Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
१८२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
भवोद्विग्नः सोऽपरेधुविहाय तृणवच्छ्रियम् । उपादत्त परिव्रज्यां सुसाधुगुरुसन्निधौ ॥६२॥ तेनाऽर्धकथितेऽप्येवं राजा धार्मिकवत्सलः । मुदितो निजगादैवं सदस्यानपि मोदयन् ॥६३।। अहो विवेकी धर्मज्ञो नरवर्मा नरेश्वरः । य एवं तृणवद्राज्यं त्यक्त्वा व्रतमुपाददे ॥६४|| प्राणसंशयमारुह्य विविधायोधनोद्यमैः । यद्राज्यमय॑ते भूपैस्तत्प्राणान्तेऽपि दुस्त्यजम् ॥६५।। आत्मना सम्पदा वाऽपि प्राणभूताश्च याः प्रियाः । रक्ष्यन्ते ये च पुत्राद्या दुस्त्यजास्तेऽपि जीवता ॥६६।। सर्वमेकपदेऽत्याक्षीत्यक्तुकाम इमं भवम् । नरवर्माऽकरोत् साधु तदूर्ध्वं ब्रूहि सम्प्रति ॥६७।। भूयोऽपि स पुमानूचे राज्येऽभून्नरवर्मणः । सूनुः प्रसेनजिन्नाम सेनासिन्धुमहोदधिः ॥६८।। तस्य प्रभावती नाम सम्प्रति प्राप्तयौवना । भुविष्ठा सुरकन्येवाऽद्वैतरूपाऽस्ति कन्यका ॥६९।। इन्दुक्षोदैरिव मुखं दृशाविन्दीवरैरिव । स्वर्णचूर्णैरिव वपुः पाद-पाण्यम्बुजैरिव ॥७०।। रम्भागभैरिव चोरू नखाः शोणोपलैरिव । मृणालैरिव दोर्वल्ल्यौ धात्रा तस्याः प्रचक्रिरे ॥७१॥ युग्मम् ।। अद्वैतरूप-लावण्यां तां पश्यन् प्राप्तयौवनाम् । अनुरूपवरस्याऽर्थे सचिन्तोऽभूत् प्रसेनजित् ॥७२॥ बहूनन्वेषयामास स कुमारान् महीभुजाम् । मेने स्वपुत्र्या उचितं रूपेण न तु कञ्चन ॥७३॥ प्रभावत्यन्यदोद्यानं सखीभिः सहिता गता । किन्नरीभिः पद्यगीतं गीयमानमदोऽशृणोत् ॥७४।। श्रीमद्वाराणसीभर्तुरश्वसेनस्य नन्दनः । श्रीपार्श्वनाथो नयति रूप-लावण्यसम्पदा ॥७५।। यया स प्राप्स्यते भर्ता जयिनी साऽपि भूतले । स वल्लभो दुर्लभैस्तु तादृक् पुण्योदयः कुतः ? ॥७६।। एवं श्रीपार्श्वनाथस्य शृण्वन्ती गुणकीर्तनम् । तद्रागविवशा जज्ञे तन्मयीव प्रभावती ॥७७।। पार्वेन विजितो रूपात् कामस्तदनुरागिणीम् । अताडयत्तां विशिखैस्तद्वैरादिव निर्दयम् ॥७८।। परित्यज्याऽपरां क्रीडां व्रीडां च हरिणीव सा । भूयो भूयश्च तद्गीतमश्रौषीदेकमानसा ॥७९।। तद्गीताकर्णनेनैव पार्वे रागः सखीजनैः । अलक्ष्यत प्रभावत्या दक्षैः किं नोपलक्ष्यते ? ॥८॥ किन्नरीषत्पतितासूत्पश्या चिरमवास्थित । प्रभावती शून्यमनाः स्मरभूतवशंवदा ॥८१।। सख्यो वेश्मन्यथाऽऽनैषुर्मनीषिण्यः प्रवर्त्य ताम् । श्रीपार्श्वनाथं मनसा ध्यायन्तीं योगिनीमिव ।।८२।। आँकल्पो वह्निकल्पोऽभूढुकूलं च कुकूलंवत् । असिधारेव हारश्च तस्यास्तल्लीनचेतसः ॥८३॥ तस्याश्चाङ्गेऽभवत्तापः पानीयंप्रसृतिम्पचः । प्रस्थम्पचकटाहानां पूरणी चाश्रुधोरणी ॥८४।। न प्रभाते न प्रदोषे न नक्तं न दिवाऽपि सा । अवाप निर्वति बाला मदनज्वरजर्जरा ॥८५॥ तं च व्यतिकरं तस्या विज्ञायाऽसाध्यमात्मनः । सख्यो विज्ञपयामासुस्तत्पित्रोस्त्राणकाम्यया ॥८६।। पितरौ ममदाते च पार्वे रक्तां विबुध्य ताम् । तदाश्वासनहेतोश्च मुहुरेवं जजल्पतुः ।।८७|| साधु पार्श्वकुमारोऽयं जगत्रयशिरोमणिः । स्वानुरूपो दुहित्रा मे वरो ववे सुचेतसा ॥८८।। अस्मद्वत्सा महेच्छानामेकैव धुरि वर्तते । ईदृङ् मनोरथोऽन्यस्याः सम्भवत्यपि न क्वचित् ॥८९॥ वत्सामुद्वाहयिष्यावः कुमारेणाऽऽश्वसेनिना । फलप्राप्त्यनुसारेण प्रायेण हि मनोरथः ।।१०।। इत्थं पितृवचः सख्यो गत्वा तस्यै व्यजिज्ञपन् । तद्गिरा मुमुदे सापि स्तनितेनेव केकिनी ॥९१॥ प्रत्याशयाऽनया स्वस्था साऽप्यहान्यत्यवाहयत् । अङ्गुलीभिर्गणयन्ती योगिनी जपमन्त्रवत् ॥९२।।
१. तेनार्धे कथिते० मु० । २. जीविताः मु० हे० । ३. सेना एव सिन्धवो नद्यस्तेषां महोदधिः । ४. चन्द्रचूर्णैः । ५. दुर्लभश्च हे० । ६. निश्चेष्टीभूतां तां सचेष्टां कृत्वा । ७. नेपथ्यपरिधानम् । ८. तुषाग्निवत् । ९. पानीयं जलं, तस्य प्रसृतिः - अञ्जलिः (चळु), तं पचतीत्येवंविधस्तापः । १०. प्रस्थो मानविशेषः । तत्प्रमाणं धान्यं येषु पच्यते तादृशा ये कटाहाः (कढाईया), तान् पूरयति तस्या अश्रुधारा । ११. अश्रुधारा । १२. दधे मु० । १३. ०ऽप्यस्याः सं० ता० । १४. ०ष्यामः सं० । १५. पत्याशया० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282