________________
चतुर्थः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१९३
कोऽत्र भाण्डपतिर्भाण्डं? किं किं कियदिहेत्यथ । पप्रच्छुरायुक्तनरास्तान् सर्वान् कर्णधारकान् ॥३१॥ ते चाऽन्यथाऽन्यथाऽऽख्यान्तः क्षुभिताश्चोपलक्षिताः । आयुक्तैः सागरदत्तस्तत्र चाऽकार्यत द्रुतम् ॥३२॥ सागरं प्रेक्ष्य ते भीता नत्वा चोचुरिदं तदा । अस्माभिः कर्मचण्डालैर्दुष्कर्म विहितं प्रभो ! ॥३३॥ तथापि त्वं स्वपुण्येन रक्षितोऽसि वयं पुनः । वध्यकोटि तव प्राप्ताः कुरुष्वं स्वामितोचितम् ॥३४॥ कृपालुस्सागरस्तांश्च राजपुम्भ्यो व्यमोचयत् । प्रदाय किञ्चित् पाथेयं विससर्ज च शुद्धधीः ॥३५।। पुण्यवानिति राज्ञोऽतिसम्मतः स महामतिः । तेन पोतस्थभाण्डेन बहु द्रव्यमुपार्जयत् ॥३६॥ सोऽदाहानमपच्छच्च धर्मेच्छधर्मतीथिकान । देवदेवमहं रश्चिकीर्षे तं च शंसत ॥३७॥ नाऽभूत्तेषामेकवाक्यं देवतत्त्वापरिस्पृशाम् । अथाऽऽप्तः कश्चिदप्यूचे मुग्धान्मा पृच्छ मादृशान् ॥३८॥ कृत्वा तपोऽधिवास्यैकं रत्नं प्रणिहितो भव । देवताः कथयिष्यन्ति देवं ते पारमार्थिकम् ॥३९॥ तथैव सागरश्चक्रेऽष्टमान्ते काऽपि देवता । अदर्शयत्तीर्थकरप्रतिमां तस्य पावनीम् ॥४०॥ तमुवाच च भद्रैषा देवता पारमार्थिकी। सम्यक् स्वरूपं मुनयो यस्या जानन्ति नाऽपरे ॥४१॥ इत्युक्त्वा देवता साऽगात् प्रहृष्टः सागरश्च ताम् । अर्हन्मूर्ति स्वर्णवर्णां साधूनां समदर्शयत् ॥४२॥ आचख्युः साधवस्तस्य धर्मं जिनवरोदितम् । बभूव श्रावकः सोऽपि साधून् प्रपच्छ चाऽन्यदा ॥४३।। कस्येयमहतो मूर्तिः ? केन वा विधिना मया । प्रतिष्ठाप्या ? भगवन्तो यूयं शंसत मेऽधुना ॥४४॥ ऊचिरे साधवोऽप्येवं विषये पुण्ड्रवर्धने । श्रीपार्श्वः समवसृतस्तिष्ठत्यभ्येत्य पृच्छ तम् ॥४५॥ तदैव सागरो गत्वा श्रीपार्वं प्रणिपत्य च । प्रपच्छ रत्नप्रतिमोचितकार्याणि सर्वतः ॥४६॥ स्वाम्यप्याख्यत्समुद्दिश्य समवसरणं निजम् । सर्वानहदतिशयाञ्जिनौ स्थापनामपि ॥४७॥ जिनोक्तविधिना सोऽपि तीर्थकृत्प्रतिमेति ताम् । प्रत्यष्ठापयदन्येद्युः स्वाम्यन्ते प्राव्रजत्ततः ॥४८॥ ततश्च सपरीवारः सेव्यमानः सुरासुरैः । सर्वातिशयसम्पूर्णो भगवानन्यतो ययौ ॥४९।। गइतश्चाऽभून्नागपुर्यां पुर्यां धुर्यो यशस्विनाम् । नागपुर्यामिवाऽहीन्द्रः सूरतेजा महीपतिः ॥५०॥ इभ्यो धनपति माऽभूत्तत्र नृपतेः प्रियः । तथा धनपतेः पत्नी सुन्दरी शीलसुन्दरी ॥५१॥ कृतपैतामहाभिख्यो बन्धुदत्तस्तयोः सुतः । विनीतो गुणवांश्चापि प्रतिपेदे स यौवनम् ॥५२॥ वत्साभिधाने विजये कौशाम्ब्यां पुरि भूपतिः । कृतारिमानभङ्गोऽभून्मानभङ्गोऽभिधानतः ॥५३॥ इभ्यश्च जिनदत्ताख्यो जिनधर्मरतोऽभवत् । तस्य भार्या वसुमती तत्सुता प्रियदर्शना ॥५४॥ तस्याश्चाऽऽसीत् सखी विद्याधराङ्गदतनूद्भवा । नाम्ना मृगाङ्कलेखेति निलीना जिनशासने ॥५५॥ दिनानि व्यतियान्ति स्म तयोः सख्योर्द्वयोरपि । देवपूजा-गुरूपास्ति-धर्माख्यानादिकर्मभिः ॥५६॥ पाअन्यदा गोचरचर्यागतेनैकेन साधुना । द्वितीयसाधोरित्याख्याय्युद्दिश्य प्रियदर्शनाम् ॥५७॥ जनयित्वा सुतमियं महात्मा प्रव्रजिष्यति । मृगाङ्कलेखा तच्छ्रुत्वाऽहष्यन्नाऽऽख्यत्तु कस्यचित् ॥५८॥ स्वसूनवे धनपतिश्चन्द्रलेखामयाचत । पुत्रीं नागपुरीश्रेष्ठिवसुनन्दाद्ददौ च सः ॥५९॥ महीयसा महेनाऽथ शुभेऽहनि शुभे क्षणे । बभूव बन्धुदत्तस्य विवाहश्चन्द्रलेखया ॥६०॥ कङ्कणाङ्कितहस्तैव चन्द्रलेखाऽपरेऽहनि । ददंशे ईन्दशूकेन निशायां च व्यपद्यत ॥६१॥ एवं च भार्याः षट् तस्य विवाहानन्तरे दिने । ऊढमात्रा व्यपद्यन्त परिणामेन कर्मणः ॥६२।। बन्धुदत्तो विषहस्त इति याच्यापरोऽपि सन् । ततो नाऽऽपाऽपरां कन्यां द्रविणैः प्रचुरैरपि ॥६३॥
१. ०१:कर्म ता० । २. कुरु स्वामिन् ! यथो० ता० । कुरुष्व स्वामिनो० मु० । ३. ०त्सुहृष्टः मु० । ४. धर्मे मु० । ५. ०ज्जिनार्चा मु० । ६. लीना च मु० । ७. ०य्युपदिश्य मु० । ८. सर्पण । ९. प्रभुतै० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org