________________
तृतीयः सर्गः)
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
१८३
प्रतिपच्चन्द्रलेखेव सा बभूव तथा कृशा । यथाऽलक्ष्यत कामस्य धनुर्यष्टिरिवाऽपरा ॥९३॥ दिने दिनेऽतिविधुरां पितरौ प्रेक्ष्य तां सुताम् । निश्चिक्याते प्रेषयितुमधिपाश्र्वं स्वयंवराम् ॥९४|| तच्चाऽज्ञासीत् कलिङ्गादिदेशानामेकनायकः । यवनो नाम दुर्दान्तः पर्षद्येवमुवाच च ॥९५॥ मयि सत्यपि किं कोऽपि पावो वोढा प्रभावतीम्? । कोऽयं कुशस्थलपतिर्यस्तां मह्यं न दास्यति? ॥९६॥ यदि वा याचका एव दत्तं गृह्णन्ति वस्त्विह । आच्छिद्यग्राहिणो वीरास्तेषां सर्वं स्वमेव हि ॥९७|| इत्युक्त्वा भूरिभिः सैन्यैरनन्यसमविक्रमः । कुशस्थलपुरं वेगाँदेत्याऽरौत्सीदनेकधा ॥९८॥ न कस्याऽप्यभवत्तंत्र प्रवेशो निष्कमोऽपि वा । नभस्वत इव ध्यानस्थितयोगीन्द्रवर्मणि ॥९९।। अहं तु प्रेषितो राज्ञा निशीथे निरगां पुरात् । पुरुषोत्तम इत्यस्मि मन्त्रिसागरदत्तसूः ॥१००॥ इमं वृत्तान्तमाख्यातुमिहाऽऽगममतः परम् । देवः करोतु यत्कृत्यं स्वजनेऽरिजनेऽपि च ॥१०१॥ पततः क्रुद्धोऽश्वसेनोऽपि बँकुटीविकटेक्षणः । इत्युवाच वचःसारं वज्रनिर्घोषभीषणम् ॥१०२॥ कोऽयं वराको यवनः? का भीर्वो मयि सत्यपि? । एषोऽभिषेणयिष्यामि पुरं त्रातुं कुशस्थलम् ॥१०३॥ इत्युक्त्वाऽवादयद् भम्भां जम्भारिरिव विक्रमात् । अश्वसेनोऽथ तत्सेनास्तन्नादेनाऽमिलन् द्रुतम् ॥१०४।। एक्रीडन् क्रीडागृहे पावो भम्भायास्तं महाध्वनिम् । मिलतां सैनिकानां च शुश्राव तुमुलं तदा ॥१०५॥ किमेतदिति सम्भ्रान्तः पार्श्वः पार्वे पितुर्ययौ । तत्र चाऽऽगच्छतोऽपश्यद्रणसज्जांश्चमूपतीन् ॥१०६॥ प्रणम्य पितरं चैवं कुमारोऽवोचदुच्चकैः । दैत्यो यक्षो राक्षसो वा किमन्यो वाऽपराध्यति ? ॥१०७|| यदर्थमभियोगोऽयं स्वयं तातस्य दोष्मतः । समं वाऽप्यधिकं वाऽपि न ते पश्यामि कञ्चन ॥१०८।। प्रसेनजित्तमाचख्यौ त्रातव्यो यवनान्नृपात् । अश्वसेननृपोऽङ्गुल्या दर्शयन् पुरुषोत्तमम् ॥१०९।। भूयः कुमारोऽभाषिष्ट तातस्य पुरतो युधि । न सुरो नाऽसुरोऽप्यस्ति नृमात्रं यवनः कियान् ? ॥११०।। अलं तातस्य यानेन प्रयास्याम्यहमेव हि । तस्य स्वान्यानभिज्ञस्य करिष्ये शिक्षणं क्षणात् ॥११॥ अवादीदश्वसेनोऽपि वत्स ! क्रीडोत्सवेन ते । मन्मनः प्रीयते कष्टै रणयात्रादिभिर्न तु ॥११२।। जानेऽहं स्वकुमारस्य जगत्रयजयक्षमम् । दोर्बलं किन्तु मे हर्षः सद्मनि क्रीडति त्वयि ॥११३।। प्रत्यूचे पार्श्वनाथोऽपि क्रीडेयमपि तात ! मे । नाऽऽयासमात्रमप्यत्र पूज्यास्तिष्ठन्त्विहैव तत् ॥११४॥ एवमत्या
स्तद्भजविक्रमम् । तत्प्रत्यपादि वचनं वचनीयविवजितम् ॥११५॥ पित्रा विसृष्टः श्रीपावो द्विपारूढः शुभे क्षणे । तेनाऽनुयातः पुरुषोत्तमेन प्रास्थितोत्सवात् ॥११६।। प्रदत्तैकप्रयाणे च प्रभौ शक्रस्य सारथिः । आगत्य नत्वा चोवाच रथोत्तीर्णः कृताञ्जलि: ॥११७|| क्रीडयाऽपि युयुत्सुं त्वां स्वामिन् ! ज्ञात्वा पुरन्दरः । रथं साङ्ग्रामिकं प्रैषीन्मया सारथिना सह ॥११८॥ जगत्रयं तणमिदं स्वामिवीर्यस्य वेत्त्यदः । तथापि शक्रः स्वां भक्तिं समये दर्शयत्यमूम् ॥११९।। अपरिस्पृष्टभूपृष्ठं विविधायुधपूरितम् । स्वामी शक्रानुग्रहाय तमारोहन्महारथम् ॥१२०॥ तिमतेजा इवोत्तेजा रथेन व्योमयायिना । श्रीपार्श्वनाथः प्रययौ स्तूयमानो नभश्चरैः ॥१२१॥
अन्वियाय च भूमिष्ठं रणप्रष्ठं प्रभोर्बलम् । मुहुर्मुहुः प्रभुं द्रष्टुमुत्पश्यैः शोभितं भटैः ॥१२२॥ क्षणेनाऽपि क्षमो गन्तुमेकोऽपि विजयक्षमः । स्वामी सैन्योपरोधेन ययौ हुस्वैः प्रयाणकैः ॥१२३।। दिनैः कतिपयैश्चाऽऽप कुशस्थलमथाऽवसँत् । उद्यानान्तः सुरकृते प्रासादे सप्तभूमिके ॥१२४।।
१. तत्राज्ञा० मु० । २. सर्वस्व० मु० । ३. वेगादभ्यारौ० मु० । ४. ०भवदत्र मु० । ५. नि:क्रमो सं०हे.ता० । ६. वायोः । ७. शरीरे। ८. भृकुटी० सं०ता० । ९. प्रत्यु० मु० । १०. कृष्णः । ११. प्रसेनजित० मु० विना । १२. नृपोऽत्र मु० । १३.
स्थामानभि० मु० । १४. प्रीतये सं० । १५. अस्पृष्टभूतलम् । १६. तीव्रतेजा:-सूर्यः । १७. रणे दक्षम् । १८. ०थाऽविशत् सं० Jain Education International For Private & Personal Use Only
www.jainelibrary.org