Book Title: Trishashtishalakapurushcharitammahakavyam Parva 8 9
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 213
________________ १८६ कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं (नवमं पर्व सह यास्याम्यश्वसेनदिदृक्षाच्छद्मना त्वहम् । उपरोत्स्येऽश्वसेनं च तत्समीहितसिद्धये ॥१९१।। एवं चिन्तयता तेन कारयित्वाऽथ सौहृदम् । श्रीपार्श्वनाथो व्यसृजत् सत्कृत्य यवनं नृपम् ।।१९२।। विसृज्यमानस्त्ववदत् पार्श्वनाथं प्रसेनजित् । अहमेष्याम्यश्वसेनपादान्नन्तुमनाः प्रभो ! ॥१९३।। एवमस्त्वित्युक्तवता श्रीपाइँन सहैव सः । प्रभावतीम्पादाय ययौ वाराणसी पुरीम ॥१९४|| तत्राऽश्वसेनं शरणागतत्राणेन रञ्जयन् । उपेत्याऽऽनन्दयामास पार्श्वनाथः स्वदर्शनात् ॥१९५।। स्वमन्दिरं गते पार्वे चाऽश्वसेनं प्रसेनजित् । उपतस्थे प्रभावत्या सहितः पुरतोऽनमत् ॥१९६।। अभ्युत्थायाऽश्वसेनस्तं लुठन्तं पादयोः पुरः । उद्धत्य दोामालिङ्ग्य ससम्भ्रममदोऽवदत् ॥१९७।। कच्चित्तवाऽजनि त्राणं? कच्चित्ते कुशलं नृप ! । आयासीर्यत्स्वयमिह शङ्के किमपि कारणम् ॥ १९८॥ प्रसेनजिदुवाचैवं त्राणं च कुशलं च मे । सदैव शासिता यस्य प्रतापतपनो भवान् ॥१९९।। दुष्प्रापार्थप्रार्थकता किं त्वेको बाधतेऽद्य माम् । साऽपि च त्वत्प्रसादेन राजकुञ्जर ! सेत्स्यति ॥२०॥ कन्या प्रभावती मेऽसौ राजन् ! मदुपरोधतः । पार्श्वनाथकुमारार्थे गृह्यतां माऽन्यथा कृथाः ॥२०१॥ अश्वसेनोऽप्युवाचैवं कुमारः पार्श्व एष नः । सदा विरक्तः संसारान्न जाने किं करिष्यति ? ॥२०२॥ असौ मनोरथोऽस्माकमप्यस्त्येव सदा हृदि । कदोचितवधूद्वाहोत्सवः सूनोर्भवेदिति ॥२०३॥ तवोपरोधादधुना पार्श्वनाथं बलादपि । उद्वाहं करयिष्यामोऽनिच्छन्तमपि बाल्यतः ॥२०४।। इत्युक्त्वा सह तेनैव पार्श्वपार्वं ययौ नृपः । इमां प्रसेनजित्पुत्रीमुद्वहेति जगाद च ॥२०५॥ श्रीपाश्र्वोऽप्यब्रवीत्तात ! कलत्रादिपरिग्रहः । अपि प्रक्षीणकल्पस्य जीवाँतुर्भवशाखिनः ॥२०६।। भवारम्भाय तत्कन्यां कथं तातोद्वहाम्यहम् । तरिष्याम्येष संसारं मूलतो निष्परिग्रहः ॥२०७।। अश्वसेनोऽप्यभाषिष्ट पूरयाऽस्मन्मनोरथम् । प्रसेनजिन्नृपसुतापाणिग्रहणलक्षणम् ॥२०८।। संसारोऽपि त्वया तीर्ण एव यस्येदृशं मनः । कृतोद्वाहोऽपि तज्जत ! समये स्वार्थमाचरेः ॥२०९।। इत्थं पितृवचः पाश्र्वोऽप्युल्लङ्गितुमनीश्वरः । भोग्यं कर्म क्षपयितुमुदुवाह प्रभावतीम् ॥२१०।। जनोपरोधादुद्यानक्रीडाशैलादिषु प्रभुः । रममाणस्तया सार्धं वासरानत्यवाहयत् ॥२११॥ अधिप्रासादमन्येद्युः पावो वातायनस्थितः । पुरीं वाराणसी द्रष्टुं प्रवर्तत कुतूहलात् ॥२१२।। बहिश्च निर्यत: पुष्पोपहारपटलीभृतः । ससम्भ्रमान्नागरांश्च नागरीश्चैक्षत प्रभुः ॥२१३॥ पावोऽपच्छच्च पार्श्वस्थान् कोऽयमद्य महोत्सवः ? । दृश्यते सत्वरो गच्छन् यल्लोको भूरिभूषणः ? ॥२१४॥ अथाऽऽचचक्षे कोऽप्येवं नाऽद्य कोऽपि महोत्सवः । किं त्वन्यत् कारणं देव ! वर्तते समपस्थितम् ॥२१५॥ कठो नाम तपस्व्यद्य पुर्या बहिरिहीऽऽगतः । पञ्चाग्न्यादितपास्तं चाऽचितुं पौरा व्रजन्त्यमी ॥२१६॥ 'तद् द्रष्टुं कौतुकं पार्श्वनाथोऽपि सपरिच्छदः । ययौ कठमपश्यच्च पञ्चाग्नितपसि स्थितम् ॥२१७|| ज्ञानतत्रयधरोऽपश्यन्महान्तमुरगं प्रभुः । दह्यमानं कुण्डमध्ये क्षिप्तकाष्ठान्तरस्थितम् ॥२१८॥ तद् दृष्ट्वा करुणाम्भोधिर्भगवानभ्यधादिदम् । अहो ! अज्ञानमज्ञानं न दया यत्तपस्यपि ॥२१९।। कीदृक् सरिद्विना तोयं? कीदृगिन्दुं विना निशा? । कीदृक् प्रावृड् विना मेघं? कीदृग्धर्मो दयां विना? ।।२२०॥ कायक्लेशसहस्यापि पशोरिव शरीरिणः । निर्दयस्य कथं धर्मो धर्मतत्त्वापरिस्पृशः ।।२२१।। तदाकर्ण्य कठोऽवोचद्राजपुत्रा हि जानते । हस्त्यश्वाद्येव धर्मं तु जानीमो मुनयो वयम् ॥२२२।। तत: स्वाम्यादिदेश स्वान् कुण्डादाकृष्यतामिदम् । काष्ठं यत्नात् स्फोट्यतां च यथाऽस्य प्रत्ययो भवेत् ॥२२३॥ १. हि मु० । २. ०तोऽगमत् मु० हे० । ३. किमिह मु०। ४. दुःप्रापा० मु० विना । ५. त्वेषा सं० । ६. मे सं० । ७. संसारवृक्षस्य जीवनौषधम् । ८. नि:परि० मु० विना । ९. तत् पुत्र ! इत्यर्थः । १०. निर्गच्छतः । ११. ०पटला० मु० । १२. बहिरुपागतः सं० । १३. तं दृष्ट्वा ता० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282