________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् । लक्षशः सप्तिभिः सप्तसप्तिसप्तिविडम्बिभिः । सहस्रशो भद्रगजैर्महेन्द्रगजसन्निभैः ॥१५८॥ रथैः सुरविमानाभैः पत्तिभिः खेचरोपमैः । भूषितं प्रेक्ष्य तत्सैन्यं यवनोऽतिविसिष्मिये ॥१५९।। भटैः सविस्मयावज्ञैर्वीक्ष्यमाणः पदे पदे । क्रमेण यवनः स्वामिप्रासादद्वारमासदत् ।।१६०॥ वेत्रिणा विज्ञपय्याऽथ सभायां स प्रवेशितः । दूरादपि नमश्चके दिवाकरमिव प्रभुम् ॥१६१।। स्वामिना मोचितग्रीवाकुठारो यवनः पुनः । नत्वाऽग्रत उपाविक्षज्जगाद च कृताञ्जलिः ॥१६२।। “यस्याऽऽज्ञाकारिणः सर्वेऽपीन्द्रास्तस्य तवाऽग्रतः । कोऽहं नृकीटः कृपीटयोनेरिव तृणोत्करः ? ॥१६३।। कृपां कुर्वन् प्रेष्य दूतमद्य मामशिषः खलु । तव भ्रूभङ्गमात्रेण भस्मसान्न भवामि किम् ? ॥१६४।। गुणाय खलु जातोऽसौ स्वामिन्नविनयोऽपि मे । यदद्राक्षं भवत्पादाञ्जगत्रयपवित्रकान् ॥१६५॥ क्षमस्वेति कथं ब्रूयां? तव कोपोऽपि नास्ति यत् । तुभ्यं स्वयंग्रहेशाय यच्छामीत्यपि नोचितम् ॥१६६।। इन्ट्रैस्ते सेव्यमानस्य सेवकोऽस्मीति किंवचः । अभयं देहीति का वाक् स्वयं ह्यभयदायिनः ॥१६७॥ तथाऽप्यज्ञानतो वच्मि प्रसीदाऽऽदत्स्व मे श्रियम् । सेवकस्तेऽस्मि वितराऽभयं भीतस्य मे प्रभो ! ॥१६८।। श्रीपार्श्वनाथोऽप्यवदद्भद्र ! भद्राणि सन्तु ते । मा भैषीः शाधि राज्यं स्वं मा कार्षीः पुनरीदृशम् ॥१६९।। तथेति प्रतिपेदानं तं सच्चक्रे जगद्गुरुः । प्राज्यप्रसाददानेन महतां हीदृशी स्थितिः ॥१७०।। "अभूदुद्वेष्टनं सद्यः कुशस्थलपुरस्य च । पार्श्वनाथमनुज्ञाप्य ययौ च पुरुषोत्तमः ॥१७१।। प्रसेनजिन्नरेन्द्राय तं वृत्तान्तं शशंस स: । हर्ष एकातपत्रोऽभूत् तत्पुरे च तदैव हि ॥१७२॥ दध्यौ प्रसेनजित् प्रीतो भाग्यवानस्मि सर्वथा । सर्वथा भाग्यवत्येषा मम वत्सा प्रभावती ॥१७३।। नाऽभून्मनोरथोऽप्येष यत्सुरासुरपूजितः । पार्श्वनाथकुमारो मे नगरं पावयिष्यति ॥१७४।। उपायनमिमामेव समादाय प्रभावतीम् । उपतिष्ठे पार्श्वनाथकुमारमुपकारिणम् ॥१७५।। 'प्रसेनजिद्विमृश्यैवमुपादाय प्रभावतीम् । हृष्टो हृष्टपरीवारः पार्श्वनाथमुपाययौ ॥१७६।। स पार्श्वस्वामिनं नत्वा प्रोवाचैवं कृताञ्जलिः । अनभ्रवृष्टिवद्दिष्ट्या स्वामिन्नागमनं तव ॥१७७॥ द्विषन्नप्यपकारी मे यवनो येन विग्रहे । अनुग्रहं मे व्यधित जगत्रयपतिर्भवान् ॥१७८।। दययाऽन्वग्रही थ ! यथैवाऽऽगमनेन माम् । प्रभावतीविवाहेनाऽनुगृहाण तथैव हि ॥१७९।। दष्प्रापप्रार्थिका चेयं दूरं त्वय्यनरागिणी । कृपां कुरु तदेतस्यां कृपालुस्त्वं निसर्गतः ॥१८०।। प्रभावती चेति दध्यौ किन्नरीभ्यः पुरा श्रुतः । दृष्टश्चाऽद्य कुमारोऽयं दृक् श्रुत्याँ संवदत्यहो ! ॥१८१।। दाक्षिण्यवान् कृपालुश्च श्रूयते दृश्यतेऽपि च । उपरुद्धश्च तातेन मदर्थे साधु सम्प्रति ॥१८२।। स्वभाग्याप्रत्ययादद्य तथापि चकिताऽस्म्यहम् । किं मंस्यते तातवचो न वेत्याशङ्कयाऽऽकुला ? ||१८३|| एवं तस्यां चिन्तयन्त्यां प्रसेनजिति चोन्मुखे । बभाषे पार्श्वकुमारो मेघनिर्घोषधीरवाक् ॥१८४।। ताताज्ञया त्रातुमेव त्वामायाताः प्रसेनजित् ! । भवतः कन्यकामेतामुद्वोढुं न पुनर्वयम् ॥१८५।। तदत्र माऽऽग्रहं कार्षीः कुशस्थलपते ! वृथा । तातान्तिकं व्रजिष्यामः कृततातगिरो वयम् ॥१८६।। तच्च प्रभावती श्रुत्वा विषण्णैवमचिन्तयत् । चन्द्रात्तचिष्पतनं यदस्मादीदृशं वचः ॥१८७।। अयं कृपालुः सर्वत्राऽभवन्मयि तु निष्कृपः । कथं भविष्यसि हहा मन्दभाग्ये प्रभावति !? ॥१८८॥ सदाऽर्चिताः कुलदेव्यः सद्यस्तातस्य सम्प्रति । केञ्चिद्दर्शयतोपायं क्षीणोपायोऽधुना ह्ययम् ॥१८९।।
पदध्यौ प्रसेनजिच्चैवं स्वयं सर्वत्र निःस्पृहः । अश्वसेनोपरोधात्तु कर्ताऽसौ मन्मनोरथम् ॥१९०॥ १. सप्तसप्त० सं० हे० । २. अग्नेः । ३. स्वयंगृहे० सं० विना । स्वयं ग्रहणे समर्थाय । ४. कुवचः । ५. च सं० । ६. दुःप्राप मु० विना । ७. श्रुत्या: मु० । ८. दाक्षिण्यवाक् मु० । ९. ०त्तदर्चि पतनं सं० । १०. यद् अस्मात्-पार्श्वकुमाराद् ईदृशं वचो निर्गतं तत् चन्द्रादर्चिषोऽग्ने: पतनसदृशम् । ११. निःकृपः सं० । १२. किञ्चि० सं० । १३. स्वयं तु सर्वनिःस्पृहः मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org