Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 214
________________ तृतीयः सर्गः) श्रीत्रिषष्टिशलाकापुरुषचरितम् । १८७ ते समाचकृषुः काष्ठं यत्नाच्च तददारयन् । सुमहानुरगस्तस्मात् सहसा निर्जगाम च ।।२२४।। तत्रेषद्दह्यमानस्य महाहेर्भगवानृभिः । अदापयन्नमस्कारान् प्रत्याख्यानं च तत्क्षणम् ॥२२५।। नागः समाहितः सोऽपि तत्प्रतीयेष शुद्धधीः । वीक्ष्यमाणो भगवता कृपामधुरया दृशा ॥२२६।। नमस्कारप्रभावेण स्वामिनो दर्शनेन च । विपद्य धरणो नाम नागराजो बभूव सः ॥२२७॥ अहो ! ज्ञानं कुमारस्य विवेकः कोऽप्यसावहो ! । जनैरिति स्तूयमानः स्वामी स्वसदनं ययौ ॥२२८।। तद् दृष्ट्वाऽऽकर्ण्य च कठो विशेषेणाऽकरोत्तपः । बालं कष्टतरं वोऽपि ज्ञानं मिथ्यादृशां कुतः ? ॥२२९।। मृत्वा मेघकुमारेषु कठो भवनवासिषु । असुरो मेघमालीति नामतः समजायत ॥२३०॥ पाइतश्च पाश्र्वो भगवान् कर्म भोगफलं निजम् । उपभुक्तं परिज्ञाय प्रव्रज्यायां दधौ मनः ।।२३१।। भावज्ञा इव तत्कालमेत्य लोकान्तिकामराः । पाश्र्वं विज्ञपयामासुर्नाथ ! तीर्थं प्रवर्तय ॥२३२॥ ततश्च वार्षिकं दानं स्वामी दातुं प्रचक्रमे ! धनैर्वैश्रवणादिष्टजृम्भकामरपूरितैः ॥२३३॥ शक्राद्यैर्वासवैरश्वसेनाद्यैश्च नरेश्वरैः । दीक्षाभिषेको विदधे पार्श्वस्य परमेशितुः ॥२३४॥ विशालां नाम शिबिकामुद्वाह्यां देव-मानवैः । आरुह्य श्रीपार्श्वनाथोऽगादाश्रमपदे वने ॥२३५।। सान्द्रैर्मरुवकस्तोमैर्मेचंकीभूतभूतलम् । प्रशस्तिमिव कान्दी दधानं कुन्दकुड्मलैः ॥२३६।। मुचुकुन्दनिॉरम्बचुम्बिरोलम्बडम्बरम् । अम्बरोद्भ्रान्तलवलीपरागसुरभीकृतम् ॥२३७॥ इक्षुक्षेत्रतटासीनगायदुद्यानपालिकम् । प्रविवेश तदुद्यानं भगवानश्वसेनसूः ॥२३८॥ ॥त्रिभिर्विशेषकम्।। तत्रोत्तीर्य शिबिकाया भूषणादिकमत्यजत् । त्रिंशद्वर्षः प्रभुः पावो वासवार्पितदूष्यभृत् ॥२३९॥ पूर्वाह्ने पौषकृष्णैकादश्यां राधागते विधौ । स्वाम्यष्टमेन प्राव्राजीत् समं राज्ञां त्रिभिः शतैः ॥२४०।। मनःपर्ययसंज्ञं च तदा ज्ञानमभूद्विभोः । दीक्षासहभवं ह्येतत् सर्वेषां श्रीमदर्हताम् ॥२४१।। "द्वितीयेऽह्नि प्रभुः कोपकटाक्षे सन्निवेशने । अपारयत् पायसेन धन्यस्य गृहिणो गृहे ॥२४२॥ विदधुर्विबुधास्तत्र वसुधारादिपञ्चकम् । धन्यस्तु विदधे पादपीठं स्वामिपदावनौ ॥२४३।। वायुरिवाऽप्रतिबद्धो ग्रामाकरपुरादिषु । युगमात्रदत्तदृष्टिब्रह्मस्थो व्यहरत् प्रभुः ।।२४४।। विहरन्नेकदा स्वामी नगरासन्नवर्तिनम् । तापसाश्रममागाच्च ययौ चाऽस्तं दिवाकरः ॥२४५।। तत्रोपकूपं न्यग्रोधतरुमूले जगद्गुरुः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया निशि ॥२४६।। पइतश्च मेघकुमारो मेघमाली महासुरः । अज्ञासीदवधेः पूर्वभवव्यतिकरं निजम् ॥२४७।। पार्वे प्रतिभवं वैरं तच्च संस्मृत्य सोऽसुरः । अन्तः क्रोधेन जज्वाल वाडवेनेव सागरः ॥२४८।। पार्श्वनाथमुपद्रोतुं भेत्तुमद्रिमिव द्विपः । समाययावमर्षान्धो मेघौल्यसुराधमः ॥२४९॥ दंष्ट्राक्रकचभीमास्यान् सूर्पाकारनखाङ्करान् । शार्दूलान् पिङ्गलदृशो विचक्रे तत्र सोऽमरः ॥२५०।। पुच्छरोस्फोटयामासु पीठं ते मुहुर्मुहुः । चक्रुर्दूत्कारमुच्चैश्च मृत्योर्मन्त्राक्षरोपमम् ॥२५१।। तैर्न चुक्षोभ भगवान् ध्यानस्तिमितलोचनः । त एव प्रययुः क्वापि तद्ध्यानाग्निभयादिव ॥२५२।। विकृतास्तेन चाऽपेतुर्गर्जन्तो मदवर्षिणः । उत्कराः करिणस्तुङ्गाः पर्वता इव जङ्गमाः ॥२५३।। नाऽक्षुभ्यत्तैरपि स्वामी भीषणेभ्योऽपि भीषणैः । लज्जिता इव तेऽप्याशु प्रणश्य क्वचिदप्ययुः ॥२५४।। हिक्कानादापूर्णदिक्का भल्लूकाः शूर्कवजिताः । अनेकशश्चित्रकाश्च क्रूरा यमचमूनिभाः ॥२५५।। शिला अपि स्फोटयन्तः कण्टकाग्रेण वृश्चिकाः । तरूनपि निर्दहन्तो दृष्ट्या दृष्टिविषा अपि ॥२५६।। १. स महा० सं० । २. चापि सं० ता० । ३. भुवन० मु० । ४. मरुवको वृक्षविशेषः भाषायां 'मरवो' । ५. श्यामीभूतभूतलम्। ६. प्रशक्ति० सं० । ७. निकुरुम्ब० सं० ता० । ८. पूर्वाह्ने सं० । ९. कोपकटाख्ये मु० हे० । १०. निःकम्प० ता० । ११. माली सुरा० सं० विना । १२. शृण्याकार० ता० विना । १३. ०राच्छोट० मु० । १४. दयारहिताः । १५. यमवसू० मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org'

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282