Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
१९०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
द्वितीयोऽगारिणां पञ्चाऽणुव्रतानि गुणास्त्रयः । शिक्षाव्रतानि चत्वारीति द्वादशविधो मतः ॥३२३॥ व्रतानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥३२४|| क्रोधाद्वैन्धश्छविच्छेदोऽधिकभाराधिरोपणम् । प्रहारोऽन्नादिरोधश्चाऽहिंसायां परिकीर्तिताः ॥३२५।। मिथ्योपदेशः सहसाभ्याख्यानं गुह्यभाषणम् । विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥३२६।। स्तेनानुज्ञा तदानीतादानं द्विड्राज्यलङ्घनम् । प्रतिरूपक्रिया मानान्यत्वं चाऽस्तेयसंश्रिताः ।।३२७॥ इत्वरात्तागमोऽनोत्तागतिरन्यविवाहनम् । मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥३२८॥ धनधान्यस्य कुप्य॑स्य गवादेः क्षेत्र-वास्तुनः । हिरण्य-हेम्नश्च संख्यातिक्रमोऽत्राऽपरिग्रहे ।।३२९।। बन्धनाद्भावतो गर्भाद्योजनाद्दानतस्तथा । प्रतिपन्नव्रतस्यैष पञ्चधाऽपि न युज्यते ॥३३०॥ स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥३३१।। सचित्तस्तेनं सम्बद्धः सन्मिश्रोऽभिषवस्तथा । दुष्पक्वाहार इत्येते भोगोपभोगमानगाः ॥३३२॥ अमी भोजनतस्त्याज्या: कर्मत: खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥३३३॥ अङ्गार-वन-शैकट-भाटक-स्फोटजीविकाः । दन्तलाक्षा-रस-केश-विषैवाणिज्यकानि च ॥३३४।। यन्त्रपीडो निर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥३३५।। अङ्गारभ्राष्ट्रकरणं कुम्भा-ऽयः-स्वर्णकारिता । ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥३३६।। छिन्नाच्छिन्नवनपत्र-प्रसून-फलविक्रयः । कणानां दलनोत्पेषौदत्तिश्च वनजीविका ॥३३७॥ शकटानां तदङ्गानां घट्टनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥३३८।। शकटोक्ष-लुलायोष्ट्र-खराऽश्वतर-वाजिनाम् । भारस्य वाहनादृत्तिर्भवेद्भाटकजीविका ॥३३९॥ सर:कूपादिखनन-शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥३४०॥ दन्त-केश-नखा-स्थि-त्वग-रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥३४१। लाक्षा-मनःशिला-नीली-धातकी-टङ्कणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥३४२॥ नवनीत-वसा-क्षौद्र-मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रस-केशयोः ॥३४३॥ विषा-ऽस्त्र-हल-यन्त्रा-ऽयो-हरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥३४४| तिलेक्षुसर्षपैरण्डजलयन्त्रादिपीडनम् । दलेतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥३४५।। नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥३४६।। शारिका-शुक-मार्जार-श्व-कुर्कुट-कलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥३४७|| व्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा । सरःशोषः सर:-सिन्धु-हुदादेरम्बुसंप्लवः ॥३४८॥ संयुक्ताधिकरणत्वमुपभोगातिरिक्तता । मौखर्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥३४९।। कायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामायिकव्रते ॥३५०।। प्रेष्यप्रयोगाऽऽनयने पुद्गलक्षेपणं तथा । शब्द-रूपानुपातौ च व्रते देशावकाशिके ॥३५१॥ उत्सर्गादानसंस्तारा अनवेक्ष्याऽप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥३५२॥
सचित्ते क्षेपणं तेने पिधानं काललङ्घनम् । मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥३५३॥ १. द्वन्धच्छवि० मु० । २. सदृशद्रव्यमेलनम् । ३. न्यूनाधिकमानकरणम् । ४. वेश्यागमनम् । ५. अपरिगृहीतस्त्रीगमनम् । ६. सुवर्णरूप्यातिरिक्तधातवः । ७. क्षेत्रं च वास्तु (गृहादि) च । ८. स्मृतेरन्तर्धानं विस्मृतिः । ९. सचित्तेनेत्यर्थः । १०. सम्मिश्रो० सं० । ११, अपक्वाहारः । १२. दुःपक्वा० सं० । १३. अस्मिन् हे० । १४. ठठारत्वं सुधापाककारित्वम् । १५. ०ष्टिका० सं० । १६. ०त्पेषा वृत्ति० सं० ता० । १७. ०लुलापो० मु० । १८. ०खननं मु० । १९. दलानां-पर्णानां तैलम् । २०. ०भोगोऽति० मु०। २१. पौषधे मु०। २२. सचित्तपात्रेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282