________________
१८६
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
सह यास्याम्यश्वसेनदिदृक्षाच्छद्मना त्वहम् । उपरोत्स्येऽश्वसेनं च तत्समीहितसिद्धये ॥१९१।। एवं चिन्तयता तेन कारयित्वाऽथ सौहृदम् । श्रीपार्श्वनाथो व्यसृजत् सत्कृत्य यवनं नृपम् ।।१९२।। विसृज्यमानस्त्ववदत् पार्श्वनाथं प्रसेनजित् । अहमेष्याम्यश्वसेनपादान्नन्तुमनाः प्रभो ! ॥१९३।। एवमस्त्वित्युक्तवता श्रीपाइँन सहैव सः । प्रभावतीम्पादाय ययौ वाराणसी पुरीम ॥१९४|| तत्राऽश्वसेनं शरणागतत्राणेन रञ्जयन् । उपेत्याऽऽनन्दयामास पार्श्वनाथः स्वदर्शनात् ॥१९५।। स्वमन्दिरं गते पार्वे चाऽश्वसेनं प्रसेनजित् । उपतस्थे प्रभावत्या सहितः पुरतोऽनमत् ॥१९६।। अभ्युत्थायाऽश्वसेनस्तं लुठन्तं पादयोः पुरः । उद्धत्य दोामालिङ्ग्य ससम्भ्रममदोऽवदत् ॥१९७।। कच्चित्तवाऽजनि त्राणं? कच्चित्ते कुशलं नृप ! । आयासीर्यत्स्वयमिह शङ्के किमपि कारणम् ॥ १९८॥ प्रसेनजिदुवाचैवं त्राणं च कुशलं च मे । सदैव शासिता यस्य प्रतापतपनो भवान् ॥१९९।। दुष्प्रापार्थप्रार्थकता किं त्वेको बाधतेऽद्य माम् । साऽपि च त्वत्प्रसादेन राजकुञ्जर ! सेत्स्यति ॥२०॥ कन्या प्रभावती मेऽसौ राजन् ! मदुपरोधतः । पार्श्वनाथकुमारार्थे गृह्यतां माऽन्यथा कृथाः ॥२०१॥ अश्वसेनोऽप्युवाचैवं कुमारः पार्श्व एष नः । सदा विरक्तः संसारान्न जाने किं करिष्यति ? ॥२०२॥ असौ मनोरथोऽस्माकमप्यस्त्येव सदा हृदि । कदोचितवधूद्वाहोत्सवः सूनोर्भवेदिति ॥२०३॥ तवोपरोधादधुना पार्श्वनाथं बलादपि । उद्वाहं करयिष्यामोऽनिच्छन्तमपि बाल्यतः ॥२०४।। इत्युक्त्वा सह तेनैव पार्श्वपार्वं ययौ नृपः । इमां प्रसेनजित्पुत्रीमुद्वहेति जगाद च ॥२०५॥ श्रीपाश्र्वोऽप्यब्रवीत्तात ! कलत्रादिपरिग्रहः । अपि प्रक्षीणकल्पस्य जीवाँतुर्भवशाखिनः ॥२०६।। भवारम्भाय तत्कन्यां कथं तातोद्वहाम्यहम् । तरिष्याम्येष संसारं मूलतो निष्परिग्रहः ॥२०७।। अश्वसेनोऽप्यभाषिष्ट पूरयाऽस्मन्मनोरथम् । प्रसेनजिन्नृपसुतापाणिग्रहणलक्षणम् ॥२०८।। संसारोऽपि त्वया तीर्ण एव यस्येदृशं मनः । कृतोद्वाहोऽपि तज्जत ! समये स्वार्थमाचरेः ॥२०९।। इत्थं पितृवचः पाश्र्वोऽप्युल्लङ्गितुमनीश्वरः । भोग्यं कर्म क्षपयितुमुदुवाह प्रभावतीम् ॥२१०।। जनोपरोधादुद्यानक्रीडाशैलादिषु प्रभुः । रममाणस्तया सार्धं वासरानत्यवाहयत् ॥२११॥ अधिप्रासादमन्येद्युः पावो वातायनस्थितः । पुरीं वाराणसी द्रष्टुं प्रवर्तत कुतूहलात् ॥२१२।। बहिश्च निर्यत: पुष्पोपहारपटलीभृतः । ससम्भ्रमान्नागरांश्च नागरीश्चैक्षत प्रभुः ॥२१३॥ पावोऽपच्छच्च पार्श्वस्थान् कोऽयमद्य महोत्सवः ? । दृश्यते सत्वरो गच्छन् यल्लोको भूरिभूषणः ? ॥२१४॥ अथाऽऽचचक्षे कोऽप्येवं नाऽद्य कोऽपि महोत्सवः । किं त्वन्यत् कारणं देव ! वर्तते समपस्थितम् ॥२१५॥ कठो नाम तपस्व्यद्य पुर्या बहिरिहीऽऽगतः । पञ्चाग्न्यादितपास्तं चाऽचितुं पौरा व्रजन्त्यमी ॥२१६॥ 'तद् द्रष्टुं कौतुकं पार्श्वनाथोऽपि सपरिच्छदः । ययौ कठमपश्यच्च पञ्चाग्नितपसि स्थितम् ॥२१७|| ज्ञानतत्रयधरोऽपश्यन्महान्तमुरगं प्रभुः । दह्यमानं कुण्डमध्ये क्षिप्तकाष्ठान्तरस्थितम् ॥२१८॥ तद् दृष्ट्वा करुणाम्भोधिर्भगवानभ्यधादिदम् । अहो ! अज्ञानमज्ञानं न दया यत्तपस्यपि ॥२१९।। कीदृक् सरिद्विना तोयं? कीदृगिन्दुं विना निशा? । कीदृक् प्रावृड् विना मेघं? कीदृग्धर्मो दयां विना? ।।२२०॥ कायक्लेशसहस्यापि पशोरिव शरीरिणः । निर्दयस्य कथं धर्मो धर्मतत्त्वापरिस्पृशः ।।२२१।। तदाकर्ण्य कठोऽवोचद्राजपुत्रा हि जानते । हस्त्यश्वाद्येव धर्मं तु जानीमो मुनयो वयम् ॥२२२।।
तत: स्वाम्यादिदेश स्वान् कुण्डादाकृष्यतामिदम् । काष्ठं यत्नात् स्फोट्यतां च यथाऽस्य प्रत्ययो भवेत् ॥२२३॥ १. हि मु० । २. ०तोऽगमत् मु० हे० । ३. किमिह मु०। ४. दुःप्रापा० मु० विना । ५. त्वेषा सं० । ६. मे सं० । ७. संसारवृक्षस्य जीवनौषधम् । ८. नि:परि० मु० विना । ९. तत् पुत्र ! इत्यर्थः । १०. निर्गच्छतः । ११. ०पटला० मु० । १२. बहिरुपागतः सं० । १३. तं दृष्ट्वा ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org