Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
२०१
चतुर्थः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । तत्र वैषयिकं सौख्यं भुक्त्वा चिरमुभावपि । उपादाय परिव्रज्यां ततः सिद्धिं व्रजिष्यथः ।।२९६।। तच्छ्रुत्वा बन्धुदत्तस्तु प्रियदर्शनया सह । श्रीपार्श्वस्वामिन: पार्वे तदैव व्रतमाददे ॥२९७।। पाअन्येधुः समवसृतं पाश्र्वं निजपुरान्तिके । राजा नवनिधिस्वामी वन्दनार्थमुपाययौ ॥२९८॥ प्राग्जन्मकर्मणा केन ऋद्धिमेतामिहाऽऽसदम् । तेनैवं भगवान् पृष्टः पार्श्वप्रभुरभाषत ॥२९९।। महाराष्ट्राभिधे राष्ट्र ग्रामे हेल्लूरनामनि । अभवः पूर्वभवे त्वमशोको नाम मालिकः ॥३००। विक्रीय पुष्पाण्यन्येधुश्चलितः स्वगृहं प्रति । मार्गार्धेऽहत्प्रतिष्ठेति प्राविशः श्रावकौकसि ॥३०१॥ तत्राऽर्हद्विम्बमालोक्य पुष्पान्वेषी करण्डके । त्वं हस्तं प्राक्षिपस्तत्र नव पुष्पाणि चाऽऽसदः ॥३०२॥ अर्हत्यारोपयस्तानि पुण्यं च महदार्जयः । प्रियङ्गोर्मञ्जरी राज्ञोऽन्यदा च त्वमढौकयः ॥३०३॥ राज्ञा श्रेणिप्रधानत्वे स्थापितस्त्वं विपद्य च । अभूर्नवद्रम्मलक्षपतिरेलपुरे पुरे ॥३०४॥ विपद्य तत्रैव नवद्रम्मकोटीश्वरोऽभवः । मृत्वा नवस्वर्णलक्षेशोऽभूः स्वर्णपथे पुरे ॥३०५॥ विपद्य तत्रैव नवस्वर्णकोटीश्वरोऽभवः । मृत्वा नवरत्नलक्षस्वामी रत्नपुरेऽभवः ॥३०६॥ क्रमाद्विपन्नस्तत्रैव पुरे रत्नपुराभिधे । नवानां रत्नकोटीनामुच्चस्त्वमधिभूरभूः ॥३०७॥ मृत्वा च वाटिकापुर्यां त्वं वल्लभनृपात्मजः । नवानां ग्रामलक्षाणामभूरधिपतिर्नृपः ॥३०८॥ ततो विपद्य राजाऽभूरीदृङ्नवनिधीश्वरः । अनुत्तरविमानं च भवादस्माद्गमिष्यसि ॥३०९॥
श्रुत्वेति स्वामिनो वाचं भृशं भावितमानसः । समुपादत्त तत्कालं परिव्रज्यां स पार्थिवः ॥३१०॥ गएवं विहरतो भर्तुः सहस्राः षोडशर्षयः । अष्टात्रिंशत्सहस्राणि साध्वीनां तु महात्मनाम् ॥३११॥ चतुर्दशपूर्वभृतां पञ्चाशं च शतत्रयम् । अवधिज्ञानयुक्तानां चतुर्दश शतानि तु ॥३१२॥ मनोविदां सप्तशती सार्धा केवलिनां पुनः । सहस्रं वैक्रियलब्धिमतां त्वेकशतोत्तरम् ॥३१३।। सम्पन्नवादलब्धीनां षट् शतानि महात्मनाम् । श्रावकाणां लक्षमेकं चतुःषष्टिसहस्रयुक् ॥३१४॥ श्राविकाणां तु त्रिलक्षीसहस्राः सप्तसप्ततिः । परिवारः समभवत् केवलज्ञानवासरात् ॥३१५।। ज्ञात्वा निर्वाणमासन्नं सम्मेताद्रौ ययौ प्रभुः । त्रयस्त्रिंशन्मुनियुतो मासं चाऽनशनं व्यधात् ॥३१६।। श्रावणस्य सिताष्टम्यां विशाखायां जगद्गुरुः । त्रयस्त्रिंशन्मुनियुतः प्रपेदे पदमव्ययम् ॥३१७॥ गार्हस्थ्ये त्रिंशदब्दानि सप्ततिव्रतपालने । इत्यायुर्वत्सरशतं श्रीपार्श्वस्वामिनोऽभवत् ॥३१८॥ श्रीनेमिनिर्वाणदिनात् त्र्यशीति-समासहस्यां शतसप्तके च। पञ्चाशदग्रे परमेश्वरस्य श्रीपार्श्वनाथस्य बभूव मोक्षः ॥३१९॥
शक्रादयो दिविषदां पतयः समेत्य सम्मेतशैलशिखरे त्रिदशैः समेताः । शोकातिरेकविवशाः परमेश्वरस्य पार्श्वस्य मोक्षमहिमानमकार्षुरुच्चैः ॥३२०॥ ये पार्श्वनाथचरितं त्रिजगत्पवित्रं श्रद्धालवः श्रवणगोचरमानयन्ति । तेभ्योऽपयान्ति विपदोऽद्भुतसम्पदश्च ते स्युर्वजन्ति परमं च पदं किमन्यत् ॥३२१॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये नवमपर्वणि श्रीपार्श्वनाथविहार-निर्वाणवर्णनो नाम चतुर्थः सर्गः ॥
श्री पार्श्वनाथचरितं समाप्तं ॥ ग्रन्थाग्रं १६००३ ।
॥ समाप्तमिदं नवमं पर्व ॥ इति श्रीत्रिषष्टिशलाकापुरुषचरित्रे
अष्टमं नवमं च पर्व समाप्तम् ।। १. र्हत्प्रतिष्ठिते मु० । २. पुष्पान्वेशी मु० । ३. त्वं पुण्यं म० ता०। ४. नवद्रव्य० मु०, सं० हे० । ५. स्वामी । ६. सप्तविंशतिः ता० । ७. नवमे मु० । ८. १६०४ हे० । ४. समाप्तं चेदं हे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282