृजच्च तम् ॥६८।। तत्र विक्रीय भाण्डानि प्राप्य लाभं मनीषितम् । प्रतिभाण्डानि च क्रीत्वा प्रतस्थे स्वंपुरं प्रति ॥६९।। गच्छतो वार्धिमार्गेण स्वदेशान्तिकमीयुषः । दुर्वातान्दोलितं तस्य यानपात्रमभज्यत ।।७०।। स प्राप्य काष्ठफलकं किञ्चिदैवानुकूल्यतः । रत्नद्वीपमाससाद समुद्रतटभूषणम् ॥७१।। उत्तीर्य वाप्यां स्नात्वा स फलिते चूतकानने । स्वादून्यास्वादयामास चूतानि क्षुद्रुजौषधम् ॥७२।। एवं मार्गे फलाहारी स ययौ रत्नपर्वतम् । तत्राऽऽरूढो रत्नमयं चैत्यमेकं ददर्श च ॥७३॥ प्रविवेश स तच्चैत्यं तत्र चाऽरिष्टनेमिन: । ववन्दे प्रतिमां तत्र स्थितानथ महामुनीन् ॥७४।। तत्र स ज्येष्ठमुनिना पृष्टः स्वोदन्तमादित: । जगाद भार्यामरणपोतभङ्गादिकं शनैः ॥७५।। मुनिना बोधितस्तेन जिनधर्मं स शिश्रिये । स्वकीयामार्गति तत्र सफलामनुमोदयन् ।।७६।। पतत्र चित्राङ्गदो नाम विद्याधर उवाच तम् । अमुना जिनधर्मेण साधु सार्मिकोऽसि मे ॥७७||
आकाशगामिनी विद्यां किं प्रयच्छाम्यहं तव? । त्वां स्थाने वा नयामीष्टे? तुभ्यं कन्यां ददामि वा? ||७४। बन्धुदत्तोऽवदद्या ते विद्या सा खलु मद्वशा । स्थानं तदेव मेऽभीष्टं यत्रेदृग्गुरुदर्शनम् ॥७९॥ इत्युक्त्वा तत्रं तूष्णीके चिन्तयामास खेचरः । कन्यामिच्छत्यसौ तत्राऽनिषेधेऽनुमतिध्रुवम् ॥८०॥ अमुनोढा सती कन्या न हि या म्रियतेऽधुना । सम्यग्विज्ञाय तामस्मै ढौकयामि महात्मने ।।८१।। इति निश्चित्य स स्थाने बन्धुदत्तं निजेऽनयत् । आनर्च चोचितैः स्नान-भोजनादिभिरुच्चकैः ॥८२।। चित्राङ्गदोऽथ पप्रच्छ स्वान् सर्वानपि खेचरान् । किं दृष्टा भारते वर्षे काऽपि कन्याऽस्य याऽर्हति ? ||८३। मृगाङ्कलेखा तद्भातुरङ्गदस्य सुता ततः । ऊचे तात ! न किं वेत्सि मत्सखीं प्रियदर्शनाम् ? ॥८४॥ स्त्रीरत्नमिव सा रूपात् कौशाम्ब्यामस्ति मे सखी । जिनदत्तश्रेष्ठिसुता तत्पार्वेऽहमगां पुरा ॥८५|| जनयित्वा सुतमियं परिव्रज्यां ग्रहीष्यति । इत्याख्यन्मुनिरेकस्तामुद्दिश्याऽ श्रावि तन्मया ॥८६।। चित्राङ्गदोऽथाऽऽदिदेशाऽमितगत्यादिखेचरान् । दापयितुं बन्धुदत्तायोचितां प्रियदर्शनाम् ॥८७।। ते बन्धुदत्तमादाय कौशाम्ब्यां खेचरा ययुः । आवात्सुर्बहिरुद्याने पार्श्वचैत्यविभूषिते ॥८८।। बन्धुदत्तोऽपि तच्चैत्यं प्राविशत् खेचरैः सह । पार्वं ववन्दे साधूंश्च तेभ्यो धर्ममथाऽशृणोत् ।।८९॥ तत्राऽऽयातो जिनदत्तोऽप्यथ: साधर्मिकप्रियः । निनाय स्वगृहेऽभ्यर्थ्य बन्धुदत्तं सखेचरम् ।।९०॥ बन्धुदत्तं खेचरांश्च जिनदत्तः सगौरवम् । स्नानासनाद्यैः सत्कृत्य पप्रच्छाऽऽगमकारणम् ॥११॥ कामप्रयोजनमिदं कामाङ्गमनृतं खलु । इति ते खेचराः सद्यः समुत्पाद्येदमूचिरे ॥९२॥ तीर्थयात्रामुपक्रम्य रत्नाद्रेनिर्गता वयम् । अगमामोज्जयन्ताद्राववन्दिष्महि नेमिनम् ॥९३।। तत्रत्येनाऽमुना बन्धुदत्तेन निजबन्धुवत् । सार्मिका इति वयमचिंता भोजनादिना ॥९४।। असौ धर्मरतो दारविमुखश्च सदैव हि । इत्यभूदधिका प्रीतिरस्माकममुना सह ॥९५।।
श्रीपाश्र्वं वन्दितुमिहोज्जयन्तादागता वयम् । बन्धुदत्तोऽप्यसावागादस्मत्स्नेहनियन्त्रितः ॥९६।। १. स्वपुरी सं० । २. क्षुध् एव रुजा-रोगः, तस्या औषधम् । ३. ०नष्ट मु० । ४. आगमनम् । ५. तस्मिन् बन्धुदत्ते तृष्णीके सति । ६. सुतमेषा मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org