________________
॥ अथ चतुर्थः सर्गः ॥ विश्वविश्वानुग्रहाय विहरंस्त्रिजगद्गुरुः । भुवः पुण्ड्रायिते पुण्डूविषयेऽगमदन्यदा ॥१॥ इतश्चाऽऽसीत् पूर्वदेशे तामलिप्त्यां तदा पुरि । कलावित् सागरदत्तो वणिक्पुत्रो युवा सुधीः ॥२॥ जातात् स जातिस्मरणाद्विरक्तः स्त्रीषु सर्वदा । इयेष परिणेतुं न स्त्रियं रूपवतीमपि ॥३॥ स हि जन्मान्तरे विप्रो भार्ययाऽन्यप्रसक्तया । दत्त्वा विषं नष्टसंज्ञस्तत्यजे क्वचिदन्यतः ॥४॥ जीवितो गोकुलिन्या च स परिव्राडजायत । मृत्वा जातिस्मरः श्रेष्ठिपुत्रः स्त्रीविमुखोऽभवत् ॥५॥ लोकधर्मरता साऽपि मृत्वा गोकुलिनी क्रमात् । वणिक्पुत्री रूपवती तस्यामेवाऽभवत् पुरि ॥६॥ दृष्टिरस्य रमेताऽस्यामिति सम्भाव्य बन्धुभिः । वव्रे सागरदत्तार्थे सा लब्धा च सगौरवम् ॥७॥ तस्यामपि मनस्तस्य विशश्राम तथा न हि । स हि स्त्रीः प्राग्भवाभ्यासाद् यमदूतीरमन्यत ॥८॥ वणिक्सुता साऽथ दध्यौ कोऽपि जातिस्मरो ह्ययम् । स्त्रिया कयाऽप्युन्मथितः पुंश्चल्या पूर्वजन्मनि ॥९॥ सम्प्राप्तकालं तदिदमित्यालोच्य हृदि स्वयम् । लिखित्वा पत्रके श्लोकं सा प्रैषीत्सोऽप्यवाचयत् ॥१०॥ "पुंसः पायसदग्धस्य न त्यक्तुं दधि युज्यते । किं स्वल्पाम्भःसम्भविनो दुग्धे स्युः पूतराः क्वचित् ?'" ||११।। सम्यक् सागरदत्तोऽपि भावार्थं विमृशन् हृदि । लिखित्वा प्राहिणोच्छ्लोकं साऽपि चैवमवाचयत् ॥१२॥ "अपात्रे रमते नारी नीचं गच्छति कूलिनी । गिरौ वर्षति पर्जन्यो लक्ष्मीः श्रयति निर्गुणम्" ॥१३॥ विभाव्य साऽपि भावार्थं भूयस्तद्बोधहेतवे । लिखित्वा प्राहिणोच्छ्लोकं सोऽपि चैवमवाचयत् ॥१४॥ "क्व नै स्याद्वाचिको दोषस्तत्त्यागस्तावताऽपि किम् ? । अनुरक्तां रविः सन्ध्यां न हि त्यजति जातुचित्" ॥१५॥ तैयैवं सागरदत्तो वाचिकैरनुरञ्जितः । चक्रे विवाहं बुभुजे भोगांश्च मुदितोऽन्वहम् ॥१६।। अथ सागरदत्तस्य सपुत्रः श्वशुरोऽन्यदा । वणिज्याहेतवेऽगच्छन्नगरं पाटलापथम् ॥१७॥ श्रेष्ठी सागरदत्तोऽपि व्यवहर्तुं प्रचक्रमे । कदाचित्परतीरेऽगाद्वहनेन महीयसा ॥१८॥ सप्तकृत्व: प्रवहणं तस्याऽभज्यत वारिधौ । अपुण्योऽसाविति जनैर्जहसे च स आगतः ॥१९॥ क्षीणार्थोऽप्युद्यमं नौज्झद् भ्रमन् सोऽपश्यदन्यदा । आकर्षन्तं कूपिकया पयः कमपि दारकम् ॥२०॥ सप्तवारान् पयो नाऽऽगादागाद्वारेऽष्टमे पुनः । तद् दृष्ट्वाऽचिन्तयत् सोऽथ फलदो ह्युद्यमो नृणाम् ।।२१।। देवोऽपि शङ्कते तेभ्यो विघ्नान् कृत्वाऽऽपि खिद्यते । विघ्नैरस्खलितोत्साहाः प्रारब्धं न त्यजन्ति ये ॥२२॥ विचिन्त्यैवं स शकुनग्रन्थि बद्ध्वाऽधिसिंहलम् । चचाल पोतेन रत्नद्वीपं चाऽऽप मरुद्वशात् ॥२३॥ विचिक्रिये तत्र भाण्डान्यकीणाद्रत्नसञ्चयान् । तैश्च पोतं स आपूर्य प्रतस्थे स्वपुरीं प्रति ॥२४॥ तद्रत्रलुब्धैर्निर्यामैः स नक्तं चिक्षिपेऽर्णवे । प्राग्भिन्नपोतफलकं दैवात्प्राप्योत्ततार च ॥२५।। तच्च कूलस्थितं प्राप नगरं पाटलापथम् । वीक्षितश्च श्वशुर्येण निन्ये च निजवेश्मनि ॥२६॥ स्नात्वा भुक्त्वा च विश्रान्तः सागरो मूलतोऽपि हि । निर्यामोदन्तमाचख्यौ श्वशुर्योऽप्येवमब्रवीत् ॥२७॥ तिष्ठ त्वमत्र निर्यामास्त्वद्वन्धुजनशङ्कया । तामलिप्त्यां न यास्यन्ति किं त्वत्रैष्यन्ति दुर्धियः ॥२८॥ प्रत्यश्रौषीत् सागरस्तद्च्छृशुर्येण व्यजिज्ञपत् । तं वृत्तान्तं नरेन्द्राय न्यायोऽयं दीर्घदर्शिनाम् ॥२९॥
पतच्चाऽन्यदा प्रवहणं तीरे तत्र समाययौ । अज्ञायि चाऽऽयुक्तनरैः सागराख्यातलक्षणैः ॥३०॥ १. तिलकायिते । पुण्ड्रीयिते हे० । २. नदी । ३. नु मु० । ४. तथै० म० । ५. व्यापारं कर्तुम् । ६. श्वशुरेण मु० । ७. श्वशुरो० मु० । ८. ०च्छ्वशुरेण मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org