Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 218
________________ तृतीयः सर्गः ) श्रीत्रिषष्टिशलाकापुरुषचरितम् । व्रतान्येभिरतिचारै रहितान्यनुपालयन् । श्रावकोऽपि विशुद्धात्मा मुच्यते भवबन्धनात् ||३५४|| तां भर्तुर्देशनां श्रुत्वा भूयांसोऽपि प्रवव्रजुः । श्रावक्यभूवन् भूयांसो नाऽर्हद्दीर्जातु निष्फला ||३५५ || प्रतिबुद्धोऽश्वसेनोऽपि हस्तिसेनाय सूनवे । तत्रैव दत्त्वा स्वं राज्यं प्रवव्राज महामनाः || ३५६ || वामादेवी - प्रभावत्यावपि देशनया प्रभोः । भवोद्विग्ने जगृहतुः प्रव्रज्यां मोक्षसाधनीम् ||३५७ . बभूवुरार्यदत्ताद्याः प्रभोर्गणधरा दश । स्वाम्याख्यत् त्रिपदीं तेषां स्थित्युत्पादव्ययात्मिकाम् ||३५ तया त्रिपद्या ते सर्वे द्वादशाङ्गीमसूत्रयन् । प्रज्ञावत्सूपदेशो हि स्याज्जले तैलबिन्दुवत् ॥ ३५९ ॥ पूर्णप्रथमपौरुष्यां देशनां व्यसृजत् प्रभुः । द्वितीयपौरुषीमार्यदत्तो व्यधित देशनाम् || ३६० ।। || अथ शक्रप्रभृतयः प्रणम्य परमेश्वरम् । स्थानं निजनिजं जग्मुः स्मरन्तः स्वामिदेशनाम् || ३६१ || तत्तीर्थभूरभूत् पार्श्वयक्षः कूर्मरथः शितिः । गजाननः फणिफणाच्छत्रशोभी चतुर्भुजः ॥३६२॥ नकुलाही वामदोर्भ्यां बीजपूरोरगौ पुनः । दक्षिणाभ्यां दधद्दोर्भ्यां भर्तुः शासनदेवता ॥ ३६३ || तथा पद्मावती देवी कुक्कुटोरगवाहना । स्वर्णवर्णा पद्म- पाशभृद्दक्षिणकरद्वया ॥३६४|| फलाङ्कुशधराभ्यां च वामदोर्भ्यां विराजिता । अभूद् द्वितीया श्रीपार्श्वभर्तुः शासनदेवता ॥३६५|| ताभ्यां प्रभुः शासनदेवताभ्यां निरन्तराधिष्ठितसन्निधानः । इमां व्यहार्षीदवनीं विनीतैर्देवैरथाऽन्यैरपि सेव्यमानः || ३६६ || ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित महाकाव्ये नर्वमे पर्वणि श्रीपार्श्वनाथकौमार-दीक्षाकेवलोत्पत्तिवर्णनो नाम तृतीयः सर्गः समाप्तः ॥ Jain Education International १. ०पञ्जरात् सं० । २. निःफला सं० । ३. श्वेतः । ४. कुर्कुटो० मु० । ५. ०प्रभोः मु० । ६. नवम० सं० ता० । ७. हे० ता० न । हे० प्रती ' ३७०' इत्यधिकम् । १९१ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282