________________
१८४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
(नवमं पर्व
क्षत्रियाणां स्थितिरिति दयया चाऽऽदितः प्रभुः । अनुशिष्योपयवनं प्रैषीदूतं सुमेधेसम् ।१२५॥ स गत्वा यवनं स्माऽऽह स्वामिशक्त्या ससौष्ठवम् । श्रीमत्पार्श्वकुमारस्त्वां मन्मुखेनाऽऽदिशत्यदः ॥१२६।। तातं शरणमापन्नो नरेन्द्रोऽयं प्रसेनजित् । मोच्यो रोधाद्विरोधाच्च तदिदानीं त्वया नृप ! ॥१२७।। स्वयं प्रचलितं तातं निवार्य कथमप्यहम् । हेतुमात्रेणाऽमुनैव समागममिहाऽवनौ ।।१२८।। व्यावर्तस्व निजं स्थानमाश्रयस्व झगित्यपि । सोढ एवाऽपराधोऽयं तवाऽपसरतः सतः ॥१२९।। उत्कटभ्रुकुंटीभीमललाटो यवनोऽप्यथ । अवदद्दूत ! किमिदमवादीमा॑ न वेत्सि किम् ? ॥१३०॥ बालः क एष पार्वोऽत्र य आगाच्चापलाधुधि । को वॉऽश्वसेनः स्थविरश्चचाल प्रथमं च यः ? ॥१३॥ तौ द्वावपि कियन्मात्रं तदृह्याश्चाऽपरे नृपाः । तद् गच्छ पार्श्व एवाऽपयातु स्वकुशलेच्छया ॥१३२॥ दूतत्वात्त्वमवध्योऽसि विवदन्नपि निष्ठुरम् । जीवन् विमुक्तस्तद् गच्छ सर्वं स्वस्वामिने वद ॥१३३॥ दूतो भूयोऽप्युवाचैवं त्वां बोधयितुमेव माम् । कृपया प्राहिणोन्नाथो न त्वशक्त्या दुराशय ! ॥१३४।। कुशस्थलनराधीशं यथा तित्राँसते प्रभुः । न जिघांसुस्तथैव त्वां यद्याज्ञां विदधासि भोः ! ॥१३५।। दिव्यप्यखण्डां स्वाम्याज्ञां खण्डयन्नियसे स्वयम् । स्पृशन्नुचिषं वह्नि पतङ्ग इव मूढधीः ॥१३६। क्व खद्योतो विश्वविश्वोद्योती प्रद्योतनः क्व च ? । क्व राजमात्रं त्वमसि क्व पार्श्वस्त्रिजगत्पतिः ? ||१३७|| इति ब्रुवाणं तं दूतं कुंद्धा यवनसैनिकाः । उदायुधाः समुत्तस्थुर्जजल्पुश्चैवमुच्चकैः ॥१३८॥ वैरं स्वस्वामिना सार्धमरे ! किमपि तेऽस्ति यत् । तद्बोहाय वदस्येवमुपायज्ञोऽसि साधु रे ! ॥१३९।। तेष्वेवं विब्रुवाणेषु रोषाच्च प्रजिहीर्षुषु । वृद्धामात्योऽभ्यधत्तैवमाक्षेपपरुषाक्षरम् ।।१४०॥ नायं स्वस्वामिनो वैरी भवन्तो वैरिणः परम् । एवं ये स्वेच्छया भर्तुरनर्थं जनयन्ति हा ! ॥१४१॥ आज्ञाऽपि विश्वनाथस्य पार्श्वनाथस्य लङ्घिता । न हि क्षेमाय वो मूढाः किं पुनर्दूतघातनम् ? ॥१४२॥ भृत्यैरेवंविधैः स्वामी दुर्दान्तैस्तुरगैरिव । आकृष्याऽनर्थकान्तारे क्षिप्यते हि क्षणादपि ॥१४३॥ युष्माभिर्धर्षिता दूताः पुराऽन्येषां क्षमाभुजाम् । कुशलं तत्र वो जातं मल्लस्तेभ्यो हि नः प्रभुः ॥१४४॥ यस्य हीन्द्राश्चतुःषष्टिः सेवकास्तेन विग्रहः । कोऽयं स्वभर्तुरानीतो दुविनीतैर्नुकीटकैः ? ||१४५।। इति ते शिक्षिताः सर्वे भीताः शान्ति ययुर्भटाः । तं च दूतं करे धृत्वा मन्त्री साम्नेत्यवोचत ।।१४६।। अज्ञानादेवमुक्तं ते शस्त्रमात्रोपजीविभिः । सोढव्यं तत्त्वया विद्वन् ! सेवकोऽसि क्षमानिधेः ॥१४७।। शासनं पार्श्वपादानां प्रत्येष्टुं शिरसा स्वयम् । तवाऽनुपदमेष्यामो माऽऽख्यस्त्वं भर्तुरीदृशम् ॥१४८।। इति सम्बोध्य सत्कृत्य तं दूतं विससर्ज सः । हितकामी निजं नाथमित्यभाषिष्ट चाऽऽदरात् ॥१४९।। पाकिं स्वामिन्नविमृश्येदं कृतमासींरायति ? । इयताऽपि क्षतिर्नास्ति पार्श्वनाथं समाश्रय ॥१५०।। देवताः सूतिकाकर्म धात्रीकर्म च देवताः । इन्द्राश्च सामरा जन्मस्नपनं यस्य चक्रिरे ॥१५१।। सेन्द्राः सुरासुरा यस्य पत्तयस्तेन विग्रहे । तव 'ग्रहिलता केयमुरभ्रस्येव दन्तिना ? ॥१५२।। क्व गरुत्मान् क्व काकोलः? क्व सुमेरुः क्व सर्षपः?। क्व शेषाहिः क्व काहिः? क्व पार्श्वः क्व भवादशः? ||१५३।। न यावज्ज्ञायसे लोकैस्तावदात्महितेच्छया । कण्ठे कुठारं विन्यस्योपतिष्ठस्वाऽश्वसेनजम् ।।१५४॥ प्रतीच्छ शासनं पार्श्वस्वामिनो विश्वशासितुः । स्थास्यन्ति शासने येऽस्य तेऽत्राऽमुत्र च निर्भयाः ॥१५५।। विमृश्य यवनोऽप्यूचे साध्वहं बोधितस्त्वया । अस्मादनर्थाज्जडधीरन्धोऽन्धोरिव रक्षितः ॥१५६॥
इत्युक्त्वा सपरीवारः कण्ठे बद्ध्वा परश्वधम् । यवनोऽगात्तदुद्यानं श्रीपार्श्वस्वाम्यलङ्कतम् ॥१५७।। १. चोदितः मु० । २. बुद्धिमन्तम् । ३. ०भृकुटी० सं. । ४. ०धंधे मु० । ५. ०सेनस्थवि० मु. । ६. त्वा इति पाठः मुद्रितेऽन्यप्रतिषु च; सोऽत्र संशोधित: 'त्वां' इति । ७. तित्रासिते सं० ता० । तित्रायते मु० । त्रातुमिच्छति । ८. सूर्यः । ९. क्रुधा मु० हे० । १०. तत्क्षणा० ता० विना । ११. ०र्नुकण्टकैः सं० । १२. निजनाथ० मु० । १३. किं वा स्वामिन् ! वि० मु० । १४. अशुभः आयतिः-उत्तरकालः यस्मात् तत्तथा । १५. सुराः स्वयं यस्य हे० । १६. उन्मत्तता । १७, अजस्य । १८. कूपात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org