Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 221
________________ १९४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व मम भार्याविहीनस्य किं श्रियेति स चिन्तयन् । दिने दिने क्षीयते स्म कृष्णपक्ष इवोडुपः ॥६४॥ पदध्यौ धनपतिपुःखी मम पुत्रो विपत्स्यते । तव्यापारे क्षिपाम्येनं दुःखविस्मृतिहेतवे ॥६५॥ इति निर्णीय स श्रेष्ठी बन्धुदत्तं समादिशत् । व्यवहर्तुं सिंहलेषु व्रज वत्साऽन्यतोऽपि वा ॥६६।। पित्राज्ञया बन्धुदत्तो भाण्डान्यादाय भूरिशः । पोतमारुह्य जलधि लङ्घित्वा सिंहलान् ययौ ॥६७।। स सिंहलेशं साराभिरुपदाभिररञ्जयत् । सोऽपि तस्याऽमुचच्छुल्कं प्रसादाद् व्यसृजच्च तम् ॥६८।। तत्र विक्रीय भाण्डानि प्राप्य लाभं मनीषितम् । प्रतिभाण्डानि च क्रीत्वा प्रतस्थे स्वंपुरं प्रति ॥६९।। गच्छतो वार्धिमार्गेण स्वदेशान्तिकमीयुषः । दुर्वातान्दोलितं तस्य यानपात्रमभज्यत ।।७०।। स प्राप्य काष्ठफलकं किञ्चिदैवानुकूल्यतः । रत्नद्वीपमाससाद समुद्रतटभूषणम् ॥७१।। उत्तीर्य वाप्यां स्नात्वा स फलिते चूतकानने । स्वादून्यास्वादयामास चूतानि क्षुद्रुजौषधम् ॥७२।। एवं मार्गे फलाहारी स ययौ रत्नपर्वतम् । तत्राऽऽरूढो रत्नमयं चैत्यमेकं ददर्श च ॥७३॥ प्रविवेश स तच्चैत्यं तत्र चाऽरिष्टनेमिन: । ववन्दे प्रतिमां तत्र स्थितानथ महामुनीन् ॥७४।। तत्र स ज्येष्ठमुनिना पृष्टः स्वोदन्तमादित: । जगाद भार्यामरणपोतभङ्गादिकं शनैः ॥७५।। मुनिना बोधितस्तेन जिनधर्मं स शिश्रिये । स्वकीयामार्गति तत्र सफलामनुमोदयन् ।।७६।। पतत्र चित्राङ्गदो नाम विद्याधर उवाच तम् । अमुना जिनधर्मेण साधु सार्मिकोऽसि मे ॥७७|| आकाशगामिनी विद्यां किं प्रयच्छाम्यहं तव? । त्वां स्थाने वा नयामीष्टे? तुभ्यं कन्यां ददामि वा? ||७४। बन्धुदत्तोऽवदद्या ते विद्या सा खलु मद्वशा । स्थानं तदेव मेऽभीष्टं यत्रेदृग्गुरुदर्शनम् ॥७९॥ इत्युक्त्वा तत्रं तूष्णीके चिन्तयामास खेचरः । कन्यामिच्छत्यसौ तत्राऽनिषेधेऽनुमतिध्रुवम् ॥८०॥ अमुनोढा सती कन्या न हि या म्रियतेऽधुना । सम्यग्विज्ञाय तामस्मै ढौकयामि महात्मने ।।८१।। इति निश्चित्य स स्थाने बन्धुदत्तं निजेऽनयत् । आनर्च चोचितैः स्नान-भोजनादिभिरुच्चकैः ॥८२।। चित्राङ्गदोऽथ पप्रच्छ स्वान् सर्वानपि खेचरान् । किं दृष्टा भारते वर्षे काऽपि कन्याऽस्य याऽर्हति ? ||८३। मृगाङ्कलेखा तद्भातुरङ्गदस्य सुता ततः । ऊचे तात ! न किं वेत्सि मत्सखीं प्रियदर्शनाम् ? ॥८४॥ स्त्रीरत्नमिव सा रूपात् कौशाम्ब्यामस्ति मे सखी । जिनदत्तश्रेष्ठिसुता तत्पार्वेऽहमगां पुरा ॥८५|| जनयित्वा सुतमियं परिव्रज्यां ग्रहीष्यति । इत्याख्यन्मुनिरेकस्तामुद्दिश्याऽ श्रावि तन्मया ॥८६।। चित्राङ्गदोऽथाऽऽदिदेशाऽमितगत्यादिखेचरान् । दापयितुं बन्धुदत्तायोचितां प्रियदर्शनाम् ॥८७।। ते बन्धुदत्तमादाय कौशाम्ब्यां खेचरा ययुः । आवात्सुर्बहिरुद्याने पार्श्वचैत्यविभूषिते ॥८८।। बन्धुदत्तोऽपि तच्चैत्यं प्राविशत् खेचरैः सह । पार्वं ववन्दे साधूंश्च तेभ्यो धर्ममथाऽशृणोत् ।।८९॥ तत्राऽऽयातो जिनदत्तोऽप्यथ: साधर्मिकप्रियः । निनाय स्वगृहेऽभ्यर्थ्य बन्धुदत्तं सखेचरम् ।।९०॥ बन्धुदत्तं खेचरांश्च जिनदत्तः सगौरवम् । स्नानासनाद्यैः सत्कृत्य पप्रच्छाऽऽगमकारणम् ॥११॥ कामप्रयोजनमिदं कामाङ्गमनृतं खलु । इति ते खेचराः सद्यः समुत्पाद्येदमूचिरे ॥९२॥ तीर्थयात्रामुपक्रम्य रत्नाद्रेनिर्गता वयम् । अगमामोज्जयन्ताद्राववन्दिष्महि नेमिनम् ॥९३।। तत्रत्येनाऽमुना बन्धुदत्तेन निजबन्धुवत् । सार्मिका इति वयमचिंता भोजनादिना ॥९४।। असौ धर्मरतो दारविमुखश्च सदैव हि । इत्यभूदधिका प्रीतिरस्माकममुना सह ॥९५।। श्रीपाश्र्वं वन्दितुमिहोज्जयन्तादागता वयम् । बन्धुदत्तोऽप्यसावागादस्मत्स्नेहनियन्त्रितः ॥९६।। १. स्वपुरी सं० । २. क्षुध् एव रुजा-रोगः, तस्या औषधम् । ३. ०नष्ट मु० । ४. आगमनम् । ५. तस्मिन् बन्धुदत्ते तृष्णीके सति । ६. सुतमेषा मु०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282