Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 278
________________ ॥ द्वितीयं परिशिष्टम् ।। ॥ हैमवचनामृतम् ॥ ॥ अष्टमं पर्व ॥ ॥ प्रथमः सर्गः ॥ को हि दीपे सत्यग्निमीक्षते ? ॥६७|| 'यत् प्रमोदयते सूर्यः पद्मिनी करपीडनात् । सोऽर्थः स्वभावसंसिद्धो न हि याच्चामपेक्षते' ॥८४॥ साधूनां नैकत: स्थितिः ॥११९।। मन्त्रशक्तेहि नाऽवधिः ॥१६३।। कामान्धाः किं न कुर्वते ? ॥३१७।। प्रकृष्टेभ्य: प्रकृष्टाः स्युर्बहुरत्ना हि भूरियम् ॥३९८॥ दैवं दुर्बलघाति हि ॥७०५॥ आयाति दुःखिनां दु:खे दुःखं तत्सौहदादिव ॥७५१॥ पङ्कमग्नाऽपि पद्मिन्येव हि पद्मिनी ॥७५७॥ राजा गृह्णन् करं पृथ्व्या रक्षेच्चौराद्युपद्रवम् । चौरादीनां हि पापेन लिप्येत स्वयमन्यथा ॥७९१|| नारीणामातुरत्वे हि न दूरे नयनोदकम् ॥८२१॥ न स्त्रीपरिभवं कोऽपि सहते ॥९८४॥ ॥ चतुर्थः सर्गः ॥ पिता बाल्ये हि शासिता ||१७|| स्वयंवरे कन्यकानां प्रमाणं हि वृतो नरः ॥१८॥ ॥ द्वितीयः सर्गः ॥ धर्मः सुखहेतुर्भवे भवे ॥२८॥ पूर्वजन्मनिदानं हि नाऽन्यथा जातु जायते ॥११३॥ रहस्यं खलु नारीणां हृदये न चिरं स्थिरम् ॥१२८।। पुण्यैः किं न हि सिध्यति ? ॥४४५।। ॥ पञ्चमः सर्गः ॥ प्राक्तनं कर्म नाऽन्यथा ॥२०॥ न खलु स्वामिशासने । युक्तायुक्तविचारोऽर्हः सेवकानां कदाचन ॥३४८।। ॥ षष्ठः सर्गः ॥ प्रातःस्तनितमब्धानां किं वा भवति निष्फलम् ॥२७॥ सर्वं कर्मानुसारि हि ॥२५१|| कर्मणां विषमा गतिः ॥२८८॥ ॥ तृतीयः सर्गः ॥ दूत्ये हि मण्डनं वाग् ॥१२२।। दुर्गन्धस्य शरीरस्यौदारिकस्य सुधादनाः । नेशते गन्धमपि हि सोढुमित्याहतं वचः ॥१६७।। धर्मजुषां न किम् ? ॥२३३।। स्वस्थानगमनोत्कण्ठा कस्य न स्याद् बलीयसी ? ||३७८।। विनाऽऽलोकेन लोको हि जीवन्नपि परासुवत् ॥३८३।। न सिंहः सहतेऽन्यं हि गुहाद्वारोपसपिणम् ॥४२२॥ पलायनमपि श्रेयो यस्योदर्कोऽतिनिर्मल: ॥४२८।। चन्द्रस्याऽपि कलङ्कोऽस्ति क रत्रमनुपद्रवम् ? ||४३७।। प्रमाणं नियतिः खलु ॥४७५॥ कुर्यात् पुरुषकारः किं दैवे वक्रत्वमीयुषि ? ॥४९९।। श्वशुरः शरणं येषां नराणां ते नराधमाः ॥५१८।। शीलं सतीनां सर्वाङ्गरक्षामन्त्रो हि शाश्वत: ॥५२०॥ दुर्दशापतितानां हि स्त्रीणां धैर्यगुणः कुतः ? ॥५५१।। न ह्यात्मीया कञ्चलिका जातु भाराय भोगिनः ।।५५२॥ सर्वत्र कुशलं तासां स्त्रीणां याः स्युः पतिव्रताः ॥५६७॥ सुलभा धनिनां हि भीः ।।५७४|| पङ्कः पादेषु पान्थानां मोचकप्रक्रियाकरः ॥५८९॥ अवाप्तक्षीरपाणाय कस्मै रोचेत काञ्जिकम् ? ॥६३३।। तप:क्लेशसहानां हि न मोक्षोऽपि दवीयसि ॥६७२।। सप्तमः सर्गः तनयोऽपि हि सापत्नः सपत्नीदशकोपमः ॥२७॥ भवति खलु नाऽन्यथा भवितव्यता ॥२८॥ दुर्लध्यं दैवशासनम् ॥७५।। सत्यं हि कोपश्चाण्डालः ॥७८।। सुतं सिंही सौम्यं भद्रं च मन्यते । गजा एव हि जानन्ति तस्य क्रीडां शिशोरपि ॥९०॥ मन्त्रशक्ति विनोत्साह-प्रभुशक्ती दुरायती ॥२०८।। परः स्तोक: समो वाऽपि द्रष्टव्यः स्वाधिक: खलु ॥२०९।। सङ्ग्रामे सम्मुखीनानां वरं मृत्युर्यशस्करः । रणात् पराङ्मुखानां तु न जीवितमपि ॥२३०॥ क्षत्रिया हि न वाक्शूराः किन्तु शूराः पराक्रमात् ॥३४५।। द्विषदाकान्तं नोपेक्ष्यं कुलमात्मनः ॥४२४॥ प्रतिविष्णुविष्णुनैव वध्यः ॥४३२।। परेषामेव शस्त्राणि शस्त्राणि स्युर्महात्मनाम् ॥४५६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282